________________
भाष्यगाथाः ४०-४६]
पीठिका ।
5 संज्ञाक्ष
लब्ध्य
तत्र यद व्यञ्जनाक्षरं तत् प्रथमनयः-नैगमनयस्तस्याऽऽदेशेन 'न क्षरति' न स्वभावाच्चलति, नित्यमित्यर्थः । तथा च तन्मतानुसारिणो मीमांसका नित्यं शब्दमातिष्ठमानाः प्रतीता एव । ये पुनरभिलाप्या भावास्ते क्षराश्च भवन्त्यक्षराश्च । तत्र क्षरा घटादयः, अक्षरा धर्मास्तिकायादयः ॥ ४३ ॥ अथ कीदृशं संज्ञाक्षरम् ? इति तत्प्रतिपादनार्थमाह
संठाणमगाराई, अप्पाभिप्पायतो वे जं जैस्स । यद् लिपिभेदतः संस्थानमकारादेः, यथा-कलशाकृतिः टकारः, तत् तथासस्थानविशिष्टमका- रम् रादि संज्ञाक्षरम् । अथवा 'आत्माभिप्रायतः' आत्मेच्छया यद् यस्य संस्थानं चिह्नविशेषरूपं क्रियते तत् संज्ञाक्षरम् ॥ सम्प्रति लब्ध्यक्षरमाहलद्धी पंचविगप्पा, जस्सुवलब्भो उ जो अत्थो ॥४४॥
क्षरम् लब्धिः 'पञ्चविकल्पा' पञ्चभेदा । अत्र 'लब्धिः ' इति पदैकदेशे पदसमुदायोपचाराद् 10" 'लब्ध्यक्षरम्' इति प्रतिपत्तव्यम् । ततोऽयमर्थः-पञ्चविधं लब्ध्यक्षरम् , तद्यथा-श्रोत्रेन्द्रियल
ध्यक्षरं जिह्वेन्द्रियलब्ध्यक्षरं चक्षुरिन्द्रियलब्ध्यक्षरं घ्राणेन्द्रियलब्ध्यक्षरं स्पर्शनेन्द्रियलब्ध्यक्षरं च । उपलक्षणमेतत् , तेन षष्ठं नोइन्द्रियलब्ध्यक्षरमप्यवगन्तव्यम् । अथ कीदृशं षट्प्रकारमपि लब्ध्यक्षरम् ? अत आह-'यस्य' श्रोत्रादेः श्रोत्र-चक्षु-र्घाण-जिहा-स्पर्शनेन्द्रियाणां मनसश्च य उपलभ्यः 'अर्थः' शब्दादिस्तमुपलभ्य याऽक्षराणां लब्धिरुपजायते तत् श्रोत्रेन्द्रियादिलब्ध्य-15 क्षरम् । किमुक्तं भवति ?-श्रोत्रेण शङ्खशब्दमुपलभ्य तदनन्तरं 'शङ्ख' इत्येवंरूपयोर्द्वयोरक्षरयोर्या लब्धिस्तत् श्रोत्रेन्द्रियलब्ध्यक्षरम् ॥ ४४ ॥ प्रकारान्तरेण लब्ध्यक्षरभेदानाहसामन्न विसेसेण य, दुविहुवलद्धी उ पढमिय अभेया ।
प्रकारातिविहा य अणुवलद्धी, उवलद्धी पंचहा विईया ॥४५॥
न्तरेण अथवा 'उपलब्धिः' उपलब्ध्यक्षरं 'द्विविधं द्विप्रकारम् , तद्यथा--'सामान्येन विशेषेण च' 20 लब्ध्यक्षसामान्यलब्ध्यक्षरं विशेषलब्ध्यक्षरं चेति भावः । तत्र 'प्रथमिका' सामान्योपलब्धिः-सामान्योपलब्ध्यक्षरं अभेदम् , सामान्ये भेदाभावात् । इहोपलब्धिरनुपलब्ध्यपेक्षा, ततस्तस्या अपि प्ररूपणा कर्तव्येत्यत आह-'त्रिविधा' त्रिप्रकाराऽनुपलब्धिः । या पुनः 'द्वितीया' विशेषोपलब्धिः-विशेषोपलब्ध्यक्षरं सा ‘पचधा' पचप्रकारा ॥४५।। तानेव त्रीन् पच च भेदानाह
अचंता सामन्ना, य विस्सुती होइ अणुवलद्धीओ। सारिक्ख विवक्खोभय, उवमाऽऽगमतो य उवलद्धी ॥ ४६॥
लब्धि
त्रिक अनुपलब्धिरेवं त्रिधा भवति । तद्यथा-'अत्यन्ताद्' एकान्तेनानुपलब्धिः सामान्याद् विस्मृ- व तेश्च । उपलब्धिरपि पञ्चप्रकारैवम्-सादृक्षतो विपक्षतः 'उभयतः' उभयधर्मदर्शनत औपम्यत पलब्धि.
पच्चकं च आगमतश्च ॥ ४६॥ तत्र प्रथमतोऽत्यन्तानुपलब्धिमाह
१ यउ(यत्तदुक्तं व्य भा० डे० ॥ २ अत्ताभि ता० ॥ ३ य ता० ॥ ४ तस्स ता. कां. विना ॥ ५ "वज्राकृतिर्मकारः" इति चूर्णौ । “कस्मिंश्चिल्लिपिविशेषेऽर्धचन्द्राकृतिष्टकारः, घटाकृतिष्ठकारः" इति विशेषावश्यकटीकायां पृ. २५६ मलधारी हेमचन्द्रसूरिः॥ ६ “यथा पुष्करसार्या लिप्यां वभिखादि" इति चूर्णौ ॥ ७ नाऽत्रेन्द्रियक्रममेदः कारणिकः किन्तु स्वाभाविकः ॥ ८ सामान
ता० ॥ ९ वीया ता० ॥ Jain Education internattras
25 अनुप
For Private & Personal Use Only
www.jainelibrary.org