________________
२५२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः कल्पन्ते ततः किमियतश्चिरात् कालादुक्तम् ?, वञ्चिताः स्मो वयमियन्तं कालमिति भावः । किं का अन्यान्यपि मातुलिङ्गोदीन्यानयामीति ॥ ८००॥ अनयोरपरिणामका-ऽतिपरिणामकयोरेवंजल्पतोराचार्येणेदमुत्तरं दातव्यम्
नामिप्पायं गिण्हसि, असमत्ते चेव भाससी वयणे ।
सुकविल-लोणकए, भिन्ने अहवा वि दोच्चगे ।। ८०१ ॥ जी.१९५५ गा. भो मुग्ध ! त्वं मदीयमभिप्रायं न गृहासि, किन्तूत्सुकतया मदीये वचनेऽसमाप्त एवेदृशं समयविरुद्धं निष्ठुरं वचनं भाषसे; मया पुनरनेनाभिप्रायेणाभिहितम् – “सुक्कबिल" इत्यादि, शुक्लं-काञ्जिकं तदेवात्यम्लं शुक्लाम्लं तेन लवणेन वा कृतानि-भावितानि शुक्लाम्ल-लवणकृतानि भिन्नानि च । किमुक्तं भवति ! न मया भवतः पार्थादपरिणतान्याम्राण्यानायितानि, किन्तु 10 चतुर्थरसिकभावितानि वा लवणभावितानि वा; यद्वा द्रव्यतो भावतश्च भिन्नानि, परिणतानीति भावः । अथवा "दोच्चंगे" ति सामयिकी संज्ञा, ओदनादिमूलाङ्गापेक्षया भोजनस्य द्वितीया
प्रानि-राद्धशाकरूपाणि तानि मया आनायितानीति प्रक्रमः ।। ८०१॥ परिणामः . "अंबाई" इत्यत्राऽऽदिशब्दसूचितौ वृक्ष-बीजदृष्टान्ताविमौ-आचार्या भणन्ति-अजो! कादिपरीक्षाकृते रुक्खेहिं बीएहिं वा पओअणं ति । अत्रापि परिणामकादिजल्पस्तथैवावसातव्यः । नवरमपरिवृक्ष-बीज- 1 णामका-ऽतिपरिणामको प्रति सूरिणा प्रतिवक्तव्यम्
निष्फाव-कोदवाईणि बेमि रुक्खाणि न हरिए रुक्खे ।
अंबिल विद्धत्थाणि अ, भणामि न विरोहणसमत्थे ॥ ८०२॥ निष्पावाः-वल्लाः कोद्रवाः-प्रतीतास्तदादीनि यानि "रुक्खाणि" ति रूक्षाणि द्रव्याणि तान्येवाहं ब्रवीमि, न तु 'हरितान्' सचित्तान् वृक्षान् । तथा बीजान्यपि यानि अम्लभावि20 तानि 'विध्वस्तानि वा व्यवच्छिन्नयोनिकानि तान्यहं भणामि, 'न विरोहणसमर्थानि' न पुनरहुरोद्भवनशक्तिकानीति । एष आम्रादिदृष्टान्तः । कथना चाऽऽचार्येणामीभिः स्थानैः “सुतंबिल" (गाथा ८०१) इत्यादिभिः प्रकारैः कृता । एवं परीक्ष्य यः परिणामकस्तस्य दातव्यम्
॥ ८०२ ॥ कथं पुनस्तेन श्रोतव्यम् ? इत्याहशिष्याणां
निद्दा-विगहापरिवजिएण, गुचिदिएण पंजलिणा। सूत्रार्यश्र
भत्ती बहुमाणेण य, उवउत्तेणं सुणेयव्वं ॥८०३ ॥ अभिकंखतेण सुभासियाइँ वयणाइँ अत्थमहुराई ।
विम्हियमुहेण हरिसागएण हरिसं जणंतेण ॥ ८०४ ।। निद्रायमाणः सन् न किश्चिदप्यवधारयति विकथायां क्रियमाणायां व्याघातो भवतीत्यतो निद्रा-विकथापरिवर्जितेन श्रोतव्यम् । गुप्तानि-खखविषयप्रवृत्तिनिरोधेन संवृतानीन्द्रियाणि 30 येनासौ गुप्तेन्द्रियस्तेन । तथा 'प्राञ्जलिना' योजितकरयुगलेन । भक्त्या बहुमानेन च श्रोत
१ ला-त्रपुसीफलादीन्यप्यानया मो० ले ॥ २ °वादीणि बीयरुक्खा ता० ॥
वणविधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org