________________
कालिक्यु
10
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे नन्दी-ज्ञानपञ्चकम् तत्र कालिक्युपदेशेन संज्ञा यस्य ईहा-ऽपोह-मार्गण-गवेषणादयो मनोव्यापाराम्ते कथं भवन्ति ? इत्यत आह
खंधेऽणंतपएसे, मणजोगे गिज्झ गणणतोऽणंते। पदेशेन संश्यसं
तल्लद्धि मणेति तहा, भासादव्वे वे भासते ॥ ७९ ॥ शिनौ
5 यथा भाषालब्धिसमेतो भाषाद्रव्याण्युपादाय भाषते, [तथा] तस्मिन्-मनसि लब्धिर्यस्य सः 'तल्लब्धिः' मनोलब्ध्युपेतो मनोयोग्यान् स्कन्धाननन्तप्रदेशान् ‘गणनया' सद्ध्यानेनानन्तान् गृ. हीत्वा मनुते । किमुक्तं भवति ?-तैर्मनोद्रव्यैरीहा-ऽपोह-मार्गणातस्तांस्तान् भावान् जानाति ॥७९॥ कथम् ? इत्याह
सवे जहोवलद्धी, चक्खुमतो दंसिए पगासेण ।
इय छविहमुवओगो, मणदव्वपगासिए अत्थे ।। ८० ॥ यथा चक्षुष्मतः 'रूपे' घटादौ 'प्रकाशेन' प्रदीपादिना 'दर्शिते' प्रकाशिते चक्षुषा उपलब्धिः 'इति' एवंम्-उक्तेन प्रकारेण मनोद्रव्यैः प्रकाशिते–मनितेऽर्थे 'घडिधः' शब्द-रूप-रस-गन्धस्पर्शा-ऽतीताऽनागतभाव विषयः स्पष्टतर उपयोगो भवति । यश्च ईहा-ऽपोहादिकरणतः स्पष्टतर
उपयोगः स दीर्घकालिक्युपदेशेन संज्ञिश्रुतम् । यस्य तु मनोद्रव्याभावतो नेहादि सोऽसंज्ञी ।।८०॥ 15 अथ मनोद्रव्याभावे कथमसंज्ञिनामावगमः ? तत आह
एसेव य दिटुंतो, नातिफुडे खलु जहा पंगासेणं ।
होउवलद्धी रूवे, अस्सण्णीणं तहा विसए ॥ ८१॥ 'एष एव' चक्षुर्लक्षणो दृष्टान्तोऽसंज्ञिनोऽर्थावगमे द्रष्टव्यः । यथा खलु चक्षुष्मतो रूपे 'प्रकाशेन' प्रदीपादिना मन्दतया नातिस्फुटे प्रकाशिते उपलब्धिर्मन्दा भवति तथा 'विषये' 20 शब्दादौ असंज्ञिनां विशिष्टमनोद्रव्यलब्ध्यभावे उपयोगो मन्दो भवति ॥ ८१ ॥ अथवाऽन्यो दृष्टान्तः
अहवा मुच्छित मत्ते, पासुत्ते वा वि होइ उवलंभो।
इय होति असन्नीणं, उवलंभो इंदिया जेसिं ॥ ८२॥ 'अथवा' इति दृष्टान्तस्य प्रकारान्तरोपदर्शने । मूर्च्छिते मत्ते प्रसुप्ते वा यथा अव्यक्त उप25 लम्भो भवति 'इति' एवं यति येषामिन्द्रियाणि तेषामसंज्ञिनां ततिविध उपयोगः स्फुटो भवति
॥ ८२ ॥ अथ तुल्ये चेतनत्वे किमिति संजिनां प्रागल्भ्येन चैतन्यम् ? अव्यक्तमसंज्ञिनाम् ? इति, अत आह
तुल्ले छेयणभावे, जं सामत्थं तु चकरयणस्स ।
तं तु जहक्कमहीणं, न होइ सरपत्तमादीणं ॥ ८३ ॥ १तओ भा ता० ॥ २ वि ता. विना ॥ ३रूवे होउवलद्धी चक्खुपतोवदंसि ता० ॥ ४ "एवं सद्द-फरिस-रस-रूव-गंधेसु छटो य सुमिणादिसु उवयोगो भवति मणदव्वपगासिते अत्थे" इति चूर्णौ ॥ ५ नेहा-ऽपोहादि भा० ॥ ६ पतासेणं ता० ॥ ७ वि अत्थ उव ता०॥ ८°याणि जइ ता० । “इय होइ असण्णीणं उवलंभो अव्वत्तो इंदियाणि जति तेसि ततिविधो” इति चूर्णिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org