________________
6
10
३६
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ नन्दी - ज्ञानपञ्चकम्
खत एवापगतमदनभावकोद्रवाणां सदृशं नैसर्गिकसम्यक्त्वम् । किमुक्तं भवति ? - केषाञ्चिदघिगमतो मिथ्यात्वपुद्गलाः सम्यक्त्वीभवन्ति, केषाञ्चित् स्वत एव तथा परिणाम विशेषभावतः ॥ ११० ॥
एतदेव स्पष्टयति
सोऊण अहिसमेच्चे व करेइ सो वडमाणपरिणामो । मिच्छे सम्मामिच्छे, सम्मे वि य पोग्गले समयं ॥ १११ ॥ श्रुत्वा केवलिप्रभृतीनां वचः 'अभिसमेत्य वा' जातिस्मरणादिना सम्यक्त्वमवगम्य 'सः' अपूर्वकरणे वर्त्तमानो वर्धमानपरिणामः 'समकं' एककालं मिथ्यात्वपुद्गलान् त्रिधा करोति । तद्यथा-'मिच्छे' इति मिथ्यात्वपुद्गलान् सम्यग्मिथ्यात्वपुद्गलान् सम्यक्त्वपुद्गलानिति ॥ १११ ॥ अथैषां पुद्गलानां परस्परं सङ्गमो भवति किं वा न ? इति उच्यते भवतीति ब्रूमः ।
तथा चाह
मिच्छत्ताओ मीसे, मीसस्स उ होज संकमो दोसुं ।
सम्मे वा मिच्छे वा सम्मा मिच्छं न पुण मीसं ॥ ११२ ॥
'मिथ्यात्वात् ' मिध्यात्वदलिकात् सम्यग्दृष्टिः प्रवर्धमान परिणामः पुद्गलानाकृष्य मिश्रे उप1 लक्षणमेतत् सम्यक्त्वे च सङ्क्रमयति । मिश्रस्य पुद्गलानां सङ्क्रमो द्वयोर्भवति । तद्यथा - सम्य- क्त्वे मिथ्यात्वे च । तत्र सम्यग्दृष्टिः सम्यक्त्वे सङ्क्रमयति मिथ्यादृष्टिर्मिथ्यात्वे | 'सम्यक्त्वात् ' सम्यक्त्वदलिकात् पुनः पुद्गलान्मिथ्यात्वं सङ्क्रमयति न पुनर्मिश्रमिति ॥ ११२ ॥
साम्प्रतममुमेवार्थं प्रकारान्तरेणाह
20
मिच्छत्ताओ अहवा, मीसं सम्मं च कोई संक्रमइ । मीसाओ वा सम्मं, गुणबुड्डी हायतो मिच्छं ।। ११३ ॥
' अथवा ' इत्युक्तस्यैवार्थस्य भणनप्रकारान्तरद्योतने । 'मिथ्यात्वात् ' मिध्यात्वदलिकात् पुद्गलानाकृप्य कश्चिन्मिश्रं सम्यक्त्वं च सङ्क्रमयति । यदि वा कश्चिद्गुणैर्वृद्धिर्यस्य स गुणवृद्धि:प्रवर्धमानपरिणामः सम्यग्दृष्टिरित्यर्थः 'मिश्रात्' मिश्रदलिकात् पुद्गलानादाय सम्यक्त्वं सङ्क्रमयति । 'हायक:' हीनपरिणामो मिथ्यादृष्टिरित्यर्थः मिश्रात् पुद्गलानाकृष्य मिथ्यात्वं सङ्क्रम25 यति ॥ ११३ ॥
मिच्छत्ता संकंती, अविरुद्धा होति सम्म-मीसेसु ।
मीसातो वा दुणि वि, ण उ सम्मा परिर्णमे मीसं ॥ ११४ ॥ मिथ्यात्वात् पुद्गलसङ्क्रान्तिः सम्यक्त्व- मिश्रयोर विरुद्धा । 'मिश्रतो वा' सम्यग्मिथ्यात्वतो
१ “सोऊण०” गाथामादीकृत्य "चोद्दस दस य अभिन्ने ०” १३२ गाथापर्यन्ता गाथाश्चूर्णिकृद्भिः क्रमभेदेन व्याख्याताः । तथाहि तत्क्रमः -- सोऊण० गाथा । उवसामग० । खीणम्मि० । ऊसरदेसं० । झीमीभवंति • । उववाण । वाही असव्व० । आलंबण० । मिच्छत्तम्मि० । उवसमसम्मा० । आसादेउं । जो उ उदिणे • । जो चरिम० । दंसणमोहे० । मिच्छत्तातो मीसे० । मिच्छत्तातो अह्वा० । मिच्छत्ता संकंती • । हायंते परिनामे । सम्मत्तपोग्गलाणं० । विभंगी० । अण्णाणमती० । चोद्दस दस० ॥ २ च्या क° ता० विना ॥ ३ मीसेवियपोग्गले सम्मे ता० ॥ ४°मीसे तु भा० ता० विना ॥ ५णमति मी ता० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org