________________
10
15
भाष्यगाथा २५-३२] पीठिका ।
न वै इन्द्रियाण्युपलब्धिमन्ति, तेषु विगतेष्वपि तद्विषयस्य संस्मरणात् , यथा गेहगवाक्षाः। किमुक्तं भवति?-यथा गेहगवाक्षरुपलब्धेष्वर्थेषु गेहगवाक्षाणामुपरमेऽपि पुरुषस्य संस्मरणभावान्न ते गवाक्षा उपलब्धारः, तथा विगतेष्वपीन्द्रियेषु तद्विषय उपलभ्यत आत्मनेति व्यापकविरुद्धोपलब्धिः, 'तस्योपलम्भः' इतिव्यवस्था हि तस्य स्मरणेन व्याप्ता, अन्यथा तव्यवस्थायाः कर्तृमशक्यत्वात् , तद्विरुद्धं चात्रान्यस्य स्मरणमुपलभ्यत इति । कथम्? कस्तत्रोपलब्धा? इति चेत्, 5 अत आह-योऽनुस्मा स तत्रोपलब्धा, आत्मा उपलब्धा इत्यर्थः । तथा च प्रयोगः-येषु विगतेष्वपि यद्विषयो येन स्मर्यते स तत्रोपलब्धा, यथा गेहगवाक्षेषु पुरुषः, विगतेष्वपि चेन्द्रियेषु तद्विषयः स्मर्यत आत्मना । स्मरणं हि प्रतिनियतत्वान्निमित्तवत्त्वेन संव्याप्तम् , न चोपलम्भादन्यन्निमित्तमस्ति, ततो विपक्षाद् व्यापकानुपलब्ध्या निवर्तमानमुपलम्भपूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ २७ ॥ सम्प्रतीन्द्रियाश्रितस्य लैङ्गिकत्वं व्यवस्थापयतिधमनिमित्तं नाणं, अग्गिम्मि लिंगियं जहा होइ ।
इन्दिय. तहे इंदियाइलिंगं, तं नाणं लिंगियं न कह ? ||२८||
जज्ञान
स्य लैङ्गियथा 'धूमनिमित्तं' धूमाल्लिङ्गादुपजायमानमग्नौ लिङ्गिनि ज्ञानं लैङ्गिकं भवति, तथा 'इन्द्रि- कत्वम् यादिलिङ्गं' इन्द्रियादिभिर्लिङ्गैरुपजायमानं रूपादिषु चाक्षुषादि विज्ञानं कथं लैङ्गिकं न भवति ? तदपि लैङ्गिकमेवेति भावः ॥ २८ ॥ अन्यच्चअपरायत्तं नाणं, पञ्चक्खं तिविहमोहिमाईयं ।
परोक्षजं परतो आयत्तं, तं पारोक्खं हवइ सव्यं ॥ २९ ॥
योाख्या यद् ज्ञानम् 'अपरायत्तं' नोत्पत्तौ परस्य वशवर्ति तत् प्रत्यक्षम् । तच्च वक्ष्यमाणं त्रिविधम- तत्प्रभे
दाश्च वध्यादिकम् । यच्चोत्पत्तौ 'परतः' परस्याऽऽयत्तं तत् सर्वं भवति परोक्षम् । चाक्षुषादिकमपि च विज्ञानमुत्पत्तौ परस्य चक्षुरादेरायत्तम् अतः परोक्षम् ॥ २९ ॥ सम्प्रति त्रिविधं प्रत्यक्षं द्विविधं च परोक्षमुपदर्शयति
ओहि मणपजवे या, केवलनाणं च होति पच्चक्खं ।
आभिणिबोहियनाणं, सुयनाणं चेव पारोक्खं ॥ ३० ॥ अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं च भवति प्रत्यक्षम् । आभिनिबोधिकज्ञानं श्रुतज्ञानं च परोक्षम् ॥ ३० ॥
25 अवधिज्ञानम् तत्राऽवधिज्ञानं चतुर्विधम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतस्तावदाहविवरीयवेसधारी, विजंजणसिद्ध देवताए वा ।
द्रव्यतोछाइय सेवियसेवी, बीयादीओ वि पच्चक्खा ॥ ३१ ॥
अवधि. पुढवीई तरुगिरीया सरीरादिगया य जे भवे दवा ।
परमाणू सुहदुक्खादओ य ओहिस्स पचक्खा ॥ ३२ ॥ १°राइत्तं ता० ॥ २°मोधिमातीयं ता० ॥ ३ गाथायुगलमिदं चूर्णिकृद्भिः “अच्चतमणुवलद्धा." ३३ गाथाया अनन्तरं व्याख्यातम् ॥ ४य ता.॥ ५वीय त ता०॥
प्रत्यक्ष
20
30 ज्ञानम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org