________________
15
भाष्यगाथाः ७४७-५१] पीठिका।
२३३ "गं" इति तमुत्सारकल्पिकमाचार्या भिक्षां न हिण्डापयन्ति । वाशब्दस्यानुक्तसमुच्चयार्थत्वात् संस्तरणे सतीति द्रष्टव्यम् । यदि पुनरसंस्तरणं तदा, 'अथवा' इति संस्तरणापेक्षयाऽसंस्तरणस्य प्रकारान्तरताद्योतकः, 'अन्यार्थम्' अन्येषाम्-आचार्य-ग्लान-बाल-वृद्धादीनामर्थाय नासावुत्सारकल्पिकः पर्यटति, यावन्मात्रमाहारमात्मना भुले तावन्मात्रमेवाऽऽनयतीत्यर्थः। तथा 'प्रेक्षन्ते वा' प्रत्युपेक्षन्ते "से" तस्य-उत्सारकल्पिकस्योपधिं शेषसाधवः । 'स वा' उत्सारकल्पिको न 'अन्येषाम्' आचार्य-क्षपकादीनामुपधिं प्रत्युपेक्षते । सर्वत्र ‘मा भूदध्ययनव्याघातः' इति योज्यम् ॥ ७४८॥
एमेव लेवगहणं, लिंपइ वा अप्पणो न अन्नस्स ।
खेत्तं च न पेहावे, न यावि तेसोवहिं पेहे ॥ ७४९ ॥ एवमेव लेपग्रहणम् उपलक्षणत्वाद् लेपनमपि पात्रस्य तस्य निमित्तमन्यैः साधुभिः कर्त- 10 व्यम् । अथ शेषसाधवः कुतोऽपि हेतोः अक्षणिकास्ततः स आत्मन एव पात्राणि लिम्पति नान्यस्य साधोः । क्षेत्रं चै तेन 'न प्रेक्षापयेत्' क्षेत्रप्रत्युपेक्षणार्थ तं न प्रहिणुयादित्यर्थः । न चाप्यसावुत्सारकल्पिकः 'तेषां' क्षेत्रप्रत्युपेक्षकाणामुपधिं प्रत्युपेक्षेत ॥ ७४९ ॥
दिति पणीयाहारं, न य बहुगं मा हु जग्गतोऽजिण्णं ।
मोआइनिसग्गेसु अ, बहुसो मा होज पलिमंथो ॥ ७५०॥ 'प्रणीत' स्निग्ध-मधुरमाहारं परमान्न-शर्करादिकं तस्य गुरवः प्रयच्छन्ति, स सुखेनैवाहनिशमपि दृष्टिवादादिसूत्रार्थानुप्रेक्षानिमित्तमिति भावः । तमपि प्रणीतं 'न च' नैव बहुकं किन्तु खल्पम् , BF कुतः ? इत्याह-छा मा भूत् सूत्रार्थनिमित्तं रजन्यामपि जाग्रतोऽजीर्णमिति। रूक्षाहारभोजिनश्च 'बहुशः' बहून् वारान् 'मोकादिनिसर्गेषु च' प्रश्रवण-संज्ञादिव्युत्सर्गेषु विधीयमानेषु 'परिमन्थः' सूत्रार्थव्याघातो मा भूदिति कृत्वा प्रणीतं दीयते । अल्पा च निद्रा 20 खल्पप्रणीताहारमोजिनः प्रायो भवतीत्यल्पनिद्राद्वारमपि व्याख्यातमवसातव्यम् । इत्थमुत्सारकल्पे समापिते सति विवक्षितं वस्त्रोत्पादनादि कार्य पूर्वोक्तविधिना कार्यते ॥ ७५० ॥
तदेवं व्याख्यातमानुषङ्गिकमुत्सारकल्पिकद्वारम् । अथाचञ्चलद्वारम् । तत्राऽचञ्चलोऽनुयोगं श्रोतुमर्हति न चञ्चल इति चञ्चलखरूपं तावदाहगइ-ठाण-भास-भावे, लहुओ मासो उ होइ एकेके।
25 अचञ्चलआणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥ ७५१ ॥ चञ्चलश्चतुर्की । तद्यथा-गतिचञ्चलः स्थानचञ्चलो भाषाचञ्चलो भावचञ्चलश्च । एतेषामेकैकस्मिन् लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः, विराधना संयमे आत्मनि च । तत्र च संयमविराधना गतिचञ्चलस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमर्दनम् । आत्मविराधना प्रपतन-प्रस्खलन-देवताच्छलनादिका ।। यद्वा तं त्वरितगामिनं दृष्ट्वा द्वितीयः 30
१ रणस्य प्रका डे. मो० ले० ॥ २ च तं 'न प्रे डे० त० ॥ ३°निग्गमेसु अ ता० ॥ ४ तस्य आचार्याः 'ददति' प्रय° भा०॥ ५ एतचिह्नान्तर्गतः पाठः डे० त० ॥ ६ पु मा भूत् 'परिमन्थः' सूत्रार्थव्याघातलक्षण इति प्रणीतं भा० ॥ ७°जिनो भव भा० विना ॥ ८ एतचिहान्तर्गतः पाठः डे० मो० ले. नास्ति ॥
बृ०३०
द्वारम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org