________________
भावाव
भाष्यगाथाः ६८२-८५] पीठिका ।
२०५ इह च यद्यपि शेषनृपति गृहपति-सागारिकाणामायूंषि पूर्वकोटिपर्यवसितान्यपि सम्भाव्यन्ते तथापि चूंर्णिकृता किमपि बाहुल्यादि कारणमुद्दिश्य चतुरशीतिपूर्वलक्षपर्यन्तान्येवाभिहितानीति अत्रापि तदनुरोधेन तथैव व्याख्यातानि । तथा 'चरमे' साघर्मिकावग्रहे ऋतुबद्धे मासकल्पविहारिणां जघन्यो मासमेकम् उत्कृष्टो वर्षासु चतुरो मासान् कालावग्रहः । “दोसु वि भयणा उ कजम्मि" ति 'द्वयोरपि' जघन्योत्कृष्टयोः कार्य समापतिते भजना । किमुक्तं भवति?-ग्लानादिभिः कारणैः कदाचिद् ऋतुबद्धे मासो वर्षासु चत्वारो मासा न प्रतिपूर्येरन् अतिरिक्ता वा भवेयुः ॥ ६८३ ॥ गतः कालावग्रहः । अथ भावावग्रहमाह
चउरो ओदइअम्मी, खओवसमियम्मि पच्छिमो होइ।
मणसी करणमणुनं, च जाण जं जत्थ ॐ कमइ ॥ ६८४ ॥ 105 'चत्वारः' देवेन्द्र-राज-गृहपति-सागारिकाणामवग्रहा औदयिके भावे वर्तन्ते, 'ममेदं क्षेत्रम्' इत्यादिमूर्छायास्तेषु सद्भावात् , तस्याश्च कषायमोहनीयोदयजन्यत्वात् । 'पश्चिमः' साधर्मिकावग्रहः स क्षायोपशमिके भावे वर्तते, कषायमोहनीयक्षयोपशमयुक्ततया 'ममेदं क्षेत्रम् , ममायमुपाश्रयः' इत्यादिमूर्छायाः साधूनामभावात् । एष भावावग्रहः । तदेवं प्ररूपितः पञ्चविधोऽप्यवग्रहः । अथ यदुक्तं द्वारगाथायाम् “पंचविहम्मि परूविऍ, नायबो 15 जो जहिं कमइ” (गा० ६६९)त्ति तदिदानी भाव्यते-"मणसी करणमणुन्नं चे"त्यादि । मनसि करणमनुज्ञां च जानीहि, यद् 'यत्र' देवेन्द्रावग्रहादौ 'क्रामति' अवतरति तत्र 'मनसि' चेतसि करणम् 'अनुजानीतां यस्यावग्रहः' इति मनस्येवानुज्ञापनमिति हृदयम् । यत् पुनर्वचसाऽनुज्ञाप्यते साऽनुज्ञा, अन्तर्भूतण्यर्थत्वादनुज्ञापनेति भावः । तत्र देवेन्द्र-राजावग्रह्योर्मनसैवानुज्ञापनं करोति, गृहपत्यवग्रहस्य मनसा वा वचसा वा, सागारिक-साधर्मिकावग्रहयो- 20 नियमाद् वचसाऽनुज्ञापना, यथा-अनुजानीतास्माकं शय्यां वस्त्र-पात्र-शैक्षादिकं वेत्यादि ॥ ६८४ ॥ अथ भावावग्रहं प्रकारान्तरेणाह
भावोग्गहो अहव दुहा, मइ-गहणे अत्थ-बंजणे उ मई ।
गहणे जत्थ उ गिण्हे, 'मणसी कर अकरणे तिविहं ॥ ६८५ ॥ अथवा भावावग्रहो द्विघा-मतिभावावग्रहो ग्रहणभावावग्रहश्च । तत्र 'मतिः' मतिज्ञा- 25 नरूपभावावग्रहो भूयोऽपि द्विधा–व्यञ्जनावग्रहोऽर्थावग्रहश्च । गाथायां बन्धानुलोम्येन पूर्वमर्थशब्दस्य निर्देशः। 'ग्रहणे' ग्रहणविषयो भावावग्रहः 'यत्र तु' यस्मिन् पुनर्देवेन्द्रावग्रहादौ यदा साधुः किञ्चिद् वस्तुजातं गृह्णाति सचित्तमचितं मिश्रं वा तस्य तदा ग्रहणभावावग्रहः । "मण
१ "अंतोमुहत्ताओ परेणं समयाधियातो ठितीतो जाच चउरासीतिपुवसतसहस्साइं, एत्यंतरे जेणं रण्णा जं आउयं निव्वत्तितं जो वा जत्तियं कालं रजाधिवच्चं करेति तस्स तस्स सो उक्कोसओ कालोग्गहो भवति" इति चूर्णिपाठः ॥ २°दिकं का भा० ॥ ३ उक्कमति ता० ॥ ४'मते' मतिज्ञानस्य भावा भा० ॥ ५ ग्रहो द्वि डे. त• विना ॥ ६ कां० डे० त० विनाऽन्यत्र-°दा स एव
ग्रहणरूपं भावमधिकृत्यावग्रहो ग्रहणभावावग्रहः भा० ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org