________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [उपोद्धातः कल्पश.. कल्पशब्दोऽनेकार्थाभिधायी कचित् सामथ्र्ये, यथा-वर्षाष्टप्रमाणश्चरणपरिपालने कल्पः, ब्दस्य नि. समर्थ इत्यर्थः । कचिद वर्णनायाम् , यथा-अध्ययनमिदमनेन कल्पितम्, वर्णितमित्यर्थः । रुक्तम्
कचिच्छेदने, यथा-केशान् कर्तर्या कल्पयति, छिनत्तीत्यर्थः । क्वचित् करणे क्रियायाम् , यथाकल्पिता मयाऽस्याऽऽजीविका, कृता इत्यर्थः । कचिदौपम्ये, यथा-सौम्येन तेजसा च यथाक्रम6 मिन्दु-सूर्यकल्पाः साधवः । कचिदधिवासे, यथा-सौधर्मकल्पवासी शक्रः सुरेश्वरः । उक्तं च
सामर्थ्य वर्णनायां च, छेदने करणे तथा ।
औपम्ये चाऽधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ इह सर्वेष्वप्यर्थेषु गृह्यते, सर्वत्रापि घटमानत्वात् । तथाहि-सामर्थे तावदेवम्-कल्पाध्ययनमधीत्यातीचारमलिनस्य साधोः समर्थः प्रायश्चित्तेन विशोधिमापादयितुम् । वर्णनेऽपि-या10वन्तः प्रायश्चित्तप्रकारास्तान् वर्णयतीदमध्ययनम् ; अथवा मूलगुणान् उत्तरगुणांश्च कल्पयति वर्णयतीति कल्पः । उक्तं च
कप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य ।
ववहारे ववहरिया, पायच्छित्ता-ऽऽभवंते य ॥ [व्य० भा० पी० गा० १५४] छेदनेऽपि-तपःशोधिमतिक्रान्तस्य पञ्चकादिच्छेदनेन पर्याय छिनत्ति । करणेऽपि यद् दचं 15 प्रायश्चित्तं तत्र तथा प्रयत्नं करोति कल्पाध्ययनवेत्ता यथा तत् पारं नयति; अथवा कल्पयति जनयत्याचार्यकमिति कल्पः, तथाहि-करोत्याचार्यकं कल्पाध्ययनवेत्ता सम्यगिति। औपम्येऽपिकल्पाध्ययनवेदनाद् भवति पूर्वधराणां कल्पः सदृश इति कल्पः, तथाहि-कल्पाध्ययनेऽधीते भवति पूर्वधरसहशः प्रायश्चित्तविधावाचार्यः । अधिवासेऽपि-कल्पाध्ययनवेत्ता कल्पे मासकल्पे वर्षाकल्पे वा कारणमन्तरेण परिपूर्ण कारणवशत ऊनमतिरिक्तं वा, अथवा कल्पे स्थविरकरुपे
20 जिनकल्पे वाऽधिवसतीति कल्पः ॥ व्यवहा• तथा विधिवत् अवहरणाद् व्यवहारः, यदि वा विधिवद्वपनाद् हरणाच्च व्यवहारः; यस्य नाऽऽ
शब्दस मवति तस्य हापयति, यस्याऽऽभवति तस्मै ददाति व्यवहाराध्ययनवेत्तेति व्यवहार इत्यर्थः । निरुक्तम्
उक्तं च
अत्थिय-पच्चत्थीणं, हाउं एकस्स ववति वीयस्स ।
एएण उ ववहारो, अहिगारों एत्थ उ विहीए ॥ [व्य० भा० पी० गा० ५] तदेवं कल्पस्य व्यवहारस्य च पृथग् विभिन्नं निरुक्तमिति महान् प्रतिविशेषः ॥ "क्क्खाणविहि" इत्यस्य व्याख्यानम् अनुयोग इति ॥२॥ तत्र तमेव व्याख्यानविधिमभिधातुकाम इदमाह
नंदी' यं मैगलठ्ठा, पंचग दुग तिग दुगे य चोदसए।
अंगगयमणंगगए, कायन्च परूवणा पगयं ॥ ३॥ अनुयोगारम्माय प्रथमतो मङ्गलार्थ नन्दिर्वक्तव्यः। स च "पंचग" ति ज्ञानपञ्चकात्मकः। तच्च ज्ञानपञ्चकं द्विकेन भेदेन व्यवस्थितम् , तद्यथा-प्रत्यक्षं च परोक्षं च । प्रत्यक्षस्य त्रिको भेदोऽवघि-मनःपर्याय-केवल मेदात् , परोक्षस्य द्विक आभिनियोधिक श्रुत भेदात् । तत्र श्रुतस्य चतुर्दशको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org