________________
अजीब
द्रव्यस्या
नुयोगः
द्रव्येण
द्रव्यैः
द्रव्ये
द्रव्याणा
मनुयोगः 15
द्रव्येष्वनुयोगः
5
30
४८
अधुना द्रव्यादिभिरजीवद्रव्यस्यानुयोगमाह
एमेव अजीवस्स वि, परमाणू देव्वमेगदव्वं तु । खेत्ते एगपएसे, ओगाढो सो भवे नियमा ।। १५५ ॥ समयाइ ठिति असंखा, ओसप्पिणीओ हवंति कालम्मि | वणादि भावणंता, एवं दुपदेसमादी वि ।। १५६ ॥ 'एवमेव' अनेनैव प्रकारेण 'अजी वस्यापि' अजीवद्रव्यस्याप्यनुयोगो वक्तव्यः । तद्यथापरमाणुर्द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढः, कालतो जघन्यतः स्थितिः 'समयादि' एको द्वौ त्रयो वा समयाः, उत्कर्षतः 'असङ्ख्याः' असङ्ख्येयां अवसर्पिण्य उत्सर्पिण्यश्च भवन्ति, भावतोऽनन्ता वर्णादिपर्यायाः, तद्यथा - अनन्ता वर्णपर्यवाः, अनन्ता गन्धपर्यवाः, यावदनन्ताः 10 स्पर्शपर्यवा इति । एवं ‘द्विप्रदेशादेरपि' द्विप्रदेशिकस्य त्रिप्रदेशिकस्य यावदनन्तप्रदेशिकस्योपयुज्य वक्तव्यम्, तद्यथा - द्विप्रदेशिकः स्कन्धो द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढो द्विपदेशावगाढो वा, कालतो जघन्यतः स्थितिः समयादिः, उत्कर्षतोऽसङ्ख्येया उत्सर्पिण्यव सर्पिण्य इत्यादि ॥ १५५ ॥ १५६ ॥ सम्प्रति द्रव्याणामनुयोगमाहदव्वाणं अणुयोगो, जीवमजीवाण पजवा नेया ।
तत्थ वि यमग्गणाओ, गेगा सट्ठाण परठाणे ॥ १५७ ॥
द्रव्याणामनुयोगो द्विधा - जीवद्रव्याणामजीवद्रव्याणां च । किंरूपोऽसौ ? इत्याह- ' पर्यायाः' प्ररूप्यमाणा ज्ञेयाः, तथाहि — कैति विधा भदन्त ! पर्यायाः प्रज्ञप्ताः ? गौतम ! द्विविधाः, तद्यथाजीवद्रव्याणामजीवद्रव्याणां च । तत्राप्यनेकाः स्वस्थाने परस्थाने च मार्गणाः, ताश्चैवम्-नैरयिकाणामसुरकुमाराणां च कति पर्यायाः प्रज्ञप्ताः ? गौतम ! अनन्ताः । अथ केनार्थेनेदमुच्यते ? 20 गौतम ! नैरयिकोऽसुरकुमारस्य द्रव्यार्थतया तुल्यः प्रत्येकमेकद्रव्यत्वात्, प्रदेशार्थतयाऽपि तुल्यः प्रत्येकं लोकाकाशप्रदेशतुल्य प्रदेशत्वात् स्थित्या चतुःस्थानपतितः, भावतः षट्स्थानपतितः, ततो भवन्ति नैरयिकाणामसुरकुमाराणां च प्रत्येकं पर्याया अनन्ताः । अजीवद्रव्याणां पर्यायेवेवं स्वस्थाने परस्थाने च मार्गणा - परमाणुपोग्गलाणं भंते! दुपएसियाण य संधाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अनंता । से केणद्वेणं भंते ! एवं वुचइ ? गोयमा ! पर25 माणुपोग्गले दुपएसियस्स खंधस्स दबट्टयाए तुल्ले परसट्टयाए हीणे, नो तुल्ले नो अहिए, जह ही परसहीणे ठिईए चउट्टाणवडिए वण्णादिपज्जवेहिं छट्ठाणवडिए । ततो भवन्ति द्वयानामपि प्रत्येकमनन्ताः पर्यायाः । एवमनेकधा जीवद्रव्याणामजीवद्रव्याणां चाऽनुयोगः सूत्रे तत्र तत्र प्रदेशेऽभिहितो भावनीयः ॥ १५७ ॥ तदेवं द्रव्यस्य द्रव्याणां चेति स्वामित्वं गतम्, इदानीं करणे एकत्व-बहुत्वाभ्यामनुयोगमाह -
वत्तीए अक्खेण व, करंगुलादीण वा वि दव्वेण । अक्खेहि उदव्वेहिं, अहिगरणे कप्प कप्पेसु ॥ १५८ ॥
सनिर्युक्ति-भाष्य-वृचिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
Jain Education International
१ दव्वे एक्कदव्वं तु ता० ॥ २° या उत्सर्पिण्य अवसर्पिण्यश्च भा० विना ॥ ३-४ एतानि सर्वाण्यपि सूत्राणि प्रज्ञापनोपाने पचमे पर्यायाख्ये पदे वरीवृत्यन्ते ॥
For Private & Personal Use Only
www.jainelibrary.org