________________
भाष्यगाथाः ८९-९५] पाठिका। क्षपयति? इति वक्तव्यम् , तत्र-मिथ्यादृष्टय उपशान्तमोहपर्यन्ता अक्षीणाष्टप्रकृतिकाः, क्षीणमोहाः क्षीणं मोहनीयमित्यक्षीणसप्तप्रकृतिकाः, सयोग्य-अयोगिकेवलिनः क्षीणघातिकर्माणः॥२१॥
अथ कस्य कर्मण उत्कृष्टायां स्थितौ कस्य नियमत उत्कृष्टा स्थितिः? कस्य वा भजनया ? इति, अत आह
आउयवजा उ ठिई, मोहोकोसम्मि होइ उक्कोसा।
मोहविवजुक्कोसे, मोहो सेसा य भइयाउ ।। ९२ ॥ 'मोहोत्कर्षे' मोहनीयस्योत्कृष्टायां स्थितौ सत्यां नियमत आयुर्वर्जयित्वा शेषाणां कर्मणामुत्कृष्टा स्थितिभवति । मोहविवर्जस्य-ज्ञानावरणीयादेरुत्कर्ष-उत्कृष्टायां स्थितौ 'मोहः' मोहनीयं शेषाश्च प्रकृतयः 'भक्ताः' विकल्पिताः, कदाचिदुत्कृष्टस्थितिका भवन्ति कदाचिन्नेति भावः ॥ ___ तत्र सर्वेषां कर्मणामुत्कृष्टस्थितौ वर्तमानः प्रबलमोहाच्छादितत्वान्न किमपि सम्यग्दर्शनं 10 लभते, उक्तञ्च
___ अट्ठण्ह वि पगडीणं, उक्कोसठिईए वट्टमाणो उ ।
ण लभति सम्मइंसण, मिच्छत्तेणं विमोहाओ ॥ किन्तु सप्तानामायुर्वर्जानामभ्यन्तरकोटीकोट्यां वर्तमानाः(नः) । तथा चाह-- अंतिमकोडाकोडीऍ होइ सव्वासि कम्मपगडीणं ।
15 पलियाअसंखभागे, खीणे सेसे हवइ गंठी ॥ ९३ ॥ आयुर्वर्जानां सर्वाणां (सर्वासां) कर्मप्रकृतीनामन्तिमायां कोटीकोट्यां स्थितायां तत्रापि पल्योपमस्यासयेयतमे भागे क्षीणे शेषे स्थितिदलिके सति सम्यग्दर्शनलाभो भवति । केवलं तदानीं सम्यग्दर्शनलाभान्तरायभूतः कर्कश-धन-रूढ-गुपिलवल्कग्रन्थिरिव दुर्भेदो धनराग-द्वेषपरिणामरूपो ग्रन्थिर्भवति, ततस्तस्मिन् भिन्ने प्रतिपत्तव्यः ॥ ९३ ॥ तस्य च भेदः करणवशात् , अतः करणवक्तव्यतामाहतिविहं च होइ करणं, अहापवत्तं तु भव्व-ऽभवाणं ।
त्रिविधं भवियाण इमे अन्ने, अपुरकरणाऽनियट्टी य ॥ ९४ ॥ 'करणं' नाम परिणामविशेषः । तत् 'त्रिविधम्' त्रिप्रकारं भवति । तद्यथा-प्रथमं यथाप्रवृत्ताख्यं भव्यानामभव्यानां च साधारणम् । भव्यानां पुनः इमे द्वे अन्ये करणे, अपूर्वकर- 25 णम् 'अनिवृत्तिश्च' अनिवृत्तिकरणं च ॥ ९४ ॥ साम्प्रतमेतेषामेव त्रयाणां करणानां कालविभागमाहजा गंठी ता पढमं, गठिं समतिच्छतो अपुव्यं तु ।
करणानां अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ।। ९५ ॥
स्थिति. यावद् ग्रन्थिस्तावत् 'प्रथमम्' यथाप्रवृत्ताख्यं करणम् । ग्रन्थि 'समतिकामतः' भिन्दानस्ये. 30 कालः १ उ ता. बिना ॥ २ च्या व डे० विना ॥ ३°डीय हो' ता० ॥ ४°यामसं° ता. विना ॥ ५°रूढगूढगुपि भा०॥ ६°मे व्य(ब)ऽण्णे ता. ॥ ७°ट्टीयं ता० ॥ ८°तो भवे बीयं ता. विना ॥ ९ पुरेक्ख° ता० ॥
20
करणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org