________________
भाप्यगाथाः १११ - ११९]
पीठिका |
३७
वा पुद्गलानादाय द्वावपि सङ्क्रमयति । तद्यथा - मिध्यात्वं सम्यक्त्वं च । यथोक्तमनन्तरम् । 'सम्यक्त्वात्' सम्यक्त्वदलिकात् पुनः पुद्गलानादाय न 'मिश्र' मिश्रभावं परिणमयति ॥ ११४ ॥ हायंते परिणामे, न कुणति मीसे उ पोग्गले सम्मे ।
नय सोहिया सि विज्जंति केइ जे दाणि वेएज्जा ॥ ११५ ॥ सम्मत्तपोग्गलाणं, वेदेउं सो य अंतिमं गातं । पच्छाकडसम्मत्तो, मिच्छत्तं चैव संक्रमति ॥ ११६ ॥
यस्य तु सम्यग्दर्शन लाभे हीयमानः परिणामः स तस्मिन् हीयमाने परिणामे न मिश्रान् पुद्गलान् तुशब्दात् मिथ्यात्वपुद्गलांश्च सम्यक्त्वपुद्गलान् करोति । न च 'से' तस्य ' शोधिताः ' पूर्वशोषिताः केचिदन्ये पुद्गला विद्यन्ते यान् 'इदानीम् ' अधिकृतसम्यक्त्वपुञ्ज निष्ठाकाले वेदयेत् ॥ ११५ ॥ ततः सम्यक्त्व पुद्गलानामन्तिमग्रासं वेदयित्वा पश्चात्कृत सम्यक्त्वोऽपि मिथ्या - 10 त्वमेव सङ्क्रामति ॥ ११६ ॥
११७ ॥
मिच्छत्तम्मि अखीणे, तेपुंजी सम्मदिट्ठिो नियमा । खम्म उमिच्छत्ते, दु-एकपुंजी व खवगो वा ॥ अक्षीणे मिथ्यात्वे ये सम्यग्दृष्टयस्ते नियमात् त्रिपुञ्जिनः । क्षीणे तु मिध्यात्वे द्विपुञ्जी मिथ्यात्वपुञ्जस्य क्षीणत्वाद्, एकपुञ्जी वा मिश्रपुञ्जक्षये । यदि वा क्षपकः सम्यक्त्व पुञ्जस्यापि 16 क्षये ॥ ११७ ॥
तदेवं त्रयाणामपि पुञ्जानां दृष्टान्तेन निर्णयः कृतः स्वरूपं च व्यावर्णितम्, साम्प्रतं त्रयस्याप्यवेदनत औपशमिकसम्यग्दृष्टिमाह -
उवसामगसे ढिग यस्स होति उवसामियं तु सम्मत्तं ।
जो वा अयतिपुंजो, अखवियमिच्छो लहइ सम्मं ॥ ११८ ॥ उपशमकश्रेणिगतस्य भवति सम्यक्त्वमौपशमिकम्, यो वा 'अकृतत्रिपुञ्ज : ' अपूर्वकरणे पुञ्जत्रयाकरणतः । तत्र क्षपकोऽपि दर्शन सप्तकस्या पूर्वकरणमारूढः पुञ्जत्रयं न करोति ततस्तव्यवच्छेदार्थमाह-अक्षपितमिथ्यात्वो यल्लभते सम्यक्त्वं तदौपशमिकं सम्यक्त्वमिति ॥ ११८ ॥ एतौ च द्वावप्यौपशमिकसम्यग्दृष्टी सम्यक्त्वमौपशमिकमन्तर्मुहूर्त्तमनुभूय तदनन्तरमवश्यं प्रतिपततः, तत्र दृष्टान्तद्वयमाह
5
औपश
20
25
वाही असन्वछिन्नो, काला विक्कुरु व्व दडदुमो ।
सामगान दोह वि, एते खलु होंति दिता ॥ ११९ ॥ यथा व्याधिरसर्वच्छिन्नः ‘कालापेक्षं' क्रियाविशेषणमेतत् कालमपेक्ष्येत्यर्थः पुनरुद्भवति, दग्धो वा द्रुमः कालापेक्षं यथाङ्कुरं मुञ्चति; एवमुपशमितमपि मिध्यात्वं कालमपेक्ष्य पुनरुद्रक्तीभवतीति द्वयोरपि प्रतिपातः । तथा चाह-द्वयोरप्युपशमकयोरेतौ भवतो दृष्टान्तौ ॥ ११९ ॥ 30 तत्रोपशमश्रेणिगत औपशमिकसम्यग्दर्शनी देशप्रतिपातेन वा प्रतिपतति सर्वप्रतिपातेन या । इतरोऽवश्यमेव सर्वप्रतिपातेन प्रतिपतति, मिथ्यात्वं गच्छतीत्यर्थः । तत्र दृष्टान्तमाह१ ° देयुं सो भा० ॥ २ अखविए ते ता० ॥ ३ य ता० ॥ ४ जो वि य अकयतिपुंजी ता० ॥
Jain Education International
For Private & Personal Use Only
मिकं स
म्यक्त्वम्
www.jainelibrary.org