________________
श्रुतस्य जीवादनन्यता
भाप्यगाथाः १३५-४१] पीठिका । नि० गाथा ५३९) इति वचनात् , मिथ्यादर्शनगमने वा सर्वश्रुताभावः, अज्ञानीभवनादिति ॥ १३८ । आह श्रुतज्ञानं जीवादन्यत् ? अनन्यत् ? उच्यते-अनन्यत् । यत आह
नियमा सुयं तु जीवो, जीवे भयणा उ तीसु ठाणेसु ।
सुयनाणि सुयअनाणी, केवलनाणी व सो होजा ॥ १३९ ॥ श्रुतं नियमाज्जीवः, तत्परिणामत्वात् । जीवे पुनः 'त्रिषु स्थानेषु' त्रीणि स्थानान्यधिकृत्य । 'भजना' विकल्पना । तथाहि-स जीवः कदाचित् श्रुतज्ञानी भवति कदाचित् श्रुताज्ञानी कदाचित्केवलज्ञानीति ॥ १३९। सम्प्रति क्षेत्रतः कालतो भावतश्च सादि-सपर्यवसिततामाह - खित्ते भरहेरवए, काले उ समातो दोणि तत्थेव ।।
श्रुतस्य
सादिसभावे पुण पण्णवगं, पण्णवणिजे ये आसंजा ॥ १४ ॥
पर्यवक्षेत्रतः पञ्च भरतानि पञ्चैरावतान्यधिकृत्य, काले 'तत्रैव' पञ्चसु भरतेषु पञ्चखैरावतेषु द्वे 10 सितलम् समे' अवसर्पिणीमुत्सर्पिणी चाधिकृत्य सादि-सपर्यवसितम् , यावत् तीर्थकृतां तीर्थानुवृत्तिस्तावद् भवति शेषकालं नेति कृत्वा । भावे पुनः प्रज्ञापकं प्रज्ञापनीयांश्च भावानासाद्य सादि पर्यवसितम् ॥ १४० ॥ कथम् ? इत्याह
उपयोग-सर-पयत्ता, ठाणविसेसा य हुंति पण्णवगे। गति-ठाण-भेय-संघाय-वन्नमादी य भावम्मि ॥१४१ ॥
15 प्रज्ञापकस्य कदाचिदुपयोगः शुभो भवति कदाचिदशुभः । एकैकोऽपि कदाचित्तीवः कदाचिन्मध्यमः कदाचिन्मन्दः । स्वरोऽपि कदाचिदुदात्तः कदाचिदनुदात्तः कदाचित्वरितः । प्रयत्नो नाम--आदरः स क्षणे क्षणेऽन्यादृशः । 'स्थानविशेषाः' स्थानप्रकाराः वीरासनाद्याः। एषामुत्पादे प्रज्ञापकस्यापि तेन तेन भावनोत्पादो विनाशे च विनाशः । प्रज्ञापकस्योत्पादे विनाशे च श्रुतज्ञानस्यापि तदात्मकत्वादुत्पादो विनाशश्च । तत एवं प्रज्ञापकमधिकृत्य सादि-सपर्यव- 20 सितम् , अधुना प्रज्ञापनीयान् भावानधिकृत्य तद् भावयति-"गति" इत्यादि । पदैकदेशे पदसमुदायोपचाराद् ‘गतिः' इति गतिलक्षणो धर्मास्तिकायः परिगृह्यते । स जीवस्य पुद्गलस्य वा गतिपरिणामपरिणतस्योपग्रहे वर्तित्वात् तस्यैव स्थानपरिणामपरिणतस्योपग्रहे न वर्तते इत्यसौ सादि-पर्यवसितः । एवमधर्मास्तिकायोऽपि स्थानलक्षणो जीवस्य पुद्गलस्य वा स्थानपरिणतस्योपग्रहे वर्तित्वात् तस्यैव गतिपरिणामपरिणतस्योपग्रहे न वर्तते इति सादि-सपर्यवसितः । अथवा 25 गतिपरिणतं द्रव्यं भूत्वा स्थानपरिणतं भवति, स्थानपरिणतं भूत्वा गतिपरिणतम् । यदि वा "ठाण"त्ति एकप्रदेशावगाढं भूत्वा द्विप्रदेशावगाढं भवति, द्विप्रदेशावगाढं भूत्वा एकप्रदेशावगाढम् , एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । तथा पुद्गलस्कन्धानां तेन तेन प्रकारेण भेदो भवति । तेषामेव च द्विप्रदेशादीनां सङ्घातः । तथा “वण्ण"ति परमाणुः कालवर्णपरिणतो भूत्वा नीलवर्णपरिणतो भवति, नीलवर्णपरिणतो भूत्वा कालवर्णपरिणतः, एवं विस्तरेण 30 वर्णपरिणामो वक्तव्यः । आदिशब्दाद् गन्ध-रस-स्पर्श-संस्थानानां परिग्रहः, तेऽप्येवं वक्तव्याः
१५ ता० ॥ २ °सज कां० ले. भा० ॥ ३ 'नादीनां भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org