________________
इन्द्रिय
मनसो
विषयः
श्रुतस्य
भेदाः
अक्षर
श्रुतम्
सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे
[ नन्दी - ज्ञानपञ्चकम्
'प्रत्यक्षम् ' इन्द्रियविषयं परोक्षम्' इन्द्रियविषयातिक्रान्तं यद् अर्थमूहित्वा 'निर्दिशति' निर्णयपुरस्सरं ब्रूते 'एष एवंभूतोऽर्थः ' इति, तद् अर्थं प्रति 'अभिमुखं' यथार्थविषयं आभिनिबोधिकम्, 'न विपरीतं' नाऽनर्थाभिमुखम्, तस्यायथार्थतया मिथ्यारूपत्वात् ॥ ३९ ॥ तच्च द्विधा - इन्द्रियनिश्रितमनिन्द्रियनिश्रितं च । अनिन्द्रियं मनः । सम्प्रतीन्द्रियाऽनिन्द्रिय5 योर्विषयविभागमाह
अत्थानंतरचारिं, नियतं चित्तं तिकालविसयं तु ।
अत्थे पडणे, विणियोगं इंदियं लहइ ॥ ४० ॥
अर्थे - शब्दादाविन्द्रियव्यापारादनन्तरं चरति - व्याप्रियत इत्येवंशीलमर्थानन्तरचारि, इन्द्रिये प्रथमं व्यापृते पश्चान्मनो व्याप्रियत इति भावः ; 'नियतं' नियतार्थविषयम्, नैककालम ने कवि10 षयमित्यर्थः, ‘चित्तं' मनः । पुनः कथम्भूतम् ? इत्याह- 'त्रिकालविषयं ' त्रिष्वपि कालेषु यथायोग्यं विषयो यस्य तत्तथा । 'इन्द्रियं पुनः ' चक्षुरादिकं 'विनियोगं' व्यापारं लभते 'प्रत्युत्पन्ने' वर्त्तमानेऽर्थे वर्त्तमानार्थविषयम् नाऽतीता ऽनागतार्थविषयमिति भावः ॥ ४० ॥
श्रुतज्ञानम्
१६
मतिविसयं मतिनाणं, मतिपुव्वं पुण भवे सुयन्नाणं । तं पुण समतिसमुत्थं, परोवदेसा व सव्वं पि ॥ ४१ ॥
मतिज्ञानं 'मतिविषयं' मत्यनुसारि, यस्य यादृशी मतिस्तस्य तदनुसारं मतिज्ञानं प्रवर्त्तत इत्यर्थः । श्रुतज्ञानं पुनर्भवति ' मतिपूर्वं' मतिकारणकम् श्रुतज्ञानं हि वाच्य - वाचकभावेन शब्दप्लावितस्याऽर्थस्य ग्रहणम्, वाच्य वाचकभावेन च शब्दः प्रवर्तते मत्यवधारितेऽर्थ इति । 'तत् पुनः' श्रुतज्ञानं सर्वमपि मूलभेदापेक्षया द्विविधम्, तद्यथा - स्वमतिसमुत्थं 'परोपदेशाद्वा' 20 परोपदेशसमुत्थं चेत्यर्थः । तत्र स्वमतिसमुत्थं प्रत्येकबुद्धानां पदानुसारिप्रज्ञानां वा, परोपदेशसमुत्थमस्मदादीनाम् ॥ ४१ ॥ तत् कतिविधम् ? इति तद्भेदप्रदर्शनार्थमाह
15
30
अक्खर सण्णी सम्मं, सौंईयं खलु सपज्जवसियं च ।
गमियं अंगपवि, सत्त वि एए सपडिवक्खा ॥ ४२ ॥
अक्षरश्रुतं संज्ञिश्रुतं सम्यक् श्रुतं सादिश्रुतं सपर्यवसितं गमिकम् अङ्गप्रविष्टमिति । एतानि 25 सप्ताऽपि पदानि सप्रतिपक्षाण्यवगन्तव्यानि ततश्चतुर्दशप्रकारं भवति । तद्यथा - अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतमसंज्ञिश्रुतं सम्यक्श्रुतं मिथ्याश्रुतं सादिश्रुतमनादिश्रुतं सपर्यवसितमपर्य - वसितं गमिकमगमिकम् अङ्गप्रविष्टमनङ्गप्रविष्टं च ॥ ४२ ॥ तत्राऽक्षरश्रुतप्रतिपादनार्थमाहअक्खरतिगरूवणया, पढमनयादेसतो न तं खरति ।
अभिलप्पा पुण भावा, होंति खरा अक्खरा चैव ॥ ४३ ॥
अक्षर त्रिकस्य - संज्ञाक्षरस्य लब्ध्यक्षरस्य व्यञ्जनाक्षरस्य चेत्यर्थः रूपणका - प्ररूपणा कर्त्तव्या । १ " परोक्षं जं अणुमाणोवम्मेहिं गेण्हति, अणुमाणेण जधा - णदीपूरएणं वासं, सद्देण संखं, ओवम्मेण - गाईओ (गावीए प्र०) गवयं” इति चूर्णो ॥ २ उता० ॥ ३ सारि मति' कां० ॥ ता० ॥ ५ पुण अत्था, होंति ता० ॥
४ सातीयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org