________________
5 सम्यक्षम्
भाष्यगाथाः १२७-३४] पीठिका । सूरयो ब्रुवते । 'केषाञ्चित् पुनः' बोटिकानामयमादेशः-'वेदकदृष्टिः' वेदकसम्यग्दर्शनं क्षायोपशमिकं सम्यग्दर्शनम् , सोऽनादेशः, सम्यक्त्वापरिज्ञानादिति ॥ १३० ॥ सम्प्रति क्षायिकदर्शनमाहदसणमोहे खीणे, खयदिट्ठी होइ निरवसेसम्मि ।
क्षायिक केण उ सम्मो मोहो, पडुच्च पुव्वं तु पण्णवणं ।। १३१॥ दर्शनमोहे 'निरवशेषे' त्रिप्रकारेऽपि क्षीणे 'क्षयदृष्टिः' क्षायिकं सम्यग्दर्शनं भवति । आह यद् मिथ्यात्वदर्शनं तद् मोहः स्यात् , तस्य सम्यग्दर्शनमोहकत्वात् , यत् 'सम्यक् सम्यग्दर्शनं तत् केन कारणेन मोहः? सूरिराह-पूर्वी प्रज्ञापनां प्रतीत्य । किमुक्तं भवति?-यथा मदनकोद्रवाणां निर्मदनीकृतानामप्योदनः स एष मदनकोद्रवौदन इति व्यादिश्यते, तेषां पूर्व समदनत्वात् ; एवं तेऽपि सम्यक्त्वपुद्गलाः पूर्व मिथ्यात्वपुद्गला आसीरन् , ते च दर्शनमोहकाः, 10 अतः पूर्वभावप्रज्ञापनामधिकृत्य तेऽपि दर्शनमोह इति व्यपदिश्यन्ते ॥ १३१ ॥ ___ आह पूर्वमिदमुक्तम्-"आसज्ज उ सामित्तं, लोइय लोउत्तरे भयणा" (गा० ८८) तत्र किं सर्वमेव द्वादशाङ्गं गणिपिटकं मिथ्यादृष्टिपरिगृहीतं भवति? किं वा किञ्चिद् ? इत्यत आह
चोदस दस य अभिन्ने, नियमा सम्मं तु सेसए भयणा ।
मति-ओहि विवचासो, वि होति मिच्छे ण उण सेसे ॥ १३२ ॥ 13 यस्य चतुर्दश पूर्वाणि यावद् दश च पूर्वाणि 'अभिन्नानि' परिपूर्णानि सन्ति तस्मिन् नियमात् सम्यक्त्वम् । 'शेषे' ('शेषके') किश्चिदूनदशपूर्वधरादौ ‘भजना' सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः । किञ्च मतेरवधेश्च मिथ्यात्वे विपर्यासो भवति । तद्यथा-मतेर्मत्यज्ञानम् , अवधेश्च विभङ्गज्ञानमिति । श्रुतज्ञानस्य तु विपर्यासो दर्शित एव, “सेसए भयणा" इति वचनात् । 'शेषके' ('शेषे') मनःपर्यवज्ञाने केवलज्ञाने च नास्ति विपर्यासः ॥ १३२॥
20 ___ अथ 'यदेवेदं भगवद्भिरुपदिष्टं तदेव तत्त्वम् युक्तियुक्तत्वाद् नेतरत्' इति सम्यग्दर्शनम् ज्ञानमप्येवंरूपमेवेति कः सम्यग्दर्शन-ज्ञानयोः प्रतिविशेषः ? उच्यतेदंसणमोग्गह ईहा, नाणमवातो उ धारणा जह उ ।
सम्यग्दर्श
नसम्यग्ज्ञातह तत्तरुई सम्म, रोइंजइ जेण तं नाणं ॥ १३३ ॥
नयोविवेकः __ यथा तुल्येऽवबोधे दर्शन-ज्ञानयोर्भेदः-अवग्रह ईहा दर्शनम् , सामान्यावबोधात्मकत्वात् ; 25 अपायो धारणा च ज्ञानम् , विशेषावबोधरूपत्वात् ; तथा यस्तत्त्वानामवगमः स ज्ञानम् , या त्ववगतेषु तत्त्वेषु रुचिः-परमा श्रद्धा आत्मनः परिणाम विशेषरूपा सा सम्यग्दर्शनम् , येन तद् ज्ञानं 'रोच्यते' रुच्यात्मकं क्रियते ॥ १३३ ॥ एतदेव स्पष्टयति
सोचा व अभिसमेच व, तत्तरुई चेव होइ सम्मत्तं ।।
तत्थेव य जा विरुई, इतरत्थ रेई य मिच्छत्तं ॥१३४॥ सम्मत्तं गतं ॥ 30 श्रुत्वा केवलिप्रभृतीनामुपदेशम् अभिसमेत्य वा जातिस्मरणादिना या तत्त्वेषु रुचिर्भवति सा सम्यक्त्वम् । या तु तत्रैव' तत्त्वेषु विरुचिः 'इतरेषु' अतत्त्वेषु रुचिः सा मिथ्यात्वमिति ॥१३४॥ १ सम्मं मोहं प° ता० ॥ २ रोययते जे ता० ॥ ३-४ रुयी भा० ॥
T
-
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org