________________
कृतो
भाष्यगाथा १-२]
पीठिका । काऊण नमोकारं, तित्थयराणं तिलोगमहियाणं ।
नियुक्ति कप्पन्नवहाराणं, वक्खाणविहिं पवक्खामि ॥१॥
मङ्गलम् 'कृत्वा' विधाय 'नमस्कार' प्रणामम् , केभ्यः ? इत्याह-'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-द्वादशाङ्गं प्रवचनं तदाधारः सङ्घोवा, तत्करणशीलास्तीर्थकरास्तेभ्यः। गाथायां षष्ठी चतुर्थ्यथें प्राकृतत्वात् । उक्तं च
___ छट्ठिविभत्तीए भन्नइ चउत्थी इति । किंविशिष्टेभ्यः ? इत्याह-'त्रिलोकमहितेभ्यः' त्रयो लोकाः समाहृताः, समवसरणे त्रयाणामपि सम्भवात् । तथाहि-समागच्छन्ति भगवतां तीर्थकृतां समवसरणेष्वधोलोकवासिनो भवनपतयः, तिर्यग्लोकवासिनो वानमन्तर-तिर्यक्पञ्चेन्द्रिय-मनुष्य-]ज्योतिष्काः, ऊर्ध्वलोकवासिनः कल्पोपपन्नका देवाः । त्रिलोकेन महिताः-पूजिताः त्रिभिर्वा लोकैर्महितास्त्रिलोकमहितास्तेभ्यः । 10 नमस्कारं कृत्वा किम् ? इत्याह-कल्पश्च व्यवहारश्च कल्प-व्यवहारौ तयोः 'व्याख्यानविधिम्' अनुयोगविधिं प्रकर्षेण भृशं वा वक्ष्यामि प्रवक्ष्यामि ॥ १॥
ननु कल्पो व्यवहारश्चेति द्वौ ग्रन्थौ, ततः 'कल्प-व्यवहारयोः' इति प्राप्तम् , कथमुच्यते 'कल्प-व्यवहाराणाम्' ? इति, अत आह भाष्यकृत्
सकयपाययवयणाण विभासा जत्थ जुजते जंतु ।
अज्झयणनिरुत्ताणि य, वक्खाणविही य अणुओगो ॥२॥ मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम् , प्रकृतौ भवं प्राकृतं स्वभावसिद्धमित्यर्थः, तेषां संस्कृत-प्राकृतवचनानां 'विभाषा' वैविक्त्येन भाषणं कर्तव्यम् । तच्चैवम्ए-ओकारपराइं, अंकारपरं च पायए नत्थि ।
20 प्राकृतव-सगारमज्झिमाणि य, क-चवग्ग-तवग्गनिहणाई [नाट्य शास्त्र अ. १७ श्लो.६] संस्कृत
योरुपअस्या इयमक्षरगमनिका-एकारपर ऐकारः, ओकारपर औकारः, अंकारपर अः इति विस- लक्षणम् र्जनीयाख्यमक्षरम् , तथा वकार-सकारयोर्मध्यगे ये अक्षरे श-पाविति, यानि च कवर्ग-चवर्गतवर्गनिधनानि ङ-अ-ना इति, एतान्यक्षराणि प्राकृते न सन्ति ॥
तत एतैरक्षरैविहीनं यद् वचनं तत् प्राकृतमवसातव्यम् । एभिरेव ऐ औ अः श ष ङ 25 न इत्येवंरूपैरुपेतं संस्कृतम् । एषां संस्कृत-प्राकृतवचनानां विभाषा “जत्थ जुज्जते जंतु" 'यत्र' प्राकृते संस्कृते वा 'यद्' वचनम्-एकवचन-द्विवचनादि 'युज्यते' घटामटति तद् वक्तव्यम् । तत्र संस्कृते एकवचन द्विवचन बहुवचनं च भवति, यथा-वृक्षः वृक्षौ वृक्षाः; प्राकृते त्वेकवचनं बहुवचनं च, न तु द्विवचनम् , तस्य बहुवचनेनाभिधानात्, "बहुवयणेण दुवयण"मिति वचनात् । ततः 'कप्पव्ववहाराण'मित्यदोषः ॥
30 अथ कल्पशब्दस्य व्यवहारशब्दस्य च कोऽर्थः ? को वा तयोः कल्प-व्यवहाराध्ययनयोः प्रतिविशेषः? तत आह–'अध्ययननिरुक्तानि च' वक्तव्यानि, निश्चितमुक्तं निरुक्तम् , अक्षरार्थ इत्यर्थः, अध्ययनयोः निरुक्तानि अध्ययननिरुक्तानि, तानि च वक्तव्यानि । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org