________________
२०६
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः सी कर"ति मनसि करणस्य उपलक्षणत्वाद् अनुज्ञापनायाश्चाकरणे त्रिविधं प्रायश्चित्तम् ॥६८५॥ एतदेव सविशेषमाह
पंचविहम्मि परूविऍ, स उग्गहो जाणएण घेत्तव्यो।
अन्नाए उग्गहिए, पायच्छित्तं भवे तिविहं ।। ६८६ ॥ । 'पञ्चविधे' अवग्रहे प्ररूपिते सतीदं तात्पर्यमभिधीयते-स एवंविधोऽवग्रहः 'ज्ञायकेन' पञ्चप्रकारावग्रहस्वरूपवेदिना ग्रहीतव्यो नाज्ञायकेन । कुतः ? इत्याह-'अज्ञाते' अनधिगते सति यद्यवग्रहमवगृह्णाति ततस्तस्मिन्नवगृहीते त्रिविधं प्रायश्चित्तं भवति ॥ ६८६॥ तदेवाह
इक्कड-कढिणे मासो, चाउम्मासो अ पीढ-फलएसु।
कट्ठ-कलिंचे पणगं, छारे तह मल्लगाईसु ॥ ६८७ ॥ 10 इक्कडं-ढण्ढणी कठिनः-शरस्तम्बः तयोः संस्तारके मासलघु । काष्ठमयेषु पीठेषु फलकेषु च प्रत्येकं चत्वारो मासलघवः । काष्ठं च-काष्ठशकलं कलिञ्चं च-वंशदलं काष्ठ-कलिञ्चं तत्र तथा 'क्षारे' भसनि 'मल्लकादिषु' मल्लकं-शरावम् आदिशब्दात् तृण-डगलादिपरिग्रहः, एतेषु सर्वेष्वपि 'पञ्चकं' पञ्च रात्रिन्दिवानि ईति त्रिविधं प्रायश्चित्तमज्ञातावग्रहस्वरूपस्यावग्रहणे द्रष्टव्यम् ॥ ६८७ ।। उक्तोऽवग्रहकल्पिकः । सम्प्रति विहारकल्पिकमाह
10 विहारकल्पिकद्वारम् गीतार्थ
गीयत्थो य विहारो, बीओ गीयर्थनिस्सिओ भणिओ । गीतार्थनित्रितौ
इत्तो तइयविहारो, नाणुनाओ जिणवरोहिं ॥ ६८८ ॥ विहारौ ___ गीतः-परिज्ञातोऽर्थो यैस्ते गीतार्थाः-जिनकल्पिकादयः, तेषां खातन्त्र्येण यद् विहरणं स
गीतार्थो नाम प्रथमो विहारः । तथा गीतार्थस्य-आचार्योपाध्यायलक्षणस्य निश्रिताः-परतन्त्रा 20 यद् गच्छवासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः । इत ऊर्दू
मगीतार्थस्य खच्छन्दविहारितारूपस्तृतीयो विहारो नानुज्ञातः 'जिनवरैः' भगवद्भिस्तीर्थकरै
रिति ।। ६८८ ।। अथैनामेव नियुक्तिगाथां विवृणोतिगीतार्थ
गीयं मुणितेगढ़, विदियत्थं खलु वयंति गीयत्थं । पदव्या
१ इति यथाक्रमं त्रिविधमपि प्राय भा० ॥ २ 'त्थमिस्सि ता० ॥ ३ गीतः-परिक्षाख्यानम्
तोऽर्थो यैस्ते गीतार्थाः, गीतार्था एव केवलाः सन्त्यति अभ्रादेराकृतिगणत्वाद् अप्रत्यये गीतार्थो नाम मौलो विहारः । किमुक्तं भवति?-यावन्तो विवक्षितगच्छान्तर्वर्तिनः साधवस्तावन्तः सर्वेऽपि गीतार्था न कश्चित् तन्मध्यादगीतार्थः, यथा श्रीऋषभस्वामिप्रथमगणधरस्य ऋषभसेनस्य परिवारभूतानि द्वात्रिंशदपि सहस्राणि साधूनां गीतार्थानि इति, एवमन्येषामपि केवलगीतार्थपरिवारोपेतानां यो विहारः स गीतार्थ इत्युच्यते । द्वितीयो गीतार्थ पुरतः कृत्वा तन्निश्रया-तत्पारतन्येण यो विहारः स गीतार्थ निश्रितः 'भणितः' प्रतिपादितस्तीर्थकर-गणधरैः । क्वचित्तु "गीयत्थमीसओ" त्ति पठ्यते, तत्र 'गीतार्थमिश्रकः' गीतार्थसंवलितागीतार्थसाधुसमुदायरूपः, शेषं प्राग्वत् । इत ऊईमपरस्तृतीयो विहारो नानुज्ञातः 'जिनवरैः' भगवद्भिस्तीर्थकरैरिति ॥ ६८८ ॥ अथैनामेव नियुक्तिगाथां विवरीषुः प्रथमतो गीतार्थपदं व्याचष्टे इतिरूपा भा• पुस्तके टीका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org