________________
भाष्यगाथा ३३-३९]
पीठिका। येन संज्ञिजीवानां मनोद्रव्याणि "मणिजमाणे” इति मन्यमानानि' मननेन व्यापार्यमाणानि दृष्ट्वा 'मानसं भावं जानाति' चिन्तितमर्थमवबुध्यते तन्मनःपर्यवज्ञानम् ॥ ३५ ॥ एतदेव सनिदर्शनं भावयति
जाणइ य पिहजणो वि हु, फुडमागारेहि माणसं भावं । [जी.भा.८७]
एसवमा तस्स भव तस्सवमा, मणदव्यपगासिए अत्ये ॥ ३६ ।। जो.भा. 'पृथग्जनोऽपि' लोकः 'हुः' निश्चितं [म्फुटम् ] आकारैर्मानसं भावं जानाति, एवमेव 'तस्यापि' मनःपर्यवज्ञानिनो मनोद्रव्यप्रकाशितेऽर्थे उपमा द्रष्टव्या । किमुक्तं भवति ?-यथा प्राकृतो लोकः स्फुटमाकारैर्मानसं भावं जानाति तथा मनःपर्यवज्ञान्यपि मनोद्रव्यगतानाकारानवलोक्य तं तं मानसं भावं जानातीति । एतदपि द्रव्य-क्षेत्र-काल-भावैर्यथा नन्धध्ययने (मल० पत्र ९९-२) तथा चिन्तनीयम् ॥ ३६ ॥ गतं मनःपर्यवज्ञानम् , अधुना केवलज्ञानमाह
10 केवलज्ञानम्
पंकसलिले पसाओ, जह होइ कमेण तह इमो जीवो। [जी. भा.९०]
आवरणे झिजंते, विसुज्झए केवलं जाव ॥ ३७॥ यथा पङ्ककलुषिते सलिले कतकचूर्णयोगतः 'प्रसादः' प्रसन्नता क्रमेण भवति, तथाऽयं जीवोऽपूर्वकरणगुणस्थानकादारभ्य क्षपकश्रेणिमारूढो विशुद्ध-विशुद्धतराध्यवसायप्रभावतःक्षीय-16 माणे आवरणे तावद् विशुध्यति यावत् क्षीणकषायगुणस्थानकचरमसमये ज्ञानावरणपश्चकाऽन्तरायपञ्चक-दर्शनावरणचतुष्टयक्षयं कृत्वाऽनन्तरसमये केवलज्ञानमासादयति ॥ ३७॥ कथैम्भूतं यत्केवलम् ? इत्याह
दवादिकसिणविसयं, केवलमेगं तु केवलन्नाणं ।
अणिवारियवावारं, अणंतमविकप्पियं नियतं ॥ ३८ ॥ केवलज्ञानं 'द्रव्यादिकृत्स्नविषयं' द्रव्यादीनि कृत्स्नानि-समस्तानि विषयो यस्य तत्तथा, 'केवलम्' असहायं मत्यादिज्ञाननिरपेक्षत्वाद् , 'एकम्' असाधारणमनन्यसदृशत्वात् , अनिवारितव्यापारं अविरहितोपयोगत्वात् , अनन्तं ज्ञेयानन्तत्वाद्, 'अविकल्पितं' विकल्परहितं-भेदरहितमित्यर्थः, प्रथमत एवाशेषतदावरणविगमात् , 'नियतं' सर्वकालभावि ॥ ३८ ॥ उक्तं केवलज्ञानम् , अधुना परोक्षमामिनिबोधिकज्ञानमभिषित्सुराह--
25 आभिनिबोधिकज्ञानम्
पच्चक्ख परोक्खं वा, जं अत्थं अहिऊण निद्दिसह ।
तं होइ अभिणिबोहं, अभिमुहमत्थं न विवरीयं ॥ ३९॥ १०णाइ पिज ना०॥ २°णे खिजं ता० ॥ ३ "तस्स य इमाणि एगट्ठियाणि-दव्वादिक. गाहा । दव्वादिकसिविसर्य ति वा, केवलं ति वा, एग ति वा, केवलणाणं ति वा, अणिवारियवावारं ति वा अविरहितोवेयोगमित्यर्थः, अणंतं ति वा ज्ञेयं प्रति, अविकप्पितं ति वा निर्भेदं हीनोत्कर्षवं प्रति, कियन्तं कालमविकल्पितम् ? इति चेत् , उच्यते-नियतं नित्यमित्यर्थः ।” इति चूर्णौ ॥ ४ व्वातिक ता० ॥ ५ मेकं तु ता०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org