________________
भाष्यगाथा १३-२०]
पीठिका । जैमिदं नाणं इंदो, न व्यतिरिच्चति ततो उ तन्नाणी।
तम्हा खलु तब्भावं, वयंति जो जत्थ उवउत्तो ॥ १७ ॥ यद् इदं इन्द्र इति ज्ञान तस्मान 'ज्ञानी (तज्ज्ञानी) इन्द्रज्ञानी व्यतिरिच्यते । तस्माद् यो यत्र' इन्द्रादौ उपयुक्तः तस्य तद्भाव' इन्द्रादिभावं तत्त्वविदस्सूरयो वदन्ति ॥ १७ ॥ ज्ञान-ज्ञानिनोरभेद एव कथं सिद्धः । इति चेत्, उच्यते-विपक्षेऽनेकदोषप्रसङ्गात् । तमेवाह
चेयण्णस्स उ जीवा, जीवस्स उ चेयणाओ अन्नत्ते ।
दवियं अलक्खणं खलु, हविज प य बंधमोक्खा उ॥१८॥ चैतन्यस्य जीवात् जीवात् (जीवस्य) चेतनाया अन्यत्वे 'द्रव्य' जीवद्रव्य ‘अलक्षण चेतनालक्षणा जीवः" इतिलक्षणरहितं भवेत् । चेतनाया घटादिवज्जीवादप्येकान्तव्यतिरिक्तत्वात् “लक्षणाभावे च लक्ष्यस्याऽप्यभावः" इति खरशृङ्गवदत्यन्तासन् जीवः । यश्चाऽत्यन्तासन् स न बध्यते, 10 बन्धस्य वस्तुधर्मत्वात् ;नाऽपि मुच्यते, बन्धाभावादिति बन्ध-मोक्षावपि न स्याताम् । अथ मन्येथाः 'अचेतनोऽपि स बध्यते मुच्यते च' इति तदप्यऽयुक्तम् , अचेतनानामप्येवं धर्मास्तिकायादीनां बन्ध-मोक्षप्रसक्तेः । तस्मात्साधूक्तम् “इन्द्रशब्दार्थं जानन् तदुपयुक्तो भावेन्द्रः" (गाथा १५) इति ॥ १८ ॥ सम्प्रति नामेन्द्र-स्थापनेन्द्रयोः प्रकारान्तरेण प्रतिविशेषमभिधित्सुराह
जह ठवणिंदो थुव्वइ, अणुग्गहत्थीहिँ तह न नामिंदो। 15 नामेन्द्र एमेव दव्वभावे, पूयाथुतिलद्धिनाणत्तं ॥१९॥
स्थापने
न्द्रयोयथा स्थापनेन्द्रो अनुग्रह एवार्थोऽनुग्रहार्थः स येषामस्ति तेऽनुग्रहार्थिनस्तैः वाग्भिः व्येन्द्रभा. स्तूयते पुष्पादिभिरर्च्यते च, न तथा नामेन्द्रो माणवकः । ततो महान् नामेन्द्र-स्थापनेन्द्रयोः ।
वेन्द्रयो
श्व विशेषः प्रतिविशेषः । एवमेव' अनेनैव प्रकारेण द्रव्येन्द्रे भावेन्द्रे च पूजा-स्तुति-लब्धिभिर्नानात्वमवसातव्यम् । तद्यथा-द्रव्येन्द्रोऽपि नामेन्द्र इवाऽनुग्रहार्थिभिः न स्तूयते नाऽपि पूज्यते, यस्तु 20 भावेन्द्रः स स्थापनेन्द्र इव स्तूयते पूज्यते च; ततो द्रव्येन्द्र-भावेन्द्रयोरपि महान् प्रतिविशेषः। अन्यच्च द्रव्येन्द्र इन्द्रलब्धिहीनः, यस्तु भावेन्द्रः स तल्लब्धिसम्पन्नः । तथाहि-स सामानिकत्रायस्त्रिंशकादिपरिवृतो विशिष्टद्युतिमान् स्फीतं राज्यमनुभवति । उपयोगचिन्तायामपि भावेन्द्र उपयोगलब्धिमान् , द्रव्येन्द्र उपयोगलब्ध्या परित्यक्तः ॥ १९॥ ___ तदेवमुक्तः सर्वत्र चतुष्कनिक्षेपप्रदर्शनायेन्द्रशब्दस्य निक्षेपः । सम्प्रति प्रस्तुतमुच्यते-तत्र 25 परः प्रश्नयति 'किमर्थ मङ्गलग्रहणम्?' इत्याह - विग्धोवसमो सद्धा, आयर उवयोग निजराऽधिगमो।
मङ्गलभत्ती पभावणा वि य, निवनिहि विज्जाइ आहरणा ॥२०॥
प्रहणमङ्गले कृते सति रोगादिविघ्नोपशमो भवति । तदुपशमे च प्रतिबन्धकाभावान्महता प्रबन्धे- प्रयोजनाऽऽचार्येणाऽनुयोगः प्रारभ्यते । तथाऽनुयोगप्रारम्भे च शिष्यस्य शास्त्रग्रहणे महती श्रद्धोप- 30"
१ जमियं पगयं णाणं इंदो न वतिरित्त त्ति ततो ता० । “जमितं पगतं गाधा कंठा' इति चूर्णौ ॥ २ नत्ति ता. विना ॥ ३°क्खो वा ता० ॥ ४ जध ठ° ता० ॥ ५ आतर° ता० ॥
बृ०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org