________________
13
भाष्यगाथाः ६८६-९२ ] पीठिका ।
२०७ गीएण य अत्थेण य, गीयत्थो वा सुयं गीयं ॥ ६८९ ॥ 'गीतं मुणितमिति वैकार्थम् । ततश्च विदितः-मुणितः परिज्ञातोऽर्थः छेदसूत्रस्य येन तं विदितार्थ खलु वदन्ति गीतार्थम् । यद्वा गीतेन चार्थेन च यो युक्तः स गीतार्थो भण्यते, गीता-ऽर्थावस्य विद्यते इति अभ्रादित्वाद् अप्रत्ययः । अथ गीतं किमुच्यते ?, अत आह'श्रुतं' सूत्रं गीतमित्यभिधीयते ।। ६८९ ॥ एतदेव भावयति
गीएण होइ गीई, अत्थी अत्थेण होइ नायव्यो।
गीएण य अत्थेण य, गीयत्थं तं विजाणाहि ॥ ६९०॥ इह सूत्रा-ऽर्थधरत्वे चतुर्भङ्गी, तद्यथा-सूत्रधरो नामैको नार्थधरः १ अर्थघरो नामैको न सूत्रधरः २ एकः सूत्रधरोऽप्यर्थधरोऽपि ३ अपरो न सूत्रधरो नार्थधरः ४ । अयं चतुर्थों भङ्ग उभयशून्यत्वादवस्तुभूतः, शेषं भङ्गत्रयमधिकृत्याह-'गीतेन' सूत्रेण केवलेन सम्यक्पठि-10 तेन गीतमस्यास्तीति गीती भवति । अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातयः, अर्थधर इत्युक्तं भवति । यस्तु गीतेन चार्थेन चोभयेनापि युक्तस्तं गीतार्थ विजानीहि इति ।
ॐ इंदमत्र तात्पर्यम्-तृतीयभगवत्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्रोदुमर्हति, न प्रथमद्वितीयभगवर्तिनाविति ॥ ६९० ॥ अथ येषां गीतार्थानां तनिश्रितानां वा विहारो भवति तान् दर्शयतिजिणकप्पिओ गीयत्थो, परिहारविसुद्धिओ वि गीयत्थो ।
गीतार्थाः गीयत्थे इड्डिदुर्ग, सेसा गीयत्थनीसाए ॥ ६९१॥
गीतार्थ
नित्रिताश्च जिनकल्पिको नियमाद् गीतार्थः, परिहारविशुद्धिकः अपिशब्दात् प्रतिमाप्रतिपन्नको यथालन्दकल्पिकश्चावश्यतया गीतार्थः, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोः-आचार्योपाध्याययोकिं द्रष्टव्यम् , सूत्रे 20 मतुलोपः प्राकृतत्वात् , आचार्य उपाध्यायो वा नियमाद् गीतार्थ इत्यर्थः । एषां सर्वेषामपि खातब्येण विहारो विज्ञेयः। 'शेषाः' सर्वेऽपि साधवः 'गीतार्थनिश्रया' आचार्योपाध्यायलक्षणगीतार्थपारतत्र्येण विहरन्ति ॥ ६९१ ॥ इदमेव पश्चाई भावयति
आयरिय गणी इड्डी, सेसा गीता वि होंति तनीसा ।
गच्छगय निग्गया वा, थाणनिउत्ताऽनिउत्ता वा ॥ ६९२॥ 25 १ गीतमिति वा मुणि° भा० ॥२ °सूत्राभिधेयं येन भा० ॥३°लुः अवधारणे 'वदन्ति' ब्रुवते गीतार्थ भा० ॥ ४ इति व्युत्पत्तेः । अथ भा० ॥ ५ डे. त• विनाऽन्यत्र-इह सूत्रार्थयो. चतर्भकी. तद्यथा-सूत्तधरे नामेगे नो अस्थधरे, अत्थधरे नामेगे नो सुत्तधरे, एगे सुत्तधरे वि अत्थधरे वि, एगे नो सुत्तधरे नो अत्थधरे । अत्र चतुर्थो भङ्ग उभयथाऽपि शून्यः, आद्यं भङ्गत्रयं सूचयनाह-गीतेन भा० ॥ ६ °व्यः । यस्तु डे० त० विना ॥ ७ हस्तचिहान्तर्गतोऽयं पाठः भा० डे. त• पुस्तकेष्वव वर्तते । एवमप्रेऽपि सर्वत्र हस्तचिहान्तर्गतः पाठः भा. डे. त. पुस्तकान्तर्गत एव श्रेयः॥ ८ अथ कस्का साधुरवश्यंतया गीतार्थो भवति? इति उच्यते इत्यवतरणं भा० ॥ ९ति भावः। तथा भा० ॥ १०°था गच्छवासिनां 'गीतार्थे' गीता भा०॥ ११ तार्थो भवति इ° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org