________________
चतुष्का
भाप्यगाथा ६-१३]
पीठिका। चोरस्स करिसगस्स य, रित्तं कुडयं जणो पसंसेइ । - गेहपवेसे मन्नइ, पुन्नो कुंभो पसत्यो उ ।। तत एवमनैकान्तिकम् । नाप्यात्यन्तिकम् , यथा कोऽपि शोभनैर्द्रव्यमङ्गलैर्विनिर्गतः, तेन चाग्रे किश्चिदशोभनं दृष्टम् , येन तानि सर्वाण्यपि प्राक्तनानि प्रतिहतानि, तत एवमनात्यन्तिकमिति । उक्तं द्रव्यमङ्गलम् , अधुना भावमङ्गलमाहतविवरीयं भावे, तं पि य नंदी भगवती उ ॥१०॥
भावम
ङ्गलम् 'तद्विपरीतम्' ऐकान्तिकमात्यन्तिकं च 'भावे' भावविषयं मङ्गलम् । तथाहि-न तद् भावमङ्गलं कस्यचिद्भवति कस्यचिन्न भवति, किन्तु सर्वस्याविशेषेण भवतीत्यैकान्तिकम् ; न च केनाप्यन्येन प्रतिहन्यत इत्यात्यन्तिकम् । 'तच्च' भाक्मङ्गलं भगवान् नन्दिर्वक्ष्यमाणोऽवगन्तव्यः। गाथायां स्त्रीत्वं प्राकृतत्वात् ॥ १०॥
10 आह यथा नामादीनि चत्वारि मङ्गले समवतारितानि तथा किमन्येष्वप्यवतार्यन्ते ? किंवा न? इति, उच्यते-अवतार्यन्ते, सर्वस्यापि चतुःप्रत्यवतारान्तर्गतत्वात् । एतदेवाहजह इंदो ति य एत्थं, तु मग्गणा होति नाममादीणं ।
प्रतिवस्तु सव्वाणुवायि सन्ना, ठवणादिपया उ पत्तेयं ॥ ११ ॥
निक्षेपयथा इन्द्र इति उक्ते 'अत्र' इन्द्रे नामादीनां चतुर्णा मार्गणा भवति । तथाहि-किमनेन 169
वतारः नामेन्द्र उक्तः ? उत स्थापनेन्द्रः ? आहोखिद् द्रव्येन्द्रः ? उताहो भावेन्द्रः ? इति । तथा सर्वत्रापि द्रष्टव्या । उक्तं च
जत्थ य जं जाणिज्जा, निक्खेवं निक्खिवे निरवसेसं ।
जत्थ वि य न जाणिज्जा, चउक्कयं निक्खिवे तत्थ ॥ [अनुयो० पत्र १०] तत्र 'संज्ञा' नाम सर्वेषु-नाम-स्थापना-द्रव्य-भावेषु अनुपाति-अनुवर्तनशीलम् । तथाहि-20 नामेन्द्रोऽपि स्थापनेन्द्रोऽपि द्रव्येन्द्रोऽपि भावेन्द्रोऽपि च इन्द्र इत्यभिधानेनाविशेषत उच्यते । स्थापनादीनि तु पदानि 'प्रत्येकं' खखव्यवस्थितानि, न परस्परमनुगमनशीलानि, ततो न नामप्रवृत्तिमात्रदर्शनतो नामेन्द्रप्रतिपत्तयः किन्तु भिन्नलक्षणवशात् ॥ ११ ॥ अतस्तल्लक्षणमाहअत्ताभिप्पायकया, सन्ना चेयणमचेयणे वा वि।
नामेन्द्रः ठवणादीनिरविक्खा, केवल सन्ना उ नामिंदो ॥१२॥ चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण-खेच्छया इन्द्रप्रभृतिः संज्ञा कृता, साऽपि स्थापनादिसापेक्षा स्यादत आह-स्थापनादीनां स्थापना-द्रव्य-भावानां निरपेक्षा, किमुक्तं भवति?यत्र स्थापनादीनामेकमपि नास्ति किन्तु 'केवला' एका संज्ञा तदर्थनिरपेक्षा स नामेन्द्रः ॥ १२ ॥ उक्तं नामेन्द्रलक्षणम् , अधुना स्थापनेन्द्रलक्षणमाहसम्भावमसम्भावे, ठवणा पुण इंदकेउमाईया ।
30 स्थापनेन्द्र 'स्थापना' स्थापनेन्द्रः पुनः सद्भावेऽसद्भावे च 'इन्द्रकेत्वादिका' ईन्द्रकेतुप्रभृतिको द्रष्टव्यः, १°ति ठवणमा ता० ॥ २ यया किमनेन कार जे. ॥ ३ °मादीसु ता० ॥ ४ “इन्द्रकेतुः केतुरुच्छ्रये, इन्द्रोच्छ्य इत्यर्थः । आदिशब्दाद् (आदिग्रहणादू.प्र०) इन्द्रप्रतिमा ।" इति चूर्णौ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org