________________
करण
न्तः
भाष्यगाथाः ९६-१०३]
पीठिका। यथा किञ्चिद् वस्त्रं सलिलं वा मलिनं भवति, किञ्चिद् 'दरशुद्धम्' ईपद्विशुद्धम् , किञ्चित् शुद्धम् । एष एव दृष्टान्तो दर्शनमोहे त्रिविधे भावनीयः-तदप्यपूर्वकरणवशात् किञ्चित् शुद्धं सम्यक्त्वरूपम् , किश्चिदीषद्विशुद्धं सम्यग्मिथ्यात्वरूपम् , किञ्चित्तथैव मलिनं मिथ्यात्वरूपं स्थितमिति भावः ॥ ९९॥ ___ अत्राह-कथमभव्यास्तस्मिन् ग्रन्थिदेशेऽवतिष्ठन्ते? कथं वा ततः प्रतिपतन्ति ? भव्या वा 3 कथं ग्रन्थि विभिद्य ततः परतो गच्छन्ति ? उच्यते-पिपीलिकादृष्टान्तात् । तमेवाहअहभावेण पसरिया, अपुवकरणेण खाणुमारूढा ।।
त्रिकाप्तौ चिट्ठति तत्थ काई, पिपीलिया काइ उड्डेति ॥ १००॥
पिपीलि. पच्चोरुहणट्ठा खाणुआतो चिट्ठति तत्थ एवावि ।
कादृष्टापक्खविहूणातो पिवीलियातो उड्डुति उ सपक्खा ॥१०१॥ 10 काश्चित्पिपीलिकाः 'यथाभावेन' अनाभोगतः 'प्रसरिताः' बिलान्निर्गत्य इतस्ततो गन्तुं प्रवृत्ताः। काश्चित्पुनरपूर्वकरणेन स्थाणुमारूढाः । तासामपि मध्ये काश्चित् 'तत्र' स्थाणावेव तिष्ठन्ति याः पक्षविहीनाः । काश्चित्सञ्जातपक्षास्ततः ‘उड्डयन्ते' ऊर्ध्वमाकाशेन गच्छन्ति ॥ १००॥ __ उत्तरार्द्धस्यैव व्याख्यानार्थमनन्तरगाथा “पच्चोरुहणट्ठा" इत्यादि । काश्चित् पक्षविहीनाः पिपीलिकाः स्थाणोः प्रत्यवरोहणार्थं 'तत्रैव' स्थाणावेव तिष्ठन्ति, अपिशब्दात् प्रत्यवरोहन्ति च । 15 यास्तु सपक्षास्ता उड्डीयन्ते । इह पिपीलिकानामितस्ततः प्रसरणं यथाप्रवृत्तकरणतः, स्थाण्यारोहणमपूर्वकरणतः, उड्डयनमनिवृत्तिकरणेन; एवमत्रापि ग्रन्थिदेशगमनं यथाप्रवृत्तिकरणेन, प्रन्थिभेदनमपूर्वकरणतः, सम्यग्दर्शनमनिवृत्तिकरणेन । यथा च काश्चन पिपीलिकाः पक्षविहीनत्वात् स्थाणावेव स्थिताः, स्थित्वा च ततः प्रत्यवतीर्णाः, तथा कोऽपि मन्दाध्यवसायतया तीव्रविशोधिरहितोऽपूर्वकरणेन ग्रन्थिभिदामाधातुमुद्यतः समुच्छलितघनराग-द्वेषपरिणामस्तत्रैव 20 तिष्ठति, स्थित्वा च पुनः पश्चात्ततः प्रतिनिवर्त्तते ॥ १०१ ॥ अत्रैवार्थे पुरुषदृष्टान्तमाहजह वा तिण्णि मणूसा, सभयं पंथं भएण वचंता ।
त्रिकाप्तौ वेलाइकमतुरिया, वयंति पत्ता य दो चोरा ॥ १०२॥
द्वितीयः तत्थेगो उ नियत्तो. एगो थद्धो अतिच्छितो एको।
पुरुषकमैगति अहापवत्तं, भिन्नेयर धावणं तइए ॥ १०३ ॥
25 दृष्टान्तः वाशब्दो दृष्टान्तान्तरसमुच्चये । यथा त्रयो मनुष्याः सभयं पन्थानं भयेन पाठान्तरं क्रमेण व्रजन्तः 'वेलातिक्रमत्वरिताः' सन्ध्यासमापतनेन गमनवेलातिक्रमतस्त्वरमाणा ब्रजन्ति । अत्रान्तरे चोभयपार्श्वतः प्राप्तौ पाणिकृपाणकरालौ द्वौ चौरौ । तौ च हक्कयन्तावेवमाक्षिपतः-क यास्यथ यूयम् ? मरणमेव युप्माकमिदानीं समापतितमिति ॥ १०२ ॥ __ तत्र 'एकः' पुरुषस्तौ समापतन्तौ दृष्ट्वा प्रथमत एव निवृत्तः । 'एकः' पुनर्द्वितीयो हक्काश्रव- 30 णत उद्गीर्णकृपाणदर्शनतश्च भयेन 'स्तब्धः' तत्रैव स्थितः । 'एकः' तृतीयः पुनः परमसाहसिकः प्रत्युद्गीर्णखड्गस्तौ द्वावपि चौरौ पश्चात्कृत्य तत्स्थानमतिकान्तः । इह या त्रयाणामपि पुरुषाणां १ कादी ता० ॥ २ ति अग्गओ पासे । पक्ख ता० ॥ ३°मति य अ° ता० ॥
वृ०५
करण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org