________________
नलाभः
माप्यगाथाः १२०-१२६] पीठिका ।
नैरयिक उपपातेन सातमनुभवति । किमुक्तं भवति ?-उपपातकाले सातं वेदयते, तदानीं हि न तस्य क्षेत्रजा वेदना न परस्परोदीरिता नापि परमाधार्मिकोदीरितेति । अथवा 'देवकमणा' देवक्रियया सातमनुभवति, देवो हि कश्चिन्महर्द्धिकः पूर्वभवस्नेहतस्तत्र गत्वा कस्यापि कञ्चित्कालं वेदनामुपशमयति, ततः सातं वेदयते । अथवा 'अध्यवसाननिमित्त' तथाविधशुभाध्यवसायप्रवृत्तिनिमित्तं सातमासादयति, यथा सम्यग्दर्शनं लभमानः, सम्यग्दर्शनलाभे हि जात्यन्धस्य चक्षुर्लाभ इव जायते महान् प्रमोद इति । "अहवा कम्माणुभावेणं"ति अथवा तीर्थकरजन्माद्यधिकृत्य यः कर्मणां-सातवेदनीयप्रभृतीनां शुभानाम् अनुभावः-अनुभवनम् उदयेन वेदनं तेन सातमनुभवति । तथाहि-भगवतां तीर्थकृतां जन्मनि दीक्षायां ज्ञाने च तत्प्रभावतो नरकेऽप्यालोको जायते, नैरयिकाणामपि च शुभकर्मोदयप्रसरतः सातमिति ॥१२४॥ ___ अथ मिथ्यादृष्टिर्यदा सम्यक्त्वं सामति तदा स तत्समयं कति ज्ञानानि लभते ? उच्यते- 10 द्वे त्रीणि वा । तथा चाह
सम्यक्त्व.
लामे ज्ञाविभंगी उ परिणमं, सम्मत्तं लहति मति-सुतोहीणि ।
तइभावम्मि मति-सुते, सुतलंभं केइ उ भयंति ॥ १२५ ॥ 'विभङ्गी' विभङ्गज्ञानी सम्यक्त्वं परिणमयन् तत्समयं मति-श्रुता-ऽवधीन् लभते । तदभावे' तस्य-विभङ्गस्याभावे मिथ्यादर्शनी सम्यक्त्वं परिणमयन् तत्कालं ‘मति-श्रुते' मतिज्ञान-15 श्रुतज्ञाने लभते । केचित् पुनः श्रुतलाभं 'भजन्ति' विकल्पयन्ति, 'यस्याधीतं श्रुतं स लभते श्रुतज्ञानम्, इतरो न लभते' इत्याचक्षत इति भावः । तथाहि-ये स्वयम्भूरमणसमुद्रे मत्स्यास्ते प्रतिमासंस्थितान् मत्स्यान् उत्पलानि वा दृष्ट्वेहा-ऽपोहादि कुर्वन्तो जातिस्मरणतः सम्यक्त्वमासादयन्ति आभिनिबोधिकज्ञानं च, यत्तु श्रुतज्ञानं तन्नासादयन्ति, अनधीतश्रुतत्वात् । ये स्वधीतश्रुतास्ते त्रीण्यपि युगपदासादयन्ति ।। १२५ ।। एतद् दूषयितुमाह
अन्नाण मती मिच्छे, जढम्मि मतिणाणतं जहा एइ।
एमेव य सुयलंभो, सुयअन्नाणे परिणयम्मि ॥ १२६ ॥ यथा मिथ्यात्वे त्यक्ते मतिः 'अज्ञानम्' अज्ञानस्वरूपा मतिज्ञानतामेति एवमेव श्रुताज्ञाने 'परिणते' अपगते श्रुतलाभो भवति । किञ्च ते प्रष्टव्याः-सम्यक्त्वलाभसमये श्रुताज्ञानमस्ति ? किं वा न!, तत्र यद्याद्यः पक्षस्तर्हि तस्याज्ञानित्वान्मिथ्यादृष्टित्वप्रसङ्गः; अथ नास्ति तर्हि 25 श्रुताज्ञानमपि केवलमाभिनिबोधिकज्ञानी स्यात् । न चैतदुपपन्नम् , श्रुतज्ञानमन्तरेण केवलस्याऽऽभिनिबोधिकज्ञानस्याभावात् “जत्थ मतिनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मतिनाणं, दो वि एयाई अण्णोण्णमणुगयाई" इति वचनादिति ।। १२६ ।।
१ किश्चि डे. भा० ॥ २“य एव मति ज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि, 'जत्य मइनाणं तत्थ सुयमाणं, जस्थ सुयनाणं तत्थ मइनाणं' इत्यादिवक्ष्यमाणवचनप्रामाण्यात्' इत्युल्लिखन्ति स्म नन्दीवृत्तौ (पत्र ७०-१) श्रीमन्तो मलयगिरिपूज्याः, किञ्च नेक्ष्यतेऽयं पाठो मुद्रितनन्द्याम्, परं "जत्थ आभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं तत्थ आभिणियोहियणाणं, दो वि एयाई अण्णमण्णमणुगयाई" (पत्र १४०-१) इतिरूपः पाठो दृश्यते ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org