________________
॥ णमो त्यु णं समणस्स भगवओ महावीरस्स ॥ पूज्यश्रीभद्रबाहुखामिविनिर्मितखोपज्ञनिर्युक्त्युपेतं
बृहत्कल्पसूत्रम् ।
श्रीसङ्घदासगणिक्षमाश्रमणसङ्कलितभाष्योपबृंहितम् । आचार्यश्रीमलयगिरिपादविरचितया पीठिकावृत्त्या तपाश्रीक्षेमकीर्त्या
चार्यविदृब्धया शेषवृत्त्या समलङ्कतम् ।
पीठिका। प्रकटीकृतनिःश्रेयसपदहेतुस्थविरकल्प-जिनकरूपम् ।
वृत्तिकनम्राशेषनरा-ऽमरकल्पितफलकल्पतरुकल्पम् ॥ १॥
द्विहितं
मालम् नत्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । कल्पाध्ययनं विवृणोमि लेशतो गुरुनियोगेन ॥ २ ॥ भाष्यं क चाऽतिगम्भीरं ?, क चाऽहं जडशेखरः । तदत्र जानते पूज्या, ये मामेवं नियुञ्जते ॥ ३ ॥ अद्भुतगुणरत्ननिधौ, कल्पे साहायकं महातेजाः ।
दीप इव तमसि कुरुते, जयति यतीशः स चूर्णीकृत् ॥ ४ ॥ इह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्याऽऽदौ मध्येऽवसाने चावश्यं मङ्गलमभिधात- कि व्यम् , यत आदिमङ्गलपरिगृहीतानि शास्त्राणि पारगामीनि भवन्ति, मध्यमङ्गलपरिगृहीतानि 10 द्विहितः शिष्यबुद्धिप्वारोपितानि स्थिरपरिचितान्युपजायन्ते, पर्यन्तमङ्गलसमलङ्कतानि शिष्य-प्रशिष्यपर- शास्त्रस्या म्परागमनतः स्फातीभवन्ति । उक्तं च
तं मंगलमादीए, मज्झे पजंतए य सत्थस्स । पढमं सत्थत्थाविग्धपारगमणाय निद्दिढें ॥ तस्सेव य थेजत्थं, मज्झिमयं अंतिमं पि तस्सेव । अव्वोच्छितिनिमित्तं, सिस्स-पसिस्सादिवंसस्स ॥ [विशेषाव. गा. १३-१४]
16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org