SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भाव्यगाथा: ७३-७८] पीठिका । अनश्वर 'पञ्चानामपि' पृथिवीकायिकादीनां वनस्पतिकायपर्यन्तानां स्त्यानगृद्धिनिद्रासहितेन ज्ञानावरणोदयेन 'अक्षरं' ज्ञानम् 'अव्यक्तं' सुप्त-मत्त-मूच्छितादेरिवास्फुटम् , अतो न तत्रापि सर्वथा ज्ञानमावृतम् , तथापि पृथिवीकायिकानामत्यस्फुटम् , ततोऽप्कायिक-तेजस्कायिक-वायुकायिकवनम्पतिका यिकानां क्रमेण विशुद्धतरम् । इदं चूर्णिकारवचनाल्लिखितम् । ततः क्रमेण द्वीन्द्रियादावक्षरस्य विशुद्धिस्तावद्रष्टव्या यावदनुत्तरोपपातिनाम् , ततोऽपि चतुर्दशपूर्विणाम् । उक्तञ्च तं चिय विसुज्झमाणं, बिंदियमादी कमेण विन्नेयं । जा होतऽणुत्तरसुरा, सब विसुद्धं तु पुवधरे ॥ (कल्प वृ. भा.] इह यद्यपि प्रागक्षरं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं केवलमभिप्रेतम् , नित्यापावृतोऽप्यनन्तभागस्तस्यैव, तथापि केवलज्ञानस्येव श्रुतज्ञानस्याप्यनन्तभागो नित्यापावृत इति तेनान्ते 10 योजना कृता ॥ ७५ ॥ उक्तमक्षरश्रुतम् । इदानीमनक्षरश्रुतमाहउंससियं नीससियं, णिच्छूट खासियं च छीयं च।। श्रुतम् णिस्सिघियमणुसार, अणक्खरं छलि आदीयं ॥ ७६ ॥ ऊर्ध्वं श्वसनमुच्छ्वसितम् , अधः श्वसनं निःश्वसितम् , निष्ठ्यतं कासितं क्षुतं निस्सिचितं च प्रतीतम् , 'अनुस्वारम्' अनुस्खारवत् , 'शेण्टितम्' गोपजनस्य प्रतीतम् । आदिशब्दाद् जम्भित- 15 मणितादिपरिग्रहः । एतद् 'अनक्षरम्' अनक्षरश्रुतम् । उच्चसितादिभ्योऽपि हि विवक्षितार्थप्रतिपत्तिर्भवति, न च तदक्षरात्मकम् , अतोऽनक्षरश्रुतम् ॥ ७६ ॥ तत्र यथाऽनक्षरादप्यर्थप्रतिपत्तिरुपजायते तथा निदर्शनेन प्रतिपादयति टिष्टि त्ति नंदगोवस्स बालिया वच्छए निवारेइ । टिहि ति य मुद्धडए, सेसे लट्ठीनिवाएणं ॥ ७७ ॥ नन्दगोपस्य वालिका क्षेत्रादिकं रक्षन्ती 'वत्सकान्' बालगोरूपान् ‘टिट्टि' इति अनुकरणानुरूपमनुकार्यमुच्चरन्ती निवारयति । तथा ये मुग्धाः-हरिणादयः तानपि 'टिट्टि' इत्येवं निवारयति । 'शेपास्तु' पण्डप्रभृतीन् यष्टिनिपातेन निवारयति । अत्र 'टिट्टि' इत्येतदनक्षरमपि वत्सादीनां प्रतिषेधलक्षणार्थप्रतिपत्तिहेतुरुपजायत इत्यनक्षरश्रुतं निदर्शितम् । एवं शेषमपि भावनीयम् ॥७७॥ उक्तमनक्षरश्रुतम् । अधुना संज्ञिश्रुतमाह-- सन्नाणेणं सण्णी, कालिय हेऊ य दिद्विवाए य। आदेसा तिणि भवे, तेसिं च परूवणा इणमो ॥ ७८ ॥ संत्यसं ज्ञिश्रुते संज्ञानेन संज्ञी, 'संज्ञानं संज्ञा, सा यस्यास्ति स संज्ञी' इति व्युत्पत्तेः । तत्र त्रय आदेशा भवन्ति, तद्यथा-"कालिय" त्ति पदैकदेशे पदसमुदायोपचारात् कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन च ।। ७८ ।। १ "तं च सव्यथोवं पुढविकाइयाणं, कस्मात् ? निश्चेष्टलात् । ततः क्रमाद् यावद् वनस्पतिकाइयाणं विसुद्धतरम् ।" इति चूर्णिः ॥ २ उस्ससि ता० ॥ ३ कासि ता० ॥ ४ तित्ति त्ति ता० ॥ ५ छच्छ त्ति ता० ॥ ६संजाणणेण स ता.॥ 20 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy