________________
सासादनं सम्यक्त्वम्
क्षायोपशमिकं सम्यक्त्वम्
वेदकं
सम्यक्त्वम्
10
सासादन 15
शब्दस्य
व्युत्पत्तिः
४०
सासायेणो छावलितो, भूमिमपत्तो व पवडतो ॥ १२७ ॥
'मिध्यात्वसङ्क्रमणकाले' मिथ्यात्वसङ्क्रमणाभिमुख उपशमसम्यक्त्वात् प्रतिपतन् जघन्यत B एकसामयिक उत्कर्षतः षडावलिकः सासादनो भवति । किंरूपः सः ? इत्याह- भूमिमप्राप्त इव प्रपतन् । यथा मालात् प्रपतन् भूमिमप्राप्तोऽपान्तराले वर्त्तते तथोपशमसम्यक्त्वात् प्रपतन् मिध्यात्वमद्याप्यप्राप्तोऽपान्तराले वर्त्तमानः सासादन इति ॥ १२७ ॥
अथ कथं स सम्यग्दृष्टिः उपशमसम्यक्त्वतः प्रच्यवमानत्वात् ? उच्यते - च्यवनेऽप्यव्यक्तमुपशमगुणवेदनात् । अत्रैव दृष्टान्तमाह
आसादेउं व गुलं, ओहीरंतो न सुहु जा सुयति ।
यथा कश्चित् पुरुषो गुडमाखाद्य तदनन्तरं 'ओहीरति' निद्रायते, न पुनः सुष्ठु अद्यापि स्वपिति, स च निद्रायमाणोऽव्यक्तमाखादितगुडमाधुर्यमनुभवति; एवमुपशमसम्यक्त्वात् प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽव्यक्तमुपशमगुणं वेदयत इति सम्यग्दृष्टिः ||
सम्प्रति सासादनशब्दव्युत्पत्तिमाह
20
सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे
तदेवमुक्तमौपशमिकं सम्यक्त्वम्, अधुना सासादनसम्यक्त्वमाहउवसमसम्मा पडमाणतो उ मिच्छत्तसंकमणकाले ।
सं आयं सायं तो, सस्सादो वा वि सासाणो ॥ १२८ ॥
'स्त्रं' आत्मीयम् आयं सातयन् “सासादो वा वि सासाणो" 'साखादः ' अव्यक्तोपशमगुणाखादसहित इति कृत्वा 'सास्वादन: ' सह आस्वादनं यस्य स तथेति व्युत्पत्तेः ॥ १२८ ॥ अधुना क्षायोपशमिकं सम्यक्त्वमाह -
जो उ उदिने खीणे, मिच्छे अणुदिन्नगम्मि उवसंते । सम्मभावपरिणतो, वेयंतो पोग्गले मीसो ॥ १२९ ॥
यस्तु 'उदीर्णे' उदयावलिकाप्रविष्ठे मिथ्यात्वे क्षीणे 'अनुदीर्णे' अनुदयप्राप्ते च ' उपशान्ते' उपशान्तं नाम किञ्चिन्मिथ्यात्व रूपतामपनीय सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव सद् भस्मच्छन्नाग्निरिवानुद्रेकावस्थाप्राप्तम्, तस्मिन् तथारूपे सति 'पुद्गलान्' सम्यक्त्वरूपान् 'वेदयमानः' सम्यग्भावपरिणतः सः 'मिश्र ( श्रः ) ' क्षायोपशमिकसम्यग्दृष्टिः । सम्यक्त्वरूपध25 निर्देश प्रक्रमेऽपि धर्मिणा निर्देशो धर्म-धर्मिणोः कथञ्चिदभेदख्यापनार्थः । एवं पूर्वत्र परत्र च भावनीयम् ॥ १२९ ॥ इदानीं वेदकं सम्यक्त्वमाह
जो चरमपोग्गले पुण, वेदेती वेयगं तयं चिंति ।
केसिंचि अणादेसो, वेयगदिट्ठी खओवसमो ॥ १३० ॥
'यः' दर्शन सप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भविष्यति तस्मिन् समये वर्त्त - 90 मानः सम्यग्दर्शनस्य चरमान् पुद्गलान् वेदयते, तस्य 'तत्' चरमपुद्गलवेदनं वेदकसम्यक्त्वं पूर्व
[ नन्दी - ज्ञानपञ्चकम्
१ °यण छा° ता० ॥ निद्दायतो” इति चूर्णो ॥
Jain Education International
२ टीकाकृता "ओहीरेति" इति पाठानुसारेण व्याख्यातम् । "ओहीरंतो ३ सुवति ता० ॥ ४ च्छत्ते अणुइयस्मि ता० ॥
For Private & Personal Use Only
www.jainelibrary.org