SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा : १४६ - ५४ ] पीठिका | गस्य वक्तव्यः । तदनन्तरं केनाऽनुयोगः कर्त्तव्य इति वक्तव्यम् । ततः परं कस्य शास्त्रस्य कर्त्तव्य इति । तदनन्तरं तस्य - अनुयोगस्य द्वाराणि - उपक्रमादीनि वक्तव्यानि, तत्र तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य - सूत्रस्य अर्हाः - योग्याः । ततः परं परिषत् । ततः सूत्रार्थः । एष द्वारगाथासङ्क्षेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ॥ १४९ ॥ तत्र प्रथमतो निक्षेपद्वारमाहनिक्षेप द्वारम् निक्खेवो नासोत्तिय, एग सो उ कस्स निक्खेवो । अणुओस्स भगवओ, तस्स इमे वन्निया भैया ॥ १५० ॥ निक्षेपः न्यास इत्येकार्थम् । पर आह-स निक्षेपः कस्य कर्तव्यः ? सूरिराह - अनुयोगस्य भगवतः । ' तस्य च' निक्षेपस्य 'इमे' वक्ष्यमाणा वर्णिता भेदाः ।। १५० ।। तानेवाह - नामं वा दविए, खेत्ते काले य वयण भावे य । सो अणुओगस्स उ, निक्खेवो होड़ सत्तविहो ॥ १५१ ॥ नामानुयोगः स्थापनानुयोगो द्रव्यानुयोगः क्षेत्रानुयोगः कालानुयोगो वचनानुयोगो भावानुयोगश्च । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ १५१ ॥ ४७ Jain Education International 5 तत्र नाम - स्थापने प्रतीते इति ते अनादृत्य शेषाणां द्रव्याद्यनुयोगानां भेदानाह - सामित्त करण-अहिगरणतो य एगत्त तह पुहत्ते य । नाठवेणा मोतुं इति दव्वादीण छन्भेया ॥ १५२ ॥ ‘स्वामित्वं' सम्बन्धः ‘करणं' साधकतमम् 'अधिकरणं' आधारः, एतैः प्रत्येकमेकत्वेन 'पृथक्त्वेन च' बहुत्वेन पञ्चानां द्रव्यादीनामनुयोगो वक्तव्यः । 'इति' एवं नाम स्थापनां च मुक्त्वा द्रव्यादीनामनुयोगस्य प्रत्येकं षड् भेदा भवन्ति । तद्यथा - द्रव्यस्य वा १ द्रव्याणां वा २ द्रव्येण वा ३ द्रव्यैर्वा ४ द्रव्ये वा ५ द्रव्येषु वा ६ अनुयोगो द्रव्यानुयोगः । एवं क्षेत्र - काल - वचन - 20 भावानुयोगानामपि प्रत्येकं षड्भेदताऽवसेया ॥ १५२ ॥ तत्र प्रथमतो द्रव्यस्यानुयोगमाह - दव्वस्स उ अणुओगो, जीवद्दव्वस्त वा अजीवस्स । maao य भैया, हवंति दव्वाइया चउरो ॥। १५३ ।। द्रव्यस्यानुयोगो द्विधा - जीवद्रव्यस्य वा अजीवद्रव्यस्य वा । एकैकस्मिन्ननुयोगे द्रव्यादिका - श्चत्वारो भेदाः । किमुक्तं भवति : -- जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगो वा प्रत्येकं द्रव्यतः 25 क्षेत्रतः कालतो भावतश्च भवति ॥ १५३ ॥ तत्र जीवद्रव्यानुयोगं द्रव्यादित आहदब्वेणिक्कं दव्यं, संखतीतप्पदेसमोगाढं । For Private & Personal Use Only 10 अनुयोगस्य निक्षेपाः निक्षेप स्यै कार्थिकानि काले" अणादिनिहणं, भावे नाणाइयाऽणंता ॥ १५४ ॥ द्रव्यतो जीवद्रव्यमेकम्, क्षेत्रतोऽसङ्ख्ये यप्रदेशावगाढम्, कालतोऽनाद्यनिधनम्, भावतो ज्ञानादिकाः पर्याया अनन्ताः, तद्यथा - अनन्ता ज्ञानपर्यायाः, अनन्ता दर्शनपर्यायाः, अनन्ताश्चा- 30 रित्रपर्यवाः, अनन्ता अगुरुलघुपर्यवः || १५४ | १ गट्टा सो ता० ॥ २वणं मो ता० ॥ ३ वेगं द° ता० ॥ ४ 'खादी' ता० ॥ ५ लेणादिअणिह ता० ॥ 15 द्रव्याद्य नुयोगानां प्रभेदाः द्रव्यस्या• नुयोगः जीवद्रव्या नुयोगः www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy