________________
प्रत्यक्ष
जीवोअर
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [नन्दी-ज्ञानपञ्चकम् नन्धाश्चतुष्को निक्षेपः, तद्यथा-नामनन्दी स्थापनानन्दी द्रव्यनन्दी भावनन्दी च । तत्र नामस्थापने सुप्रतीते। द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थज्ञाता तत्र चाऽनुपयुक्तः, “अनुपयोगो द्रव्यम्” इति वचनात् । नोआगमतस्विधा-ज्ञशरीरं भव्यशरीरं तव्यतिरिक्ता च । तत्र यद् नन्दीशब्दार्थज्ञस्य शरीरं जीवविषमुक्तं तद् भूतभावत्वाद् ज्ञशरीर5 द्रव्यनन्दी । यस्तु बालको नेदानीं नन्दीशब्दार्थमवबुध्यतेऽथ चाऽवश्यमायत्यां भोत्स्यते स भाविभावत्वाद् भव्यशरीरद्रव्यनन्दी । तद्व्यतिरिक्ता शङ्खद्वादशकस्तूर्यसङ्घातः । स चायम्
___ भंभा मुकुंद मद्दल, कडंब झल्लरि हुडुक्क कंसाला । तूर्यद्वादशकम्
काहल तलिमा वंसो, पणवो संखो य बारसमो ॥ भावतो द्विधा-आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः। 10 तत्र मूलद्वारगाथायां यत् "पंचके"ति (गाथा ३ ) भणितं तस्य व्याख्यानमाह-भावे नोआ. गमतो नन्दी 'ज्ञानपञ्चकं' पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं च । “दुग"ति (गाथा ३) अस्य व्याख्यानम्-'तद्' ज्ञानपञ्चकं द्विविधं प्रज्ञप्तम् , तद्यथा-प्रत्यक्षम् 'इतरच्च' परोक्षम् ॥ २४ ॥ सम्प्रति प्रत्यक्ष-परोक्षयोः खरूपमाह
जीवो अक्खो तं पड़, जं वति तं तु होइ पञ्चक्खं ।। परोक्षयोः 15 परतो पुण अक्खस्सा, वस॒तं होइ पारुक्खं ॥२५॥ खरूपम्
"अश् भोजने" अश्नाति-भुङ्क्ते यथायोगं सर्वानानिति अक्षः, यदि वा “अशौङ् व्याप्ती अश्नुते-ज्ञानेन व्यामोति सर्वान् ज्ञेयानिति अक्षः-जीवः, उभयत्राऽप्यौणादिकः सक्प्रत्ययः, तं प्रतिअवधानेन यद् वर्तते ज्ञानं तद् भवति प्रत्यक्षम् । तथा द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात् पराणि, तेभ्यः पुनरक्षस्य वर्तमानं ज्ञानं भवति परोक्षम् । किमुक्तं भवति ?-यदिन्द्रियद्वारेण 30 मनोद्वारेण वाऽऽत्मनो ज्ञानमुपजायते तत् परोक्षम् , पृषोदरादित्वात् परशब्दात् परः सकारागमः। __ यदि वा परैर्द्रव्येन्द्रिय- मनोभिः उक्षा-सम्बन्धो यस्मिस्तत् परोक्षमिति व्युत्पत्तिः ॥ २५ ॥
अत्रैव मतान्तरं दूषयितुमाहवैशेषि
केसिंचि इंदियाई, अक्खाई तदुवलद्धि पचक्खं । कायुक्तस्य प्रत्यक्ष
तं तु न जुज्जइ जम्हा, अग्गाहगमिंदियं विसए ॥ २६ ॥ जी. भा. २६ वि. आ. ९० लक्षण- - 25 केषाश्चिद्' वैशेषिकादीनामक्षाणीन्द्रियाण्यभिप्रेतानि, तेषामुपलब्धिः प्रत्यक्षम् , एवं च स्य दूषितलम् "चाक्षुषादिविज्ञानं प्रत्यक्षम्" इत्यापनम् । एतद् दूषयति-"तंतु" इत्यादि । 'तद्' वैशेषिकाद्युक्तं
'न युज्यते' न घटामञ्चति, यस्माद् ‘इन्द्रियं' चक्षुरादि पुद्गलमयत्वेनाचेतनत्वात् स्वरूपेणाग्राहक 'विषयस्य' रूपादेः । ततः कथमुपपद्यते तदुपलब्धिः प्रत्यक्षम्' ? उपलब्धेरेवाभावात् ॥२६॥
तमेवोपलव्ध्यभावं भावयति30
न वि इंदियाइँ उपलद्धिमंति विगतेसु विसयसंभरणा ।
जह गेहगवक्खाई, जो अणुसरिया स उवलद्धा ॥ २७॥ [दश. भा. गा. ४०] १ युजति ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org