SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 'हरणम् सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मङ्गलवादः जायते । श्रद्धावतश्च शास्त्रावधारणे महानाऽऽदरः । कृतादरस्य शास्त्रविषयेऽनवरतमुपयोगः । यदा यदा चोपयोगस्तदा तदा सम्यग्ज्ञानत्वान्महती ज्ञानावरणीयस्य कर्मणो निर्जरा । ज्ञानावरणकर्मनिर्जरणाच स्फुटः स्फुटतरः शास्त्रस्याधिगमः । अधिगतशास्त्रस्य च गुरौ शास्त्रे प्रवचने च निःकृत्रिमा भक्तिरुल्लसति । ततः प्रभावना, तां दृष्ट्वाऽन्येषामपि तथा श्रद्धादीनां करणात् । 5 यदि पुनर्न क्रियते मङ्गलं तत एषां विघ्नोपशमादिभावानामप्रसिद्धिः । अत्र 'उदाहरणानि' दृष्टान्ता नृप-निधि-विद्यादयः, आदिशब्दाद् योगो मन्त्राश्च परिगृह्यन्ते । नृपोदा तत्रेयं नृपदृष्टान्तस्य भावना, यथा-कोऽपि पुरुषः कार्यार्थी राजानमधिगन्तुकामो मङ्गलभूतानि पुष्पादीन्यादाय तत्समीपमुपगच्छति । उक्तं च पुप्फपुडियाइ पयंपइ, गोरसघडओ करेइ कज्जाइ । मणिबंधम्मि पयलिते, साणुम्गह होंति सबगहा ॥ उपगत्य चाऽञ्जलिं करोति, पादयोश्च प्रणिपतति, ततो राजा तुष्यति, तुष्टे च तस्मिन् यस्तदधीनोऽर्थः स सिध्यति । अथैवमुपचारं न करोति तदा न तुष्यति, तोषाभावे च तदधीनस्यार्थिस्या प्रसिद्धिः॥ निधिवि- एवं निधिमुत्खनितुकामो विद्यां मन्त्रं वा साधयितुकामो यदि द्रव्य-क्षेत्र-काल-भावयुक्तद्यामन्त्र. 15 मुपचारं करोति, तद्यथा-द्रव्यतः पुष्पादिषु, क्षेत्रतः स्मशानादिषु, कालतः कृष्णपक्षचतुर्दश्यादृष्टान्त दिषु, भावतः प्रतिलोमा-ऽनुलोमोपसर्गसहिते, तदा निधिं विद्यां मन्नं वा साधयति । द्रव्याधुपचाराभावे ते निध्यादयो न सिध्यन्ति । तस्माद् यो यत्रोपचारः स तत्र कर्त्तव्यः ॥ २० ॥ __ एतदेवाह जो जेण विणा अत्थो, न सिज्झई तस्स तन्विहं करणं । विवरीय अभावेण य, न सिज्झई सिज्झई ईहरा ॥ २१॥ योऽर्थों येन विना न सिध्यति तस्य निष्पत्तये तद्विधं करणमवश्यमुपादातव्यम् , यथा घट साधयितुकामेन चक्र-दण्ड-मृत्पिण्डादिकम् । यतो विपरीतैः करणैः सर्वथा करणानामभावेन च सोऽधिकृतोऽर्थो न सिध्यति, यथा घटं साधयितुकामस्य विपरीततुरि-वेमाद्युपकरणोपादाने सर्वथा चक्र-दण्ड-सूत्रोदकादीनामुपकरणानामभावे वा घटः । 'इतरथा' अविपरीतोपकरणसद्भावे 25 सिध्यति, यथा घटं साधयितुकामस्य यथावस्थितानां चक्र-दण्ड-सूत्रोदकादीनामुपादाने घटम् - (घटः) । न सिध्यन्ति च मङ्गलमन्तरेण विघ्नोपशमादयो भावा इति मङ्गलोपादानं ॥ २१ ॥ पुनरप्याह यदि शास्त्रस्याऽऽदि-मध्या-ऽवसानेषु मङ्गलम् , ततः सामर्थ्यादिदमायातम् 'अपान्तरालद्वयममङ्गलम्' इति, अत्राह जयवि य तिढाणकयं, तह वि हुँ दोसो न बाहए इयरो। तिसमुन्भवदिटुंता, सेसं पि हु मंगलं होइ ॥ २२ ॥ यद्यपि 'त्रिषु स्थानेषु' आदि-मध्या-ऽवसानरूपेषु कृतं मङ्गलं तथापि 'इतरः' अपान्तरालद्वयामङ्गलवलक्षणो दोषो न बाधते, तस्यैवाभावात् । कथमभावः ? इति चेत् , अत आह-"तिस१ चूर्णिप्रत्यन्तरे "गंधपुडिआइ" इति पाठः ॥ २ इधरा ता० ॥ ३ जति वि ता० ॥ ४ य ता० ॥ For Private & Personal Use Only भावना 20 30 Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy