________________
जघन्य
15
२०८
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः 'आचार्यः' सूरिः 'गणी' उपाध्यायः एतौ यतः 'ऋद्धिमन्तौ' सातिशयज्ञानादिऋद्धिसम्पन्नौ, अतिशायनेऽत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादौ, अतः शेषाः साधवो गीतार्था अपि तन्निश्रेया विहरन्ति । अथ के ते शेषाः ? इत्याह-गच्छगता गच्छनिर्गता वा । तत्र गच्छगताः गच्छमध्यवर्तिनः, गच्छनिर्गताः "असिवे ओमोअरिए" इत्यादिभिः 5 कारणैरेकाकीभूताः; अथवा 'स्थाननियुक्ताः स्थानानियुक्ता वा' स्थाने पदे नियुक्ताःव्यापारिताः 'स्थाननियुक्ताः' प्रवर्तक-स्थविर-गणावच्छेदेकाख्याः पदस्थगीतार्था इत्यर्थः, तद्विपरीता स्थानानियुक्ताः, सामान्यसाधव इत्यर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति ॥ ६९२ ॥ कथम् ? इत्याह
आयारपकप्पधरा, चउदसपुव्वी अ जे अ तम्मज्झा । मध्यम
10 तनीसाएँ विहारो, सबाल-वुड्डस्स गच्छस्स ॥ ६९३ ॥ उत्कृष्टाः गीतार्थाः 'आचारप्रकल्पधराः' निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरु
कृष्टाः, 'तन्मध्यवर्तिनः' कल्प-व्यवहार-दशाश्रुतस्कन्धधरादयो मध्यमाः। तेषां-जघन्य-मध्यमोत्कृष्टानां गीतार्थानां निश्रया सबाल-वृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य
खच्छन्दमेकाकिविहारः कर्तुं युक्तः ॥ ६९३ ॥ कुतः ? इति चेद् उच्यतेएकाकि
एगविहारी अ अजायकप्पिओ जो भवे चवणकप्पे । विहारे दोषाः
उवसंपन्नो मंदो, होहिइ वोसट्टतिहाणो ॥ ६९४ ।। एकः सन् विहरतीत्येवंशील एकविहारी, स च 'अजातकल्पिकः' अगीतार्थः, तथा च्यवनं-चारित्रात् प्रतिपतनं तस्य कल्पः-प्रकारश्च्यवनकल्पः, पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वम् 'उपसम्पन्नः' प्रतिपन्नः सन् 'मन्दः' सद्बुद्धिविकलो भविष्यति 20 'व्युत्सृष्टत्रिस्थानः' व्युत्सृष्टानि परित्यक्तानि त्रीणि स्थानानि-ज्ञानादिरूपाणि येन स व्युत्सृ
ष्टत्रिस्थानः । एषा नियुक्तिगाथा ॥ ६९४ ॥ अथैनामेव विवृणोतिएकाकि
मोत्तूण गच्छनिग्गते, गीयस्स वि एकगस्स मासो उ । विहारिणां प्रायश्चि
अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ॥ ६९५ ॥ १ एतौ ऋद्धिमन्तावभिधीयेते, ऋद्धिः-शान दर्शन-चारित्ररूपाऽतिशायिनी सम्पत् सा विद्यतेऽनयोरित्यतिशायने मतुप्रत्ययः, तत आचार्योपाध्यायौ यतः 'ऋद्धिमन्तौ' महद्धिको अतः शेषाः साधवो भा० ॥२ श्रया आचार्योपाध्यायपरतन्त्रतया विह डे० ता० ॥ ३°षा:? उच्यते-गच्छ भा० ॥ ४ रणैर्गच्छानिर्गता एकाकीभूता इति यावत् । अथवा भा० ॥ ५°दकाः, तद्वि मो० ले० कां० ॥६ °न्यतो गीता भा० ॥ ७ डे० त० विनाsन्यत्र-हारधरादयो मध्यमाः। तेषां जय ले० मो० । हारधारकादयश्चतुर्दशपूर्वाणामक सर्वेऽपि मध्यमा गीतार्था अवसातव्याः । यदि नामैवं गीतार्थसाधिधास्ततः किम् ? इत्याह-तन्निश्रया जघन्य-मध्य भा० ॥ ८ सोऽपि जातकल्पिको वा स्यादजातकल्पिको वा, जातकल्पिको गीतार्थः, अजातकल्पिकः पुनरगीतार्थः, तत्रेहाजातकल्पिको गृह्यते । तथा यो भवेत् 'च्यवनकल्पे' इति च्यवनं भा० । “सो पुण जायकप्पिओ वा होजा अजायकप्पिओ वा । जातकप्पिओ णाम गीतत्थो, अजातकप्पिओ अगीतत्थो । चवणकप्पो णाम पासत्यादिविहारो" इति चूर्णौ ॥
तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org