________________
अक्षरान- 10
सनियुक्ति-भाप्य-वृत्तिकै बृहत्कल्पसूत्रे [अनुयोगाधिकारः दृष्टिवादा
तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए। द्यध्ययने स्त्रीणाम
इति अतिसेसज्झयणा, भूयावादो उ नो थीणं ।। १४६ ॥ नधिकारि
दृष्टिवादे हि बहवो विद्यातिशयाः सर्वकामप्रदा उपवर्ण्यन्ते, सा च स्त्री स्वभावात् 'तुच्छा' त्वं तत्का . रणानि च
अल्पसत्त्वा, तथा 'गौरवबहुला' स्तोकायामप्यर्थवृद्धौ मानातिरेकतो व्यर्थसम्भवात् , 'चलेन्द्रिया' 5 स्वभावत एव तदिन्द्रियाणामतिलम्पटत्वात् , तथा 'धृत्या' मानसेनाऽवष्टम्भन दुर्बला, 'इति'
अस्मात् कारणात् अतिशेषाणि-अतिशायीनि अध्ययनानि-महापरिज्ञा-अरुणोपपातादीनि 'भूतवादश्च' दृष्टिवादो न स्त्रीणामनुज्ञातः ॥ १४६ ॥ __ तदेवमुक्तं चतुर्दशभेदं श्रुतज्ञानम् अङ्गगता-ऽनङ्गगतविशेषश्च । आह परः-केन पुनः कारणेनाक्षरा-ऽनक्षरश्रुते प्रथममुपात्ते ? तत आह
Kणतीति सुयं तेणं, सवणं पुण अक्खरेयरं चेव । क्षरश्रुतयोः
तेणऽक्खरेयरं वा, सुयनाणे होति पुव्वं तु ॥ १४७ ।। पूर्वोपादाने
___ इह यस्मात् प्रतिपत्ता तद् उच्यमानं शृणोति तेन कारणेन तत् श्रुतमित्युच्यते, 'श्रूयत कारणम्
इति श्रुतम्' इति व्युत्पत्तेः । श्रवणं पुनः ‘अक्षरेतरं चैव' अक्षरस्य इतरस्य च-अनक्षरस्य, 'तेन' कारणेन श्रुतज्ञाने प्ररूप्यमाणे पूर्वमक्षरमनक्षरं चोपात्तमिति ॥ १४७ ॥
15 सम्प्रति यदुक्तं मूलद्वारगाथायां "प्रकृतम्" ( गाथा ३) इति तत्प्ररूपणार्थमाहअत्र 'प्र.
इत्थं पुण अहिगारो, सुयनाणेणं जतो हवति तेणं । कृते श्रुत
सेसाणमप्पणो वि य, अणुयोग पईव दिटुंतो ॥ १४८ ।। ज्ञानेनाधिकारः तदेवं मङ्गलनिमित्तं पञ्च ज्ञानानि प्ररूपितानि । एतेषु च पञ्चसु ज्ञानेषु मध्येऽत्राधिकारः
श्रुतज्ञानेन । किं कारणम् ? अत आह-'यतः' यस्मात् कारणात् 'तेन' श्रुतज्ञानेन 'शेषाणाम्' 20 आभिनिबोधिका-ऽवधि-मनःपर्याय-केवलानामात्मनश्च 'अनुयोगः' भाषणं भवति । अत्र दृष्टान्तः प्रदीपः-यथा प्रदीपो घटादीनामात्मनश्च प्रकाशकः एवं श्रुतज्ञानं शेषाणामात्मनश्चानुयोगकारकम् । उक्तं च
सुयनाणं महिड्डीयं, केवलं तदणंतरं ।
अप्पणो सेसगाणं च, जम्हा तं परिभावगं । 25 तेन कारणेन अत्र श्रुतज्ञानेनाऽधिकारः ॥ १४८ ॥ तस्य च श्रुतज्ञानस्योद्देशक-समुद्देशादि चतुष्टयं भवति, तत्राऽनुयोगेऽधिकारः, स चैतेद्वारैरनुगन्तव्यः--
[अनुयोगाधिकारः] निक्खेवेगट्ट निरुत्त विहि पवित्ती य केण वा कस्स ।
तद्दार भेय लक्खण, तदरिह परिसा य सुत्तत्थो ॥१४९ ॥ 30 अनुयोगस्य 'निक्षेपः' नामादिन्यासो वक्तव्यः । तदनन्तरं तस्यैकार्थिकानि । तदनु निरुक्तं वक्तव्यम् । ततः को विधिरनुयोगे कर्तव्ये इति विधिर्वक्तव्यः । तथा 'प्रवृत्तिः' प्रसवोऽनुयो
१°ला धितीए य ता० ॥ २ °वातो य नो थीए ता० ॥ ३ सुणेती ता. विना ॥ ४°ण अप्पता०॥ ५तत्र कां० ले० ॥
द्वारगाथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org