________________
णानि
दृष्टान्तः
३२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे नन्दी-ज्ञानपञ्चकम् त्यर्थः पुनः 'अपूर्वम्' अपूर्वकरणम् । अनिवृत्तिकरणं तु सम्यक्त्वं पुरस्कृतं येन स सम्यक्त्वपुर. स्कृतः तस्मिन् जीवे, सम्यक्त्वाभिमुखे इत्यर्थः ॥ ९५ ॥ ____ अथ यावदन्थिस्तावन्निर्गुणस्य सतः कथं कर्मराशेः क्षपणम् ? उच्यते--गिरिसरित्प्रस्तरदृष्टान्तात् । ततस्तमेव दृष्टान्तं तत्प्रसङ्गतः शेषकरणयोरपि दृष्टान्तानभिधित्सुरिगाथामाह
नदि पह जर वत्थ जले, पिवीलिया पुरिस कोदवा चेव । सम्यक्त लामेऽष्टा
सम्मइंसणलंभे, एते अट्ट उ उदाहरणा ।। ९६ ॥ वुदाहर- करणवशात् सम्यग्दर्शनला मे एतान्यष्टावुदाहरणानि । तद्यथा-"नदिति गिरिनदीप्रस्तरोदा
हरणम् १ पथदृष्टान्तः २ ज्वरोदाहरणम् ३ वस्त्रोदाहरणम् ४ जलोदाहरणम् ५ पिपीलिकोदाहरणम् ६ पुरुषोदाहरणम् ७ कोद्रवोदाहरणम् ८ ॥ ९६ ॥
10 तत्र प्रथमतो गिरिसरित्प्रस्तरोदाहरणं भावयति-- गिरिसरि
गिरिसरियपत्थरेहिं, आहरणं होइ पढमए करणे । प्रस्तर
एवमणाभोगियकरणसिद्धितो खवण जा गंठी ।। ९७ ॥ गिरिसरित्प्रस्तरैः 'आहरणं' दृष्टान्तः 'प्रथम' यथाप्रवृत्ताख्ये करणे भवति । तच्चैवम्-यथा गिरिसरित्प्रस्तरा गिरिसरिजलावेगतो घर्षण-घोलनादिना केचिद्वर्तुला भवन्ति केचित्र्यस्राः 15 केचिच्चतुरस्राः, एवम् 'अनाभोगकरणसिद्धितः' यथाप्रवृत्तकरणप्रभावतः सुदीर्घाया अपि कर्मस्थितेस्तावत् क्षपणं यावदन्थिरिति ॥ ९७ ॥
अथ "अनिवृत्तिकरणं सम्यक्त्वपुरस्कृते जीवे भवति" (गाथा ९५) इत्युक्तं तत् सम्यक्त्वं कथं लभते ? उच्यते-उपदेशतः स्वयं वा । तथा चात्र पथदृष्टान्तः
उवएसेण सयं वा, नहपहो कोइ मग्गमोतरति । 20 नष्टपथः कोऽपि पुरुषः 'उपदेशेन' अन्यं पृष्ट्वा तस्योपदेशेन मार्गमवतरति, कश्चिन्मार्ग
नुसारिप्रज्ञतया खयमेवेहा-ऽपोहं कृत्वा । एवमिहापि कोऽपि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते, कश्चित्खयमेव जातिस्मरणादिना ॥ अत्रैव ज्वरदृष्टान्तमाह
जरितो य ओसहेहिं, पउणइ कोई विणा तेहिं ॥ ९८॥ दृष्टान्तः
ज्वरितोऽपि कश्चिदौषधैः 'प्रगुणति' प्रगुणीभवति, कश्चित्पुनः 'तैः' औषधैः 'विना' एवमेव । 25 एवमत्रापि कस्यचिद्दर्शनमोह आचार्याधुपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः । इह ज्वरस्थानीयो दर्शनमोहः, औषधस्थानीय आचार्याधुपदेशः ॥९८॥
इह यस्तत्प्रथमतया क्षायोपशमिकसम्यग्दृष्टिरुपजायते सोऽपूर्वकरणवशान्मिथ्यात्वदलिकं त्रिधा करोति । तद्यथा-मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं च । अत्र वस्त्रदृष्टान्तं जलदृष्टान्तं चाऽऽह
मॅइल दरसुद्ध सुद्धं, जह वत्थं होइ किंचि सलिलं वा ।
एसेव य दिटुंतो, दंसणमोहम्मि ति विहम्मि ॥९९॥ १ पते खलु अट्टदा ता० ॥ २ °न्यं दृष्ट्वा भा० विना ॥ ३ मतिल ता० ॥ ४ च का . ता. विना ॥
पथदृशन्तः
ज्वर
30
वस्त्रज. लष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org