________________
भाष्यगाथा ३-५]
पीठिका। भेदः । तथा कुतोऽपि विशेषात् श्रुतं 'अङ्गगतमनङ्गगतं' अङ्गप्रविष्टमङ्गबाह्यं चेत्यर्थः । एतेषां पदानां प्ररूपणा कर्तव्या । ततः प्रकृतमभिधातव्यम् ॥ ३ ॥ तत्र "नंदी य मंगलट्ठा" (गाथा ३) इत्यस्य भावनार्थमाह
[म गल वा दः] नंदी मंगलहेडं, न यावि सा मंगलाहि वइरित्ता।
कजाभिलप्पनेया, अपुढो य पुढों य जह सिद्धा ॥४॥ 'नन्दिः' ज्ञानपञ्चकरूपः 'मङ्गलहेतोः' मङ्गलनिमित्तं वक्तव्यः । आह यदि मङ्गलनिमित्तं गन्दीम
जलयानन्दिर्वक्तव्यः ततः स मङ्गलादेकान्तेन भिन्नः प्राप्तः, अन्यथा 'तदुत्पादन निमित्तं तस्योपादान'
पेिक्षया मिति व्यवहारानुपपत्तेः; उपादानं हि तस्य सिद्धस्य सतो भवति, उत्पाद्यं चाद्याप्यसिद्धम् , ततः मेदामें
दत्वम् कथमनयोरभेदः ? किन्तु भेद एव; तत आह-न चापि सः' नन्दिर्मङ्गलाद व्यतिरिक्तः, अपि-10 शब्दाद् व्यतिरिक्तोऽपि स्यादव्यतिरिक्त इत्यर्थः । कथमेतच्छ्रद्धेयम् ? इति चेत्, अत आह"कजे"त्यादि। यथा कार्या-ऽभिलाप्य-ज्ञेयानि कारणा-ऽभिलाप-ज्ञानेभ्यः पृथक्त्वा-ऽपृथक्त्वसिद्धानि तथा नन्देमङ्गलमपि । तथाहि-कार्यं पटः, कारणं तन्तवः, तत्र तन्तव एव पुरुषव्यापारमपेक्ष्याऽऽतान-वितानभावेन परिणममानाः पटकार्यरूपतया परिणमन्ते, तेषु च तथापरिणतेषु सत्सु न कार्य-कारणयोर्भेदः किन्तु अभेदः; एवमिहापि नन्दिनिपञ्चकाभिधानरूप उत्तरोत्तर-15 शुभाध्यवसायविशेषसम्भवसव्यपेक्षतर-तमभावेन परिणममानो वाञ्छिताधिगतिलक्षणमङ्गलरूप. तया परिणमत इति नन्दि-मङ्गलयोर भेदः । प्राचीनां त्ववस्थामपेक्ष्य भेदः, यथा तन्तुभ्यः पटस्य । तथाऽभिलापशब्देन कदाचिदभिलाप्यस्याभिलाप्यमानता उच्यते, 'अभिलपनमभिलापः' इति व्युत्पत्तेः; कदाचित् तद्वाचकशब्दः, 'अभिलाप्यते वस्त्वभिलाप्यमनेने ति व्युत्पादनात् । तत्र यदाऽभिलाप्यमानतोच्यते तदाऽभिलापा-ऽभिलाप्ययोरभेदः, धर्म-धर्मिभावात् ; यदा तु 20 तद्वाचकशब्दस्तदा भेदः, शब्दा-ऽर्थयोर्भिन्नदेशस्थत्वाद् भिन्नखरूपत्वाच्च । ज्ञानशब्देनापि क्वचिद् ज्ञेयस्य ज्ञानमत्तोच्यते, 'ज्ञातिर्ज्ञान मिति भावे व्युत्पादनात् ; कदाचिदात्मधर्मः, 'ज्ञायतेऽनेनेति ज्ञान'मिति करणे व्युत्पत्तेः । तत्र यदा ज्ञायमानता तदा ज्ञान-ज्ञेययोरभेदः, धर्मि-धर्मभावात् ; यदा त्वात्मधर्मस्तदा भेदः, भिन्नखरूपत्वात् । एवमिहापि नन्दिशब्दो यदा भाववचनः 'नन्दनं नन्दि'रिति तदा नन्दनं-समृद्धीभवनं वाञ्छितस्याधिगतिरित्यनर्थान्तरम् , मङ्गलमपि चैवंखरूप-25 मिति परस्परमभेदः, यदा तु प्राचीनावस्थामपेक्ष्य करणसाधनो नन्दिशब्दः 'नन्द्यतेऽनेनेति नन्दि'रिति तदा भेदः, कालभेदेन भेदादिति ॥४॥ सम्प्रति नन्देर्मङ्गलस्य च प्ररूपणा कर्तव्या, तत्र मङ्गलशब्दोच्चारणमिति स्पष्टं मङ्गलबुद्धिहेतुर्भवतीति प्रथमतो मङ्गलशब्दस्य प्ररूपणामाहनाम ठवणा दविए, भावम्मि य मंगलं भवे चउहा ।
मङ्गल एमेवे होइ नंदी, तेसिं तु परूवणा इणमो ॥५॥
पदनिमङ्गलं 'चतुर्धा' चतुःप्रकारं भवति, तद्यथा-नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं १ 'अङ्गगतम्' अङ्गप्रविष्टम् 'अनङ्गगतम्' अङ्गबाह्यं चेत्यर्थः भा० ॥ २°व भवति नं° ता० ॥
30.
"क्षेपाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org