SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पवधा सनियुक्ति-भाग्य-वृत्ति के बृहत्कल्पसूत्रे [ नन्दी-ज्ञानपञ्चकम् खरूपेण लोकोत्तरिकम् अङ्गा-ऽनङ्गप्रविष्टं सम्यक्श्रुतम् , लौकिक मिथ्याश्रुतम् । स्वामित्व. मासाद्य पुनलौकिके लोकोत्तरे च 'भजना' लौकिकमपि कदाचित् सम्यक्श्रुतं लोकोत्तरमपि मिथ्याश्रुतमित्यर्थः । तथाहि -लौकिकमपि सम्यग्दृष्टिपरिगृहीतं सम्यकश्रुतम् , मिथ्यादृष्टिपरि गृहीतं लोकोत्तरमपि मिथ्याश्रुतमिति ॥ ८८ ॥ 5 अथ येन सम्यक्त्वेन परिगृहीतं सम्यक्श्रुतं भवति तत् किंप्रत्ययम् ? अत आह ___आभिणिवोहमवायं, वयंति तप्पच्चयाउ सम्मत्तं । जा मणपजवनाणी, सम्मदिट्टी उ केवलिणो ॥ ८९ ॥ 'आभिनिवोधिकः' आभिनिबोधिक भेदो योऽपायो यद्वशाद् यथावस्थितार्थविनिश्चयस्तं सभ्यक्त्वस्य प्रत्ययं वदन्ति पूर्वसूरयः, सम्यग्ज्ञाने सम्यक्श्रद्धानभावात् । 'तत्प्रत्ययाच' अपायप्र10 त्ययाच्च सम्यक्त्वं तावदवसेयं यावन्मनःपर्यायज्ञानिनः, ततः परमपायस्याभावात् । केवलिनः केवलज्ञानप्रत्ययादेव सम्यग्दृष्टयः ।। ८९ ॥ अथ तत् सम्यग्दर्शनं कतिविधम् ? अत आहसम्यक्त्वस्वरूपम् उँवसमियं सासायण, खओवसमियं च वेदगं खइयं । सम्यक्त्वम् सम्मत्तं पंचविहं, जह लब्भइ तं तहा वोच्छं । ९० ॥ 15 सम्यक्त्वं पञ्चविधम् । तद्यथा-औपशमिकं सासादनं क्षायोपश मिकं वेदकं क्षायिकं च । एतत् पञ्चप्रकारमपि यथा लभ्यते तथा वक्ष्यामि ।। ९० ॥ तदेवाह--- बंधद्वितीपमाणं, सामित्तं चेव सव्वपगडीणं । प्राप्तिक्रमः को केवइयं बंधइ, खवेइ वा कित्तियं कोइ ।। ९१ ॥ सम्यक्त्वं कर्मणां क्षयत उपशमतः क्षयोपशमतश्योपजायते । क्षयादयश्च त्रयः प्रकारा 20 बद्धानां कर्मणां नाबद्धानामिति प्रथमतो बन्धतः स्थितिप्रमाणं जघन्यत उत्कर्षतश्च वक्तव्यम् , तच्चैवम्-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टं स्थितिपरिमाणम् , मोहनीयस्य सप्ततिसागरोपमकोटीकोट्यः, नाम-गोत्रयोविंशतिसागरोपमकोटीकोट्यः, आयुषस्त्रयस्त्रिंशत्सागरोपमाणि; तथा जघन्यं वेदनीयस्य द्वादश मुहूर्ताः, नाम-गोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्तम् । तथा सर्वप्रकृतीनां सत्तामधिकृत्य स्वामित्वं वक्तव्यम्, तच्चैवम्-मिथ्या25 दृष्टि-सास्वादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणा-ऽनिवृत्तिबादरसूक्ष्मसम्परायो-पशान्तमोहा अष्टानामपि प्रकृतीनां खामिनः, मोहनीयवर्जानां सप्तानां क्षीणमोहाः, वेद्या-ऽऽयु-र्नाम-गोत्राणां सयोग्य-ऽयोगिकेवलिनः । तथा कः कियद् बध्नाति ? इति वक्तव्यम् , तत्र-मिथ्यादृष्टयोऽप्रमत्तान्ताः सप्तविधबन्धका वाऽष्टविधबन्धका वा, अपूर्वकरणाऽनिवृत्तिबादराः सप्तविधवन्धकाः, सूक्ष्मसम्परायाः पड्डिधवन्धकाः, उपशान्तमोह-क्षीणमोह30 सयोगिकेवलिनः सातवेदनीयैकबन्धकाः, अबन्धका अयोगिकेवलिनः । तथा को वा कियत् १चयं तु स° ता०॥ २ नाणं स ता० ॥ ३ उबसामग सासाणं ता० ॥ ४ को उ ता० ॥ ५°षत्रिंश कां० विना ॥ सम्यक्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy