________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [नन्दी-ज्ञानपञ्चकम् 'येन' कारणेन न कदाचिदपि 'तद्' ज्ञानं जीवात् 'क्षरति' भ्रंशमुपयाति तेन कारणेन ज्ञानमक्षरमुच्यते । कथमेतदवसीयते 'न कदाचिदपि ज्ञानं जीवात् क्षरति' ? इति, अत आह–'तस्य' अक्षरस्यानन्तभागोऽतिप्रबलेनापि ज्ञानावरणोदयेन संसारस्थानां सर्वजीवानां नाऽऽवियते । उक्तञ्च5 सश्वजीवाणं पि य णं अक्खरस्स अणंतो भागो निचुग्याडिओ (नन्दीसूत्रे सूत्र ४२ पत्र १९५) इति । नित्योद्घाटो नाम नित्यापावृतः ।। ७२ ॥ केन पुनराच्छाद्यते येन ज्ञानस्यानन्तभागो नित्यापावृतः ? इत्याह--
एकेको जियदेसो, नाणावरणस्स हूंतऽणंतेहिं ।
_अविभागेहाऽऽवरितो, सव्वजियाणं जिणे मोत्तुं ॥ ७३ ॥ 10 'जिनान्' केवलज्ञानिनो मुक्त्वा शेषाणां सर्वजीवानाम् एकैको जीवप्रदेशो ज्ञानावरणीयस्य कर्मणोऽनन्तैः ‘अविभागैः' अविभागपरिच्छेदैः, येषां ततोऽप्यधो विभागः कर्तुं न शक्यते तेऽविभागपरिच्छेदाः, तैरावृतः ॥ ७३ ॥ — यद्येवं कथमनन्तभागो ज्ञानस्य नित्यापावृतः ? इत्याह-..
जैति पुण सो वि परिजेज तेण जीवो अजीवयं गच्छे । 15 सुट्ट वि मेहसमुदए, होति पभा चंद-सूराणं ॥ ७४ ॥
यथा 'सुष्ठपि' अतिशयेनापि मेघसमुदये जाते तथाखभावत्वात् चन्द्र-सूर्याणां प्रभा भवति, तथा प्रत्यक्षत उपलब्धेः; एवमेकैकस्य जीवप्रदेशस्यानन्तैर्ज्ञानावरणाविभागपरिच्छेदैरावरणेऽपि तथास्वभावत्वाद् ज्ञानस्यानन्तभागो नित्योद्घाटित एव । यदि पुनः सोऽध्यात्रियेत
तत एकान्ततो निश्चेतनत्वाज्जीवः 'अजीवतां गच्छेत्' अजीवो भूयात् , घटवत् ॥ ७४ ॥ 20 ननु कथमुच्यते 'अनन्तभागो नित्योद्घाटः' ? यावता समस्ति पृथिव्यादीनां सर्वथा ज्ञानमावृतम् , अत आह
अव्वत्तमक्खरं पुण, पंचण्ह वि थीणगिद्धिसहिएणं ।
णाणावरणुदएणं, बिंदियमाई कमविसोही ॥ ७५ ॥ १°त्याप्रावृ भा० । एवमग्रेऽपि ॥ २ गाथेयं मूलपुस्तकादर्शेष्वित्थरूपोपलभ्यते
अविभागेहि अणंतेहि णाणावरणस्स एक्कमेको उ।
होति पतेसो वरितो, सन्चजियाणं जिणे मोत्तुं ॥ चर्णिकृद्भिरेतदनुसारेणैव व्याख्यातम् । तथाहि-"अविभागेहि. गाहा । अविभागेहिं ति न सकंति छउमत्थेणं चक्खुणा विभयितुं पलिच्छेदा इति वाक्यशेषः, अंसा भेदा उत्तरपगडीओ इत्यनर्थान्तरम् । तैरविभागैरनन्तैीनावरणीयस्य कर्मणः सर्वजीवानामेकैकः प्रदेश आवृतो जिनान् मुक्खा ॥ अक्षरमित्येतस्याभिधानस्येयं व्याख्या-णाणं तु अक्खरं. गाधा । कहमजीवत्तं गच्छेत् ? अज्ञवात् । यश्चाज्ञः स निश्चेतनो भवति, घटवत् । तस्मात् सुष्ठस्याऽऽवृतोऽसौ, न निश्चेतनः । कथम् ? यथा सुट्ट वि मेहसमुदओ ॥ आह णणु पुढविमादीणं पंचण्हं सव्वहा आवरितं गाणं ? उच्यते-अव्वत्तमक्खरं० गाधा।" इति ॥
३ गाथेयमनादृता चूर्णिकृद्भिः। दृश्यतां टिप्पणी २॥ ४ प्यात्रियते तत भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org