________________
भाष्यगाथाः ६८-७२] पीठिका ।
तदेवं पर्यायपरिमाणमप्यल्पबहुत्वेन चिन्तितम् । साम्प्रतमरूपिद्रव्यं चिन्त्यते । तच्चतुर्धा, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायश्च । एतेषां किमगुरुलघुपर्यायपरिमाणम् ? अत आह
केण हवेज विरोहो, अगुरुलहूपजवाण उ अमुत्ते ।
अचंतमसंजोगो, जहियं पुण तविवक्खस्स ॥ ६९ ॥ यत्र 'अमूर्ते' धर्मास्तिकायादौ 'तद्विपक्षस्य' गुरुलघुपर्यायजातस्य 'अत्यन्तम्' एकान्तेन 'असंयोगः' अघटना तत्रागुरुलघुपर्यायाणां केन 'विरोधः' विनाशनं भवेत् ? नैव केनचित् । ततः केनापि विनाशाभावात् सदैव प्रतिप्रदेशमनन्ता अगुरुलघुपर्यायाः॥६९॥ तथा चाऽऽह-.
एवं तु अणंतेहिं, अगुरुलहूपजवेहि संजुत्तं ।
होइ अमुत्तं दव्वं, अरूविकायाण उ चउण्हं ॥ ७० ॥ एवं तु सति चतुर्णामपि 'अरूपिकायानाम्' अरूपिणामस्तिकायानां धर्मास्तिकायप्रभृतीनामेकैकाख्यं यदमूर्त(त) द्रव्यं तद् भवति प्रत्येकमनन्तैरगुरुलघुपर्यायैः संयुक्तम् ॥ ७० ॥ ___ तदेवं भावित एकैक आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यवैरुपेतः । सम्प्रति यथा ज्ञानं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं भवति तथा दर्शयति
उवलद्धी अगुरुलहू, संजोग-सरादिणो य पजाया।
एतेण हुंतऽणंता, सव्वागासप्पएसेहिं ॥ ७१॥ चतुर्णामप्यस्तिकायानां पुद्गलास्तिकायस्य च ये अगुरुलघवः पर्यायाः, उपलक्षणमेतत् , बादरस्कन्धानां गुरुलघुपर्यायाश्च, यावन्तश्चाक्षरेषु वरूपतोऽभिलाप्यभेदतो वा संयोगाः, यैश्चोदात्तादिभिः खरैरभिलप्यन्ते भावाः, आदिशब्दाद् ये चान्ये शकुनरुतादिगताः स्वरविशेषाः, ये च जीव-पुद्गलगताश्चेष्टाविशेषास्ते सर्वेऽपि गृह्यन्ते, एतेषां सर्वेषामप्युपलब्धिर्भवति । न च येन 20 खभावेनैकस्य तेनैवान्यस्य किन्तु भिन्नेन । तत एतेन प्रकारेण ज्ञानस्य खभावाः सर्वाकाशप्रदेशेभ्योऽनन्तगुणाः ॥ ७१ ॥ तदेवमुक्तं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं ज्ञानम् । इदानीं यथा तदक्षरमुच्यते तथा भावयति
णाणं तु अक्खरं जेण खरति ण कयाइ तं तु जीवातो। तस्स उ अणंतभागो, न वरिजति सव्वजीवाणं ॥ ७२ ॥
25 १ निरोहो ता० । “निरंभणं निरोहो" इति चूर्णी ॥ २ जहेय पुण ता.॥
३"उवलद्धी० गाहा । उपलम्भनमुपलब्धिः ज्ञानमित्यर्थः । कस्य ? इति, अत्रोच्यते-धर्मा-धर्म-जीवपोग्गलत्थिकाय-अद्धासमयाणं सवपगारेहिं उवलंभणं उपलब्धिः । अगुरुलह त्ति सम्वागासपदेसाणं एकेकस्स आगासपदेसस्स अणंता अगुरुलहुपजाया । संजोग त्ति ते भावा जावतिएहिं अक्खरसंजोगेहिं अभिलप्पंति त्रिकालविषये । सरादि त्ति त एव भावा उदात्तादिभिः खरैरभिलप्यन्ते, आदिग्रहणाद् या चान्या काचिचेष्टा, शकुनरुताद्या वा स्वरा गृह्यन्ते । पर्यायशब्दः अन्तेऽभिहितः प्रतिपदमुपतिष्ठते, यथाउपलब्धिपर्यायः, एवं सर्वत्रानेन करणेनानन्ता ज्ञानपर्यायाः सर्वाकाशप्रदेशेभ्यः ॥” इति चूर्णौ ॥
४ सम्बाकासप्पदेसेहिं ता० ॥ ५ एनद्गाथाया अनन्तरं चूर्णिता "अविभागे हिं" गाथा ७३ व्याख्याताऽस्ति । दृश्यतां षड्रिंशतितमे पत्रे टिप्पणी २॥
वृ०४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org