________________
भाष्यगाथाः ८०१-८०५] पीठिका ।
२५३ व्यम् , भक्तिर्नाम गुरूणामितिकर्तव्यतायां निषद्यारचनादिका या बाह्या प्रवृत्तिः, बहुमानस्तु गुरूणामुपरि आन्तरः प्रतिबन्धः । अत्र चतुर्भङ्गी-भक्तिर्नामैकस्य न बहुमानः, बहुमानो नामैकस्य न भक्तिः, एकस्य भक्तिरपि बहुमानोऽपि, एकस्य न भक्तिर्न वा बहुमान इति । अत्र च भक्ति-बहुमानयोर्विशेषज्ञापकं शिवाख्यवानमन्तरभक्तयोर्मरुक-पुलिन्दयोरुदाहरणम् , तच्च सुप्रसिद्धमिति कृत्वा न लिख्यते । यदि भक्ति बहुमानं वा न करोति तदा चतुर्लघु 15 तथा 'उपयुक्तेन' अनन्यमनसा श्रोतव्यम् ॥ ८०३ ॥
"अभिकखतेण" इत्यादि । 'वचनानि' श्रुतव्याख्यानरूपाणि 'सुभाषितानि' शोभनभणितिभिर्भणितानि 'अर्थमधुराणि' भावार्थसुखादूनि 'अभिकाङ्क्षता' आभिमुख्येन वाञ्छता । तथा 'विसितमुखेन' अपूर्वापूर्वार्थश्रवणसमुद्भूतविस्मयस्मेरवदनेन । 'हर्षागतेन' 'अहो ! अमी भगवन्तः स्वगल तालुशोषमवगणय्यामन्निमित्तमेवंविधं सूत्रार्थव्याख्यानं कुर्वन्ति, नानृणीभवेय-10 ममीषां परमोपकारिणामहम्' इत्येवंविधं हर्षमागतः-प्राप्तो हर्षागतस्तेन । तथा गुरूणामपि खवदनप्रसन्नतया उकुल्ललोचनतया चे 'हर्षम्' 'अहो! कथमयं संवेगरङ्गतरङ्गितमानसः परमागमव्याख्यानं शृणोति ?' इति लक्षणं प्रमोदं जनयता श्रोतव्यमिति ॥ ८०४ ॥ अथ परिणामकद्वारमुपसंहरन्नाह
आधारिय सुत्तत्थो, सविसेसो दिजए परिणयस्स। . सुपरिच्छित्ता य सुनिच्छियस्स इच्छागए पच्छा ॥८०५॥
॥कप्पपेढिया समत्ता ॥ यः कल्प-व्यवहारादेः सूत्रार्थः 'सविशेषः' सापवादः खगुरुसकाशाद् 'आधारितः' आगृहीतः स सर्वोऽपि दीयते 'परिणतस्य' परिणामकस्य शिष्यस्य 'सुपरीक्ष्य' पूर्वोक्ताम्रादिदृष्टान्तैः सुष्टु-अविसंवादेन परीक्षां कृत्वा 'सुनिश्चितस्य' प्रारब्धसूत्राथें ग्रहीतव्ये कृतनिश्चयस्य, यद्वा 20 'ज्ञान-दर्शन-चारित्राणां यावज्जीवं मया विराधना न कर्तव्या' इत्येवं सुष्ठु निश्चितः-निश्चय
१ मरुक-पुलिन्दयोरुदाहरणं चूर्णितोऽत्रोपन्यस्यते । तथाहिएगस्स गिरिस्स णिज्झरे वाणमंतरं । तत्थ सिवस्स पडिमा । तं एगो धम्मितो सुस्सूसति भत्तीए, पत्ता मोडं गुग्गुलं च देति, आवरिसणोवलेवणं च । अण्णो य एगो पुलिंदओ, सो जे जम्मि उदुम्मि सुंदरा पुप्फा ते आणित्ता गल्लोदएणं ण्हाणेत्ता अच्चेतुं सुतुट्ठो णच्चति, णचित्ता य गच्छति । अण्णता सो वाणमंतरो पुलिंदेण समं बोल्लेति । धम्मितो य आगतो रुट्ठो चिंतेति-अहं सुइएण अच्चणं करेमि, एस असुइणा, तह वि एस जहण्णो एतेण समं बोल्लेति, णूणं एस वि असूइओ चेव । वाणमंतरेण भणितं-सच्चं तुमं ममं सेवसि, जारिसो उण एतस्स ममोवरि बहुमाणो तारिसो तुधं णत्थि । कधं ? । कल्ले पेच्छावि । पभाए रतणीए वाणमंतरेणं एक अप्पणो अच्छि णिद्दारितं । पुलिंदेण दिटुं। रुट्ठो 'केणं?' ति । ताधे चिंतेति-मम सामिस्स एगं अच्छि, मम दोणि, ण जुतं । अप्पणयं णेण अच्छि णिद्दारित्ता लातियं । वाणमंतरेण धम्मिओ भण्णति-किध? पेच्छसि एतस्स वहुमाणं? । ताधे गेण पडिलाइयं पुलिंदस्स। धम्मितस्स भत्ती, पुलिं. दस्स बहुमाणो । एस भत्ति-बहुमाणाणं विसेसो । दोसु वि [ एत्थ ] अधिकारो॥ २च हर्षे जनयता सता श्रोतव्यमिति ॥ ८०४ ॥ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org