________________
16
भाष्यगाथाः १६४-६९)
पीठिका। __ भावस्यानुयोगः औदयिकादीनां भावानामन्यतमो यो यथास्थितो भावस्तस्य कथनम् । भावानामनुयोगो द्विकादीनां भावानां सन्निकाशे-संयोगे यावन्तो भङ्गा भवन्ति तेषां कथनम् ॥ १६६ ॥ ____ भावेण संगहाईअन्नयरेणं दुगाइभावेहिं ।
भावेन भावम्मि खओवसमे, भावेसु य नत्थि अणुयोगो॥ १६७॥ भावे भावेनानुयोगः सङ्ग्रहादीनां पञ्चानां भावानामन्यतमेन । ते च सङ्ग्रहादयः पञ्च भावा इमे- भावेषु .
चानुयोगः पंचहिं ठाणेहिं सुयं वाइज्जा, तं जहा-संगहट्ठयाए, उवग्गहट्ठयाए, निज्जरट्टयाए, सुयपजवजाएणं, अव्वुच्छित्तीए ये । (स्थानाङ्गे ५ स्थाने ३ उद्देशे सूत्रं ४६८ पत्रं ३५०)
तत्र-कथं ममैते शिष्याः सूत्रार्थसङ्ग्राहकाः सम्पत्स्यन्ते ? इति सङ्ग्रहार्थता, कथं नु नाम गीतार्था भूत्वा वस्त्राद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति ? इत्युपग्रहार्थता, ममाप्येतान् 10 वाचयतः कर्मनिर्जरा विपुला भविष्यतीति कर्मनिर्जरायंता, तथा श्रुतपर्यवजात-श्रुतपर्यायराशिर्ममापि वृद्धि यास्यतीति चतुर्थ श्रुतपर्यवजातं कारणम्, श्रुतस्य शिष्य-प्रशिष्यपरम्पराङ्गतया अव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिकारणम् ।। __ भावैरनुयोगः एतेषां पञ्चानां भावानां द्विवादिभिर्भावः । भावेऽनुयोगः क्षायोपशमिके। भावेषु त्वनुयोगो नास्ति, क्षायोपशमिकभावस्यैकत्वात् ॥ १६७ ॥
अहवा आयाराइसु, भावेसु उ एस होइ अणुओगो।।
सामित्तं आसज व, परिणामेसु बहु विहेसुं ॥ १६८॥ अथवा भावेष्वप्येषोऽनुयोगो भवति। केषु ? इत्याह-आचारादिषु द्वादशखङ्गेषु ये भावास्तेषु, अथवा खामित्वमासाद्य ये औदयिकादयो बहवः परिणामास्तेषु, यदि वा क्षायोपशमिकोऽपि भावः प्रतिक्षणमन्यथाऽन्यथा परिणमते ततस्तेषु व्यवस्थितस्य व्याख्यां कुर्वतो भावेष्वनुयोगः 30 ॥ १६८ ॥ अथ द्रव्य-क्षेत्र-काल-भावानां परस्परं समवतारोऽस्ति ? न वा ? अस्तीति ब्रूमः । कथम् ? इत्याहदव्वे नियमा भावो, न विणा ते यावि खित्त-कालेहि।
परस्परं खित्ते तिण्ह वि भयणा, कालो भयणाय तीसुं पि ॥ १६९ ॥
समवतारः द्रव्ये नियमाद्भावः, भावं विना द्रव्यस्याऽसम्भवात् , नहि तदस्ति द्रव्यं यद्भावशून्यमिति । 25 "न विणा ते यावि खित्त-कालेहिं" इति न च 'तावपि' द्रव्य-भावौ क्षेत्र-कालाभ्यां विना । तथाहि-क्षेत्रं विना न द्रव्यम् , आधारमन्तरेणाऽऽधेयस्याऽसम्भवात् ; ततस्तद्गतो भावोऽपि न क्षेत्रं विना; कालं विना द्रव्य-भावाभावः समयक्षेत्रापेक्षया, नहि समयक्षेत्रे तदस्ति द्रव्यं भावो वा यः कालं विना । अन्यत्र तु नैष नियमः, तथा चाह-क्षेत्रे 'त्रयाणामपि' द्रव्य-कालभावानां भजना । तत्र काल: समयक्षेत्रे भवति अन्यत्र नेति कालभजना । द्रव्य-भावावपि 30
१“सुत्ते वा मे पजवयाते भविस्सति, सुत्तस्स वा अवोच्छित्तिणयट्ठयाते" इति पाठो मुद्रितस्थानाङ्गे ॥ २°लो नियमा उतीसं ता० । “एतेस पुण दव्व-खेत्त-भावेस णियमा कालो भवति । आह कथमेतदवगन्तव्यम् ? इति, उच्यते-........'कालो णियमा तु तीसुं पि'त्ति समयखेत्तमहिकिचा।" इति चूर्णी ।
For Private & Personal Use Only
द्रव्यादीनां
Jain Education International
www.jainelibrary.org