SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४४ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [नन्दी-ज्ञानपञ्चकम् सुरभिगन्धपरिणतो भूत्वा दुरभिगन्धपरिणतो भवति इत्यादि विस्तरेणोपयुज्य वक्तव्यम् । इत्थं च प्रज्ञापनीयभावानां प्रज्ञापने श्रुतज्ञानमपि तथा तथा परिणमत इति सादि-सपर्यवसितं द्रष्टव्यम् ॥ १४१ ॥ चतुष्कमधिकृत्यानाद्यपर्यवसितत्वमाहश्रुतस्या दव्वे नाणापुरिसे, खेत्ते विदेहाइँ कालो जो तेसु । नाद्यपयवसि. खयउवसम भावम्मि य, सुयनाणं वट्टए संययं ॥ १४२ ॥ तखम् 'द्रव्ये' द्रव्यतो नानापुरुषान् प्रतीत्य, क्षेत्रतः पञ्च विदेहान् , 'तेष्वेव च' पञ्चसु विदेहेषु यः कालस्तं कालमधिकृत्य, भावे क्षयोपशमरूपे श्रुतज्ञानं 'सततं' सर्वकालं वर्तत इत्यनाथप र्यवसितता ॥ १४२ ॥ सम्प्रति गमिकमगमिकं चाहगमिकश्रुतमगमिक भंग-गणियादि गमियं, जं सरिसगमं चै कारणवसेणं । श्रुतं च 10 गाहादि अगमियं खलु, कालिय तह दिट्ठिवाए य ॥ १४३ ॥ 'दृष्टिवादो गमिकम् , कालिकश्रुतमगमिकम्' एतद् बाहुल्येनोच्यते अतोऽपवदति"भंगगणिये"त्यादि पूर्वार्धम् । कालिकश्रुते दृष्टिवादे वा यत्र भङ्गाः-चतुर्मङ्गादयः गणितंसकलनादि, आदिग्रहणेन क्रियाविशाले पूर्वे यत् छन्दः प्रकृतं तत् सदृशगममिति तस्य परिग्रहः; यच्च 'कारणवशेन' अर्थवशेन सदृशगमम् , यथा निशीथस्य विंशतितम उद्देशकः, 16 एतद् गमिकम् । शेषं गाथादि आदिशब्दात् श्लोकादिपरिग्रहः अगमिकम् ॥ १४३ ॥ सम्प्रत्यङ्गगतमनङ्गगतं च प्रतिपादयतिभजश्रुत गणहर-थेरकयं वा, आदेसा मुक्कवागरणतो वा । मनमश्रुतं धुव-चलविसेसतो वा, अंगा-ऽणंगेसु णाणत्तं ॥ १४४॥ यद् गणधरैः कृतं तदङ्गप्रविष्टम् । यत्पुनर्गणधरकृतादेव स्थविर्निर्मूढम् ; ये चादेशीः, 20 यथा-आर्यमङ्गुराचार्यस्त्रिविधं शङ्खमिच्छति-एकभविकं बद्धायुष्कमभिमुखनामगोत्रं च, आर्य समुद्रो द्विविधम् बद्धायुष्कमभिमुखनामगोत्रं च, आर्यसुहस्ती एकम्-अभिमुखनामगोत्रमिति; यानि च र्मुक्तकानि व्याकरणानि, यथा-"वर्ष देव! कुणालायाम्" इत्यादि, तथा १ भावेसु य ता. ॥ २ सततं ता० ॥ ३ तु ता०॥ ४ अत्र हि नयान्तरविकल्पिताः पदार्था आदेशत्वेन निर्दिष्टा अवसातव्याः, अन्यथा “वर्ष देव ! कुणालाथाम्" इत्यादिकानां पञ्चशतादेशानामत्र मुक्तकव्याकरणत्वेन निर्दिष्टखादादेशानां मुक्तकानां चामेदापत्तेः ॥ ५'श'पदस्य द्रव्यनिक्षेपमधिकृत्यैतदादेशत्रिकम् । एतच्चादेशत्रिकं नियुक्तिकृता सूत्रकृताङ्गद्वितीयश्रुतस्कन्धे प्रथमे पौण्डरीकाध्ययने द्रव्यपौण्डरीकव्याख्याने सङ्ग्रहीतम् । तथाहि"एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाहएगभविए य बद्धाउए य अभिमुहियनामगोए य । वि देसा, व्वम्मि य पोंडरीयस्स ॥१४६॥ वृतिः-'एगे'त्यादि । एकेन भवेन गतेनानन्तरभव एव यः पौण्डरीकेषूत्पत्स्यते स एकभविकः । तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कः । ततोऽप्यासन्नतमः 'अभिमुखनामगोत्रः' अनन्तरसमयेषु यः पौण्डरीकेषू. त्पद्यते । एते' अनन्तरोताम्रयोऽप्यादेशविशेषाः द्रव्यपौण्डरीकेऽवगन्तव्या इति ॥" पत्र २६७-६८ ॥ ६ मुक्तकव्याकरणानि किल नियुक्तिकृद-भाष्यकृदादिभिरादेशान्तरतया निर्दिष्टानि यानि प्रन्थान्तरेवितखतो विप्रकीर्णानि दृष्टिपथमवतीर्णानि तान्यत्र निष्टायन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy