________________
भाष्यगाथा २१-२४]
पीठिका ।
११
मुम्भवे"त्यादि । त्रिभ्यः-गुड-समिति-घृतेभ्यः समुद्भवो यस्य स मोदकः तदृष्टान्तात् शेषमपि 'हुः' निश्चितं मङ्गलं भवति । इयमत्र भावना-मोदक इव सकलं शास्त्रं त्रिधा विभज्यते, तत्राऽऽदिमो भाग आदिमङ्गलेन मङ्गलीकृतः, मध्यमो मध्यमङ्गलेन, अन्तिमोऽन्तमङ्गलेन, ततः कुतोऽपान्तरालद्वयामङ्गलत्वप्रसङ्गः ? ॥ २२ ॥ __ स्यादेतत् , यदिदं शास्त्रमारब्धमेतदाऽऽदि-मध्या-ऽवसानेषु सर्वात्मना मङ्गलम् ततो यद्यन्यत् । तस्य मङ्गलमुपादीयते तदाऽनवस्थाप्रसङ्गः-कृतेऽपि मङ्गले पुनरन्यन्मङ्गलमुपादेयम् विशेषाभावात् , तत्राऽप्यन्यदित्येवं मङ्गलानन्त्यप्रसक्तेः । अथ नन्दी मङ्गलम् , शास्त्रं पुनरमङ्गलम् , केवलं तद्नन्द्या मङ्गलीक्रियते, नन्वेवं तर्हि यदा नन्दीव्याख्यानमकृत्वा शास्त्रं व्याख्यातुमारभ्यते तदा शास्त्रममङ्गलम् , अमङ्गलत्वाच्च न ज्ञानम् , ज्ञानाभावाच न कर्त्तव्यस्तस्याऽनुयोग इति, अत्राह
न वि य हु होयऽणवत्था, न वि य हु मंगलममंगलं होइ। 10
अप्पपराभिबत्तिय, लोणुण्हपदीवमादि व्व ॥ २३ ॥ नाऽपि च 'हुः' निश्चितं भवत्यनवस्था, यतो नन्दी शास्त्रादनान्तरभूता, शास्त्रं च खतः समस्तं मङ्गलम् , न च तस्य मङ्गलभूतस्य सतोऽन्यन्मङ्गलमुपादीयते, ततो नाऽनवस्थाप्रसङ्गः । यदापि नन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते तदापि तच्छास्त्रं मङ्गलमिति तदमङ्गलं न भवति । एवं तावन्नन्द्या अनर्थान्तरतायाममङ्गलत्वमनवस्था च परिहृता । सम्प्रत्यर्थान्तरत्वमधिकृत्य परिहियते-15 यद्यपि शास्त्रादर्थान्तरभूता नन्दी तथाप्यमङ्गलत्वमनवस्था च न भवति,कथम्? इत्याह-"अप्पपर" इत्यादि । नन्दी आत्मनापि मङ्गलं शास्त्रमपि च मङ्गलीकरोति, शास्त्रमप्यात्मनाऽपि मङ्गलं नन्दीमपि च मङ्गलीकरोति । एवमात्म-पराभिव्यक्तितो द्वयोरपि मङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावो भवति। कथमिव? इत्यत आह-“लोणुण्हपदीवमादि ब" । यथा द्वयोर्लवणयोरेकीभूतयोः सुष्ठुतरो लवणभावः, द्वयोर्वा उष्णयोरेकत्र मिलितयोः सुष्ठतर उष्णतरभावः, यथा वा द्वयोः प्रदीपयोः 20 समीचीनतरः प्रकाशभावः, आदिशब्दान्मधुर-शीतल-स्नेहादिद्रव्याणां परिग्रहः; एवमिहापि द्वयोर्मङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावः । स्यादेतत् , एवमपि प्रसजत्यनवस्था, तृतीयादिमङ्गलोपादाने सुष्टुतममङ्गलभावोपपत्तेः; न प्रसजति, प्रयोजनाभावात् , तथा लोकव्यवहारदर्शनात् । तथाहि-लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्र यद्यपि
माल. तृतीयादिशर्करापलप्रक्षेपे विशिष्टतमो मधुरभावो भवति तथापि तन्न प्रक्षिप्यते, प्रयोजनाभावात् । 250 एवमिहाप्यन्यत् तृतीयादिकं मङ्गलं नोपादीयते, प्रयोजनाभावादिति ॥ २३ ॥
समाप्तिः तदेवं "नंदी य मंगलहा" (गाथा ३) इति व्याख्यातम् । अधुना मङ्गलस्येव नन्द्या अपि चतुःप्रकारं निक्षेपमाह
[नन्दी-ज्ञानपश्चकम् ] 'नंदी चतुक्क दवे, संखब्बारसग तूरसघातो । भावम्मि नाणपणगं, पञ्चक्खियरं च तं दुविहं ॥ २४ ॥
निक्षेपाः १"त्रिसमुद्भवः, कश्वासौ ? मोदकः, त्रिभिः-गुड-घृत-समितैरुद्भूतः” इति चूर्णौ ॥२व्वत्ती, लो° ता.॥ ३.क्तिता द्वयो का २ जे. । “एवं अप्पपराभिवत्तितो दोण्हं पि मंगलाणं एकीभूयाणं सुट्टयरं मंगलभावो भवति ।" इति चूर्णिः॥४नंदि चउकं ता० ॥
30 नन्दी
पदस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org