________________
अपरिणामकः
अतिपरिणामकः
परिणाम
कादीनां
व्युत्पन्ना
ऽव्युत्पन्न - त्वम्
२५०
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः
अत्र " तुलादण्डमध्यग्रहण" न्यायेन कृतशब्दो मध्येऽभिहितोऽपि सर्वत्रापि सम्बध्यते । यः कश्चिद् द्रव्यकृतं क्षेत्रकृतं कालकृतं भावकृतम्, द्रव्यादिभिर्भेदैः सूत्रे विहितमित्यर्थः, यद् वस्तु ‘यथा' येनोत्सर्गा-ऽपवादरूपेण प्रकारेण जिनैराख्यातं तत् तथा श्रद्दधाति, तमेवं 'श्रद्दघानं' रोचयन्तं जानीहि परिणामकं साधुम् । इयमत्र भावना - द्रव्यतः सचित्ता - ऽचित्त5 मिश्राणि द्रव्याणि यादृशे कार्ये कल्पन्ते न वा, क्षेत्रतोऽध्वनि वा जनपदे वा यद् यथाऽध्वकल्पादिकमाचरणीयम्, कालतो दुर्भिक्ष- सुभिक्षादौ यो यादृशः कल्पः, भावतो ग्लानादिष्वा - गाढा-ऽनागाढादिको यादृग् विधिः । तदेवं सर्वमपि श्रदधानो यथावसरं प्रयुञ्जानश्च परिणामको ज्ञातव्यः ॥ ७९३ ॥ अपरिणामकमाह -
जो दव्य - खेत्तकय-काल- भावओ जं जहा जिणक्खायं । तं तह असतं, जाण अपरिणामयं साहुं ।। ७९४ ॥ यो द्रव्य-क्षेत्र-काल-भावकृतं यद् यथा जिनैराख्यातं तन्न श्रद्दधाति तं तथा अश्रद्दधन्तं जानीहि अपरिणामकं साधुम् || ७९४ ॥ अतिपरिणामकमाह
जो दव्व-खेत्तकय-काल- भावओ जं जहिं जया काले । तल्लेसुरसुत्तमई, अइपरिणामं वियाणाहि ।। ७९५ ॥
यो द्रव्य-क्षेत्र - काल-भावकृतं 'यद्' वस्तु 'यस्मिन् ' विकृष्टाध्वादौ 'यदा काले' आत्यन्ति - कदुर्भिक्षादौ भणितम्, “तल्लेसु" चि तस्मिन् - द्रव्यादिकृते आपवादिकवस्तुनि लेश्या यस्य तल्लेश्यः, 'पश्यामि तावदत्र किमपि निश्रापदं ततस्तदेवावलम्बयिष्यामि' इत्यपवादपदैकमतिरित्यर्थः । तथा सूत्राद् - अपवादश्रुताद् उत्- प्राबल्येन मतिरस्येत्युत्सूत्रमतिः, श्रुतोक्तापवादादभ्यधिकापवादबुद्धिरिति भावः । तमेवंविधं साधुमतिपरिणामकं विजानीहीति ॥ ७९५ ॥ 20 अथामीषामेव व्युत्पत्तिनिमित्तं लक्षणमाह-
10
15
परिणमइ जहत्थेणं, मई उ परिणामगस्स कजेसु ।
विइए न उ परिणमई, अहिगं मइ परिणमे तइओ ॥ ७९६ ॥
परिणामकस्य मतिः कार्येषु 'यथार्थ्येन' यथार्थग्राहकतया परिणमैते, अत एवासौ परिगामक उच्यते । 'द्वितीये' द्वितीयस्यापरिणामकस्य मतिः 'न तु' नैव परिणमते, अत एवा26 सावपरिणामक उच्यते । तृतीयः पुनरधिकां मतिं परिणमयतीत्यतिपरिणामकोऽभिधीयते ॥ ७९६ ॥ एतदेव स्पष्टयति
दो विपरिणम मई, उस्सग्गऽववायओ उ पढमस्स । बिइतस्स उ उस्सग्गे, अइअववाए य तइयस्स || ७९७ ॥
'प्रथमस्य' परिणामकस्य मतिरुत्सर्गा - ऽपवादयोर्द्वयोरपि परिणमति (ते) । किमुक्तं भवति :--- 30 यः परिणामको भवति तस्योत्सर्गे प्राप्ते उत्सर्ग एव मतिः परिणमते, अपवादे प्राप्तेऽपवादे एव मतिः परिणमते; यत्रोत्सर्गों बलीयान् तत्रोत्सर्गं समाचरति, यत्रापवादो बलवान् तत्रापवादं
Jain Education International
९ 'देवंविधं स भा० ॥
२ °देव सदैवाव' मो० ० ॥ ३ मति, अत भा० विना ॥
For Private & Personal Use Only
www.jainelibrary.org