________________
सनियुक्ति-भाष्य-वृत्तिकै वृहत्कल्पसूत्रे नन्दी-ज्ञानपञ्चकम् प्रथमतः क्रमेण गतिः सा यथाप्रवृत्तिकरणम् , यत् पुनस्तद्भयं भिन्नं तद् 'इतरद्' अपूर्वकरणम् , यत्तु ततः परतो धावनं तत् 'तृतीये' अनिवृत्ताख्ये करणे द्रष्टव्यम् ।। १०३ ॥ ___ तदेवं दृष्टान्तद्वयमभिधाय साम्प्रतमुपनयन्नाह
एवं संसारीणं, जोएं सव्वाइँ तिन्नि करणाई।
भवसिद्धिसलद्धीण य, पंखालपिवीलिया उवमा ॥१०४ ॥ 'एवम्' अमुना दृष्टान्तगतेन प्रकारेण यानि त्रीणि करणानि प्रागभिहितानि तानि सर्वाणि संसारिणां योजयेत् । तत्र पिपीलिका दृष्टान्तमधिकृत्य प्रागेव योजिताः । नवरं याः पक्षवत्यः पिपीलिका उक्तास्ताभिरुपमा भवसिद्धिसलब्धिकानां द्रष्टव्या । भवैः सिद्धिर्येषां ते भवसिद्धिकाः
कतिपयभवमोक्षगामिन इत्यर्थः, तेऽपि कदाचित् प्रतिपतन्ति तत आह—सलब्धिः-उत्तरो10 तरविशुद्धाध्यवसायप्राप्तिर्येषां ते सलब्धिकाः, ततो विशेषणसमासस्तेषाम् । किमुक्तं भवति?
सपक्षपिपीलिका इव केचित् संसारिणो भवसिद्धिकाः सलब्धिकाः स्थाणोरिव ग्रन्थिदेशादपि परतो गच्छन्ति, केचित् पुनरभव्या भव्या वा केचन पक्षविहीनपिपीलिका इव स्थाणोरिव ग्रन्थिदेशात् प्रतिपतन्ति । पुरुषदृष्टान्तमधिकृत्यैवं योजना--पुरुषस्थानीयाः संसारिजीवाः, कर्मक्षपणस्थानीयः पन्थाः, भयस्थानीयो ग्रन्थिः, द्वौ चौरौ राग-द्वेषौ; यस्तु मन्दपराक्रमो न 15 पुरतो न मार्गतः किन्तु भयेन तत्रैव स्थितस्तत्सदृशो ग्रन्थिदेशे वर्तमानो भव्योऽभव्यो वा, स च तत्र सङ्ख्येयमसहयेयं वा कालं तिष्ठति ॥ १०४ ॥
तत्र स्थितस्य को लाभः ? इति चेत् , उच्यते-श्रुतलाभः । तथा चाह--- प्रन्थिगत
दट्टण जिणवराणं, पूर्य अण्णेण वा वि कजेण । भव्य स्य च
मुयलंभो उ अभब्वे, हविज थंभेण उवणीए ॥ १०५ ॥ श्रुतलाभः 20 यः स्तव्धन में 'उपनीतः' उपनयं प्रापितस्तस्मिन् अभव्ये तुशब्दाद् भव्ये च भवति 'श्रुत
लाभः' द्रव्यश्रुतलाभः । कथम् ? इति चेत् , अत आह-"दहणे'त्यादि । स हि ग्रन्थिकसत्त्वो भन्योऽभव्यो वा भगवतां जिनवराणां पूजां दृष्ट्वा 'अहो ! कीदृशं तपसः फलम् ?' इति परि. भाव्य तदर्थिकतया अन्येन वा कार्येण स्वर्गसुखार्थित्वादिना प्रव्रज्यामभ्युपगच्छति, ततः सामायिकादिद्रव्यश्रुतलाभः । ग्रन्थौ चैवं कियन्तं कालं स्थित्वा पुनः पश्चात् प्रतिनिवर्तते ॥१०५|| 25 येनाप्यनिवृत्तिकरणतः सम्यक्त्वमासादितं तस्यापि द्वौ प्रकारौ-केचित् परिणामतो
वर्धन्ते, केचिद् हानिमुपगच्छन्ति । तत्र ये हानि गच्छन्ति ते प्रतिपतन्ति, इतरे श्रावकत्वादीनि पदानि लभन्ते । तत्र जघन्यतः समकमेव, यत उक्तम्
सम्मत्त-चरित्ताई, जुगवं पुर्व व सम्मत्तं । उत्कर्षतः पुनरेवम्
सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावगो होजा।
चरणोवसम-खयाणं, सागरसंखंतरा होति ॥ १०६ ॥ १जोएयव्वातिं ति° भा० ता० ॥ २ पक्खा ता० ॥ चरण ना, ४°म्मत्ते पुण ल° ता०॥ ५ या पुण सा ता० ॥
स्याभव्य स्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org