________________
भाष्यगाथाः ७९४-८०० ]
पीठिका |
२५१
गृह्णाति । ‘द्वितीयस्य' अपरिणामकस्य पुनरुत्सर्ग एव मतिः परिणमते, न पुनरपवादे । तृतीयस्य तु अति- अत्यर्थम् अपवादे मतिः परिणमते; स च द्रव्यादिकारणेषु प्रतिसेवनामनुज्ञातां ज्ञात्वा न किञ्चित् परिहरति, कारणमन्तरेणापि प्रतिसेवते ।। ७९७ ॥
अथ यदुक्तमासीत् “अंबाईदितो " ( गा० ७९२ ) ति तद् इदानीं भाव्यते एतेषां परिणामकादीनां त्रयाणामपि जिज्ञासया केचिदाचार्याः खशिष्या नित्यमभिदध्युः – 'आर्या : 15 आम्रैरस्माकं प्रयोजनमस्ति' इत्युक्ते यः परिणामकः शिष्यः स ब्रूयात्
चेयणमंचेण भाविय, केद्दह छिन्ने अ कित्तिया वा वि । लद्धा पुणो व वोच्छं, वीमंसत्थं व बुत्तो सि ॥ ७९८ ॥
परिणामकादीनामा
म्रादिदृष्टा•
10
क्षणम्
भगवन् ! यैराम्रैः प्रयोजनं तानि किं चेतनानि ? उताचेतनानि ? किं 'भावितानि' लव- न्तैः परीणादिभिर्वासितानि ? उताभावितानि ? " केद्दह " ति किंप्रमाणानि ? किं महान्ति ? किं वा लघूनि ? “छिन्न” त्ति किं पूर्वच्छिन्नानि ? किंवा इदानीं छित्त्वा ? अथवा “छिन्न" त्ति किं 'छिन्नानि' खण्डीकृतानि ? किं वा सकलानि ? " कित्तिया वा वि" त्ति कियन्ति वा गणनया द्वित्र्यादिसङ्ख्याकान्यानयामि ? अपिशब्दात् किं बद्धास्थिकानि ? अबद्धास्थिकानि वा ? तरु? जरठानि वा ? इत्याद्यपि द्रष्टव्यम् । इत्थं शिष्येणाभिहिते आचार्येण वक्तव्यम्सौम्य ! लब्धानि सन्त्यग्रेऽपि मम पुनः पुरा विस्मृतान्यासन् इदानीं स्मृतिपथमवती - 15 र्णानीति; यद्वा पर्याप्तं तावदिदानीम्, प्रयोजने समापतिते पुनर्भवन्तं 'वक्ष्यामि' भणिष्यामि; अथवा वत्स ! किं ममाऽऽयैः कार्यम् ? 'विमर्शार्थं' 'किमयं विनीतः ? न वा ?, परिणामको वा ? न वा ?' इति विन्यासनार्थमुक्तोऽसीति ॥ ७९८ ॥ यः पुनरपरिणामकः स ब्रूयात्किं ते पित्तपलावो, मा बीयं एरिसाई जंपाहि ।
माणं परो वि सोच्छिहि, कहं पि नेच्छामो एयस्स || ७९९ ॥
भौ आचार्य ! किं ते पित्तप्लावः समजनि यदेवमुन्मत्तवदसम्बद्धं प्रलपसि ?, यद्येकवारं ममा जल्पितं तर्हि जल्पितं नाम, मा पुनर्द्वितीयं वारं ईदृशानि सावधानि वचनानि जल्पेति; यतः मा “णं” इति एतत् त्वदीयं वचनं 'परोऽपि ' अन्योऽपि श्रोष्यति, वयं पुनः कथामपि नेच्छामः 'एतस्य' अर्थस्य आम्रानयनलक्षणस्य किं पुनः कर्त्तव्यतामित्यपिशब्दार्थः ॥ ७९९ ॥ यः पुनरतिपरिणामकः स एवमभिदध्यात् -
कालो सिं अइवत्त, अम्ह वि इच्छा न भाणिउं तरिमो । किं एचिरस्स वुत्तं, अन्नाणि वि किं व आणेमि ॥ ८०० ॥
क्षमाश्रमणाः ! यदि युष्माकमात्रैः प्रयोजनं तत इदानीमप्यानयामि, यतः "सिं" इति एषामाम्राणां कालः ‘अतिवर्त्तते' अतिक्रामति, अद्य तावत् तानि तरुणानि वर्त्तन्ते अत ऊर्द्ध जरठीभविष्यन्तीत्यर्थः । यद्वाऽस्माकमप्याम्राणां ग्रहणे महती इच्छा, परं किं कुर्मः ? न वयं 30 यौष्माकीणभयभीता भणितुं किमपि "तरामु" ति शक्नुमः । अथवा यद्याम्राण्यपि ग्रहीतुं
१ 'मचेण भा° ता० ॥
Jain Education International
For Private & Personal Use Only
20
25
www.jainelibrary.org