________________
२३२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे अनुयोगाधिकारः क्षितश्रुतमुद्दिशेत् , “सर्व वाक्यं सावधारणं भवति" इति न्यायादुद्दिशेदेव, न व्याघातं कुर्यात् । केन विधिना ? इत्यत आह-"दो दो अ अणोएसुं"त्ति ओजःशब्देन विषममुच्यते, तद्विपरीता अनोजसः-समा द्वि-चतुः-पडादय उद्देशका यत्राध्ययने तत्र अनोजस्सु उद्देशकेषु दिने दिने द्वौ द्वावुद्देशकावुद्दिशेत् । कथम् ? इति चेद् उच्यते-प्रथमायां पौरुष्यां प्रथम6 मुद्देशकमुद्दिश्य समुद्दिश्य च द्वितीय उद्दिश्यते, द्वितीयस्यामुभयोरप्युद्देशकयोः तस्य अनुयोगो दीयते, ततश्चरमपौरुष्यां प्रथममुद्देशकमनुज्ञाय द्वितीयोद्देशकः समुद्दिश्यते अनुज्ञायते चेति चूर्णिलिखिता सामाचारी । तथा 'ओजैस्सु' त्रि-पञ्च-सप्तादिसङ्ख्याकेषु विषमेषूद्देशकेषु अन्तिममुद्देशकमेवोद्दिशेत् , यथा शस्त्रपरिज्ञाध्ययने । तथाहि-तत्र सप्तोद्देशकाः, तेषु च त्रिभि
दिवसैः षडद्देशकानुद्दिश्य चतुर्थे दिवसे एक एव अवशिष्यमाणः सप्तम उद्देशक 10 उद्दिश्यते । स च प्रथमपौरुष्यामुद्दिश्य समुद्दिश्य चरमायामनुज्ञायते ॥ ७४५ ॥
तथा 'एकान्तरम्' एकदिवसान्तरितमाचाम्लमसौ करोति, एकस्मिन् दिवसे आचाम्लमप. रस्मिन्निर्विकृतिकं करोतीति भावः । तथा विकृत्या 'प्रक्षितमपि' खरण्टितमप्यसौ वर्जयति । केचित् पुनराचार्या ब्रुवते—'यावत्' यत्परिमाणं श्रुतमसावधीते ताव॑दुद्दिशेत् , यदि मेधावितया द्वे त्रीणि चत्वारि भूरितराणि वा अध्ययनान्यागमयति ततस्तानि सर्वाण्यप्युद्दिश्यन्ते, न 16 कश्चिद्दोष इति भावः ॥७४६॥ व्याख्यातं "कालमसज्झाय"त्ति पदद्वयम् । स अथ "अवक्खेवे"ति पदं विवृण्वन्नाह
आहारे उवकरणे, पडिलेहण लेव खित्तपडिलेहा ।
अप्पाहारो परिहार मोअजह अप्पनिदो अ॥ ७४७ ॥ तस्योत्सारकल्पे कर्तुमारब्धे आहारग्रहणे उपकरणस्य प्रत्युपेक्षणे लेपग्रहणे क्षेत्रप्रत्युपेक्षायां २८ च व्याक्षेपो न कर्तव्यः । अल्पाहारश्च यथा स भवति तथा कार्यम् । 'परिहारः' संज्ञा 'मोकः'
कायिकी तयोः खल्पताऽल्पाहारतायां भवति । यथा चाऽसावल्पनिद्रो भवति तथा कर्तव्यमिति । एषा सङ्ग्रहगाथा ॥ ७४७ ॥ अथैनामेव प्रतिपदं विवृणोति
हिंडार्विति न वा णं, अहवा अन्नहया न सो अडइ ।
पेहिंति व से उवहिं, पेहेइ व सो न अन्नेसि ॥ ७४८ ॥ १॥ एतचिह्नान्तर्गतः पाठः डे० त० पुस्तकयोरेव ॥ २परीतमनोजः सममित्यर्थः, ततो अनोजसः भा० त० ॥ ३°यने तदनोजः, यथेदमेव कल्पाध्ययनं षडुद्देशकात्मकम् , तेषु अनोजस्सु अध्ययनेषु (उद्देशकेषु) दिने भा० ॥ ४ "दो दो उ अणोएसु"न्ति । अणोया णाम समा उद्देसया, जधा कप्पस्स, तस्स दिणे दिणे दो दो उद्देसया उदिस्संति, पढमपोरिसीए एगो उद्दिट्टो समुद्दिट्टो य, ताघे बितियं उद्दिसति, बितियपोरिसीए तेसिं चेव सो अत्थो कधिजति, चरिमपोरिसीए तं पढमं अणुयाणित्ता बितियं समुद्दिसति अणुयाणति य" इति चूर्णिः॥ ५'ओजस्सु' विषमोद्देशकनिबद्धष्वध्ययनेषु 'अन्तिमं चरममद्देशकमेकमेवोद्दिशेत् । इयमत्र भावना-यत्राध्ययने त्रि-पञ्च-सप्तादिसयाका विषमा उद्देशकास्तद् ओजःसंज्ञितं द्रष्टव्यम्, यथा शस्त्रपरिशाध्ययनं सप्तोद्देशकसङ्ख्याकम्, तत्र च त्रिभिर्दिवसैः भा० ॥ ६°वत् प्रभूतमप्युद्दिशेत् त०॥ ७ यद्यपि मेधा भा० ॥ ८ तथाऽपि तानि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org