________________
नामस्थापनयो
क्षणम्
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मङ्गलवादः अत्राऽऽदिशब्दादिन्द्रप्रतिमा-ऽक्ष-वराटकादिपरिग्रहः । इयमत्र भावना-या इन्द्र इति स्थापना अक्ष-वराटिकादिषु असद्भावेन, या चेन्द्रकेविन्द्रप्रतिमादिषु सद्भावतः स स्थापनेन्द्रः ॥ आह नाम-स्थापनयोः कः प्रतिविशेषः ? उच्यते
इत्तरमणित्तरा वा, ठवणा नामं तु आवकहं ॥ १३ ॥ विशेषः 5 "इत्तर" इत्यादि । स्थापना इत्वरा अनित्वरा च भवति, यावद्रव्यभाविनी अयावद्रव्य
भाविनी चेत्यर्थः; नाम पुनर्नियमात् 'यावत्कथिकं' यावद्व्यभावि; एष प्रतिविशेषः ॥ १३ ॥
द्रव्येन्द्रमाहद्रव्येन्द्रः
ग्वे पुण तल्लद्धी, जस्सातीता भविस्सते वा वि।
जो वा वि अणुवउत्तो, इंदस्स गुणे परिकहेइ ॥१४॥ 10 'द्रव्ये' द्रव्यविषयः पुनः इन्द्रो यस्य 'तल्लब्धिः' इन्द्रलब्धिः अतीता भविष्यति च स प्रतिपत्तव्यः । किमुक्तं भवति ?-यः पूर्वमिन्द्रत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रमं भूतभावत्वाद् भावि
भावत्वाच्च द्रव्येन्द्रः । उक्तं चद्रव्यनि
भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके । क्षेपल
तद् द्रव्यं तत्त्वज्ञैः, सचेतना-ऽचेतनं कथितम् ॥ 16 यो वाऽपि इन्द्रस्य गुणान् परस्मै परिकथयति, परमनुपयुक्तः, सोऽपि द्रव्येन्द्रः, “अनुपयोगो
द्रव्य"मिति वचनात् ॥ १४ ॥ उक्तो द्रव्येन्द्रः, सम्प्रति भावेन्द्रमाह - भावेन्द्रः
जो पुण जहत्थजुत्तो, सुद्धनयाणं तु एस भाविदो।
इंदस्स व अहिगारं, वियाणमाणो तदुवैउत्तो ॥१५॥ यः पुनः 'यथार्थेन' यथावस्थितेनार्थेन परमैश्चर्यलक्षणेन "इदु परमैश्वर्ये” इति वचनात् 20 साक्षादिन्द्रनाम-गोत्राणि कर्माणि वेदर्यंत इत्यर्थः, स भावेन्द्रः । एषः 'शुद्धनयानां' शब्दादीनां
यथावस्थितार्थग्राहकाणां वर्तमान विषयिकाणां सम्मतः, न शेषो नामेन्द्रादिः । अथवा 'इन्द्रस्य' इन्द्रशब्दस्य 'अधिकारम्' अर्थ जानन् 'तदुपयुक्तः' तस्मिन्-इन्द्रशब्दार्थे उपयुक्तो भावेन्द्रः, "उपयोगो भावनिक्षेपः" इति वचनात् ॥ १५ ॥ अत्र पर आह
न हि जो घडं वियाणइ, सो उ घडीभवइ नेय वा अग्गी ।
नाणं ति य भावो त्ति य, एगढमतो अदोसो त्ति ॥ १६ ॥ न हि यो घटं विजानाति स घटीभवति, यस्य वा अग्निविज्ञानं सोऽग्निः, प्रत्यक्षविरोधात् ; ततो यदुक्तं "इंदस्स वाऽहिगारं विजाणमाणो तदुवउत्तो" (गाथा १५) इति तन्मिथ्या । अत्र सूरिराह-ज्ञानमितिवा भाव इति वा, चशब्दादध्यवसाय इति वा उपयोग इति वा एकार्थम् ,
अतोऽदोषः । इयमत्र भावना-अर्था-ऽभिधान-प्रत्ययास्तुल्यनामधेयाः, तथाहि-घटोऽपि वाह्यो 30 घट इत्युच्यते, घटशब्दोऽपि घट इति, घटज्ञानमपि घट इति; ज्ञानं च ज्ञानिनोऽपृथग्भूतम् , अतो घटज्ञान्यपि घट इत्युच्यते; अग्निज्ञान्यपि अग्निरित्यदोषः ॥ १६॥ एतदेव भावयति
१“अणुवओगो दवमिति कट्ट" अनुयोगद्वारसूत्रे पत्र १५-१ ॥ २ अधिकारं ता० ॥ ३ °वजुत्तो ता० ॥ ४°यमान ° मो ३ ॥ ५ सो त घ° ता०॥ ६ सो उ ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org