________________
४२
साधना. दिश्रुते
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे नन्दी-ज्ञानपञ्च लम् उक्तं सम्यक्श्रुतं मिथ्यात्वश्रुतं च । सम्प्रति साद्यनादिश्रुते आह
अयोच्छित्तिनयट्ठा, एयं तु अणाइयं जहा लोए ।
वोच्छेयनया सादी, पप्प गईतो जहा जीवो ॥ १३५ ॥ अव्यवच्छित्तिनयो (ग्रन्थानम्-१०००) नाम द्रव्यास्तिकनयः तस्य अर्थाद्-आदे5 शात् एतत्' श्रुतज्ञानमनादिकम् उपलक्षणमेतत् अनिधनं च, यथा लोकस्त्रिप्वपि कालेषु भावादनादिरनिधनश्च; तन्मतेन हि न सतः सर्वथा नाशः, नाऽप्येकान्तेनासत उत्पाद इत्यनाद्यनिधनता । 'व्यवच्छेदनयात्' पर्यायास्तिकमतेन पुनः सादि उपलक्षणमेतत् सपर्यवसितं च, यथा गतीः 'प्राप्य' अधिकृत्य जीवः; तथाहि-नैरयिको नैरयिकत्वेनोत्पद्यमानः सादिः, तद्गतेस्तदानीमेव भावात् ; नैरयिकत्वेन तु विनश्यन् सपर्यवसितः, तस्य हि पर्यायाः प्रधानम् , 10 ते चोत्पद्यन्ते विनश्यन्ति चेति सादि-सपर्यवसितता ॥ १३५ ॥ अथवा अन्यथा साद्यनादित्वम् , तदेवाह
दव्वाइचउकं वा, पडुच्च सांदी व होजणादी वा ।
दवम्मि एगपुरिसं, पडुच्च सादी सनिहणं च ।। १३६ ॥ वाशब्दः प्रकारान्तरद्योतने । 'द्रव्यादिचतुष्कं' द्रव्य-क्षेत्र-काल-भावान् प्रतीत्य श्रुतज्ञानं 15 सादि वा स्यादनादि वा, उपलक्षणमेतत् , सपर्यवसितमपर्यवसितं च । तत्र द्रव्ये एकं पुरुष प्रतीत्य सादि-निधनम् । कथम् ? इति चेत् , उच्यते--यदा तत्प्रथमतया तदधीते तदा पूर्वमभावात् सादि । सपर्यवसानं पुनरेभिर्वक्ष्यमाणैः पञ्चभिः स्थानैः ।। १३६ ।। तान्येवाह
पणगं खलु पडिवाए, तत्थेगो देवभावमासज्ज ।
___ मणुये रोग-पमाया, केवल-मिच्छत्तगमणे वा ॥ १३७ ॥ 20 'प्रतिपाते' प्रतिपातविषयं खलु पञ्चकम् , पञ्चभिः स्थानैः प्रतिपात इत्यर्थः । तत्रैकः प्रतिपातो देवभावमासाद्य वेदितव्यः । द्वितीयो मनुष्ये रोगात् । तृतीयो मनुष्यभवे एव प्रमादात् । चतुर्थः केवलभावे । पञ्चमो मिथ्यात्वगमने ॥ १३७ ॥ तत्र प्रथमं प्रतिपातं देवभावमासाद्य भावयति--
चउदसपुव्वी मणुओ, देवत्ते तं न संभरइ सव्वं ।
देसम्मि होइ भयणा, सट्ठाणभवे वि भयणा उ ॥ १३८ ॥ ___ चतुर्दशपूर्वी मनुजो देवत्वे प्राप्ते सति 'तत्' श्रुतं सर्वं न संस्मरति, विषय-प्रमादतस्तथाविधोपयोगाभावात् ; देशे भवति ‘भजना' विकल्पना, सा त्वम्-कश्चिद्देशं स्मरति, कश्चिद्देशस्यापि देशम् , कश्चित्पुनरेकादशस्वप्यङ्गेषु सर्व स्मरति, कश्चित्तेषामपि देशमिति । तदेवं भावितो देवभावमासाद्य प्रथमः प्रतिपातः । सम्प्रति शेषान् भावयति--“सट्ठाणभवे वि भयणा 30 उ" स्वस्थानं-मनुष्यत्वं तस्मिन्नपि भवे रोगादिभिः ‘भजना' विकल्पना । तथाहि-रोगे समुत्पन्ने तथाविधपीडावशतः स्मृतेरुपहननान्न स्मरति, प्रमादतो वा गुणनाभावतोऽपगच्छति श्रुतमधीतम्, केवलज्ञानभावे वा श्रुतज्ञानस्य क्षयः, "नट्ठम्मि उ छाउमत्थिए नाणे" ( आव०
१ लाओ ता० ॥ २ सादि ता० ॥ ३°णादिं ता० ॥ ४ °व्वंसि ए° ता० ॥ ५ सादिं ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org