________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपोद्धातः तत्राऽऽदिमङ्गलं पापप्रतिषेधकत्वादिदं सूत्रम्-'नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" (उद्देशः १ सूत्रं १) इति, मध्यमङ्गलं "कप्पति निग्गंथाण वा निग्गंथीण वा पुरत्थिमेणं जाव अंगमगहातो इत्तए" (उ०१ सू० ५१) एवमादि, पर्यवसानमङ्गलं "छव्विहा कप्पट्टिती पण्णत्ता" (उ० ६ सू० १४) इत्यादि । तच्च मङ्गलं चतुर्धा 5 वक्ष्यमाणखरूपम् । तत्र यद् नोआगमतो भावमङ्गलं तद् द्विविधं सूत्रभणितं सूत्रस्पर्शिकनियुक्तिभणितं च, भाष्यभणितमित्यर्थः, सूत्रस्पर्शिकनियुक्तेर्भाष्यस्य च सम्प्रत्येकग्रन्थत्वेन जातत्वात् । अथ कः सूत्रमकार्षीत् ? को वा नियुक्तिम् ? को वा भाष्यम् ? इति, उच्यते-इह पूर्वेषु यद् नवमं प्रत्याख्याननामकं पूर्व तस्य यत् तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगुणेषूतरगुणेषु चापराधेषु दश विधमालोचनादिकं प्रायश्चित्तमुपवर्णितम् , कालक्रमेण 10 च दुःषमानुभावतो धृति-बल-वीर्य-बुद्ध्या-ऽऽयुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानि जातानि, ततो 'मा भूत् प्रायश्चित्तव्यवच्छेदः' इति साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुखामिना कल्पसूत्रं व्यवहारसूत्रं चाकारि, उभयोरपि च सूत्रस्पर्शिकनियुक्तिः । इमे अपि च कल्प-व्यवहारसूत्रे सनियुक्तिके अल्पग्रन्थतया महार्थत्वेन च दुःषमानुभावतो हीयमानमेधा-ऽऽयुरादिगुणानामिदानीन्तनजन्तूनामल्पशक्तीनां दुर्महे दुरवधारे जाते, ततः सुख1B ग्रहण-धारणाय भाष्यकारो भाष्यं कृतवान् , तच्च सूत्रस्पर्शिकनियुक्तयनुगतमिति सूत्रस्पर्शिकनियुक्तिर्भाष्यं चैको ग्रन्थो जातः । एष शास्त्रस्योपोद्धातः । अनेन चोपोद्धातेनाभिहितेन सूत्रादयोऽर्था अतिव्यक्ता भवन्ति, यथा दीपेनाऽपवरके तमसि । उक्तं च
वत्तीभवंति दवा, दीवेणं अप्पगासे उबरए।
वत्तीभवंति अत्था, उवघाएणं तहा सत्थे ॥ [कल्प बृ. भा.] 20 उपोद्घाताभिधानमन्तरेण पुनः शास्त्रं खतोऽतिविशिष्टमपि न तथाविधमुपादेयतया विराजते, यथा नभसि मेघच्छन्नश्चन्द्रमाः । उक्तं च
मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले ।
उपोद्घातं विना शास्त्रं, न राजति तथाविधम् ॥ तत्र सूत्रभणितं "नो कप्पति निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे" (उ०१ सू०१) 25 इत्यादि । सूत्रस्पर्शिकनियुक्तिभणितमिदम्
१ "तं च मंगलं चउन्विहं, णाममंगलं ठवणामंगलं दव्वमंगलं भावमंगलमिति । एयाणि आवस्सए पुवं वणियाणि (पुव्वभणियाणि प्र०)। णवरं भावमंगले इमो विसेसो-जं तं णोआगमओ भावमंगलं तं दुविहं, सुत्तभणियं च सुत्तप्फासियणिजुत्तिभणियं च,भाष्यभणितमित्यर्थः । तत्थ सुत्तमणियं “णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा आमे तालपलम्बे अभिण्णे पडिग्गाहेत्तए" इत्येवमादि प्रागभिहितं । सुत्तप्फासियणिजुत्तिभणियं पुण इमाणं दोण्हं अज्झयणाणं अप्पग्गंथ-महत्थाणं सुहुम-णितणतणेण य दुग्गहण-दुद्धराणं 'दुस्समाणुभावेण य अप्पसत्तिणो पुरिस' त्ति काउं सुहगहण-धारणा-संति-मंगलणिमित्तं आयरियो भासं (भस्सं प्र०) काउकामो आदावेव (आदाविदं प्र०) गाथासूत्रमाह-काऊण णमोकार गाहा ।” इति चूर्णिः ॥ २र्युक्ती इ° मो ३ ॥
३°ति अत्था दी मो ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org