SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ कालावमहः २०१ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः कथम्भूतः ! इत्याह-यो येन शक्रादिना परिगृहीतः स तस्य सम्बन्धी द्रव्यावग्रहः। किमुक्तं भवति ?-देवेन्द्रावग्रहक्षेत्रे यानि सचित्ता-ऽचित्त-मिश्राणि द्रव्याणि तानि सर्वाण्यपि देवेन्द्रद्रव्यावग्रहः । एवं राजावग्रहादिष्वपि भावना कार्या ।। ६८१ ॥ उको द्रव्यावग्रहः, अथ कालावग्रहमाह दो सागरा उ पढमो, चकी सत्त सय पुव्व चुलसीई। सेसनिवम्मि मुहुत्तं, जहन्नमुक्कोसए भयणा ॥ ६८२ ॥ 'प्रथमः' देवेन्द्रावग्रहः स द्वे सागरोपमे यावद् भवति, शक्रस्य द्विसागरोपमस्थितिकत्वात् । 'चक्री' चक्रवर्त्यवग्रहो जघन्यतः सप्त वर्षशतानि ब्रह्मदत्तवत् , उत्कर्षतः पुनश्चतुर शीतिपूर्वशतसहस्राणि भरतचक्रवर्तिवत् । तथा च चूर्णिः10 चक्कवट्टिउग्गहो जहण्णेणं सत्त वाससया बंभदत्तस्स, उक्कोसेणं चउरासीइपुत्वसयसहस्साई भरहस्स ॥ ___ अत्र परः प्राह-ननु ब्रह्मदत्तः कुमारतायामष्टाविंशति माण्डलिकत्वे षट्पञ्चाशतं दिग्विजये षोडश वर्षाण्यतिवाह्य षड् वर्षशतान्येव चक्रवर्तिपदवीमनुबभूव, भरतोऽपि सप्तसप्तति पूर्वलक्षाणि कुमारंभावमनुभूय वर्षसहस्रं माण्डलिकत्वमनुपाल्य षष्टिवर्षसहस्राणि विजयया15 त्रायां व्यतीत्य ततः किश्चिद् न्यूनानि षट् पूर्वलक्षाणि सार्वभौमश्रियं बुभुजे, ततः कथम नयोः सप्त वर्षशतानि चतुरशीतिपूर्वलक्षाणि च यथाक्रमं चक्रवर्त्यवग्रहः प्रतिपाद्यमानो न विरुध्यते ? नैष दोषः, इह योग्यतामङ्गीकृत्य भरतादयो जन्मत एव चक्रवर्तिनो मन्तव्याः, यत उत्पन्नमात्र एव चक्रवर्जिनि तदीयतथाविधाद्भुतभाग्यसम्भारसमावर्जितास्तदाभाव्यक्षेत्रनिवासिदेवताः 'उत्पन्नोऽयं सकलमहीवलयखामी' इति प्रमोदभाजस्तदानुकूल्यवृत्तयस्तजया20 भिलाषिण्यस्ततत्प्रत्यनीकप्रयुक्तप्रत्यूहापहाराय प्रवर्तन्त इति समीचीनमेव यथोक्तमवग्रहकाल मानम् ; अन्यथा वा बहुश्रुतैरुपयुज्य निर्वचनीयमिति । "सेसनिवम्मि मुहुत्तं"ति चक्रवर्तिनं मुक्त्वा यः शेषो नृपस्तस्य जघन्यतोऽन्तर्मुहूर्त कालावग्रहः, कृतराज्याभिषेकस्यान्तर्मुहूर्तादूर्द्ध मरणाद् राज्यपदपरिभ्रंशाद्वा । "उक्कोसए भयण"ति शेषनृपतीनामुत्कृष्ट कालावग्रहे भजना कार्या । किमुक्तं भवति ?--अन्तर्मुहूर्तादारभ्य समयवृद्ध्या वर्द्धमानानि चतुरशीतिपूर्वलक्षाणि 25 यावद् यान्यायुःस्थानानि तेषां मध्ये यद् येन नृपतिनाऽऽयुःस्थानं निर्वतिं यो वा यावन्तं कालं राज्यैश्वर्यमनुभवति तस्य स उत्कृष्टः कालावग्रहः ॥ ६८२ ॥ एवं गहवइ-सागारिए वि चरिमे जहन्नओ मासो। उक्कोसो चउमासा, दोहि वि भयणा उ कजम्मि ॥ ६८३ ॥ एवं गृहपति-सागारिकयोरपि शेषनृपतिवद् जघन्य उत्कृष्टश्च कालावग्रहो द्रष्टव्यः । १ न्यः सप्त डे० त० ॥ २ रतायामनु भा० ॥ ३ कां० मो० ले० विनाऽन्यत्र-दोषः, यतो योग्य डे० त० । दोषः, अवग्रहा-ऽवग्रहवतोः स्वस्वामिभावसम्वन्धानुविद्धतया कथश्चिदभेदो विवक्ष्यते; यद्वा योग्य भा० ॥ ४ °न्मन एव भा० कां० विना ॥५ °क्षान्तं याव भा० ॥ ६°व्यः, जघन्योऽन्तर्मुहूर्त्तम्, उत्कृष्टः पुनरन्तर्मुहूर्तादूई समयवृया यावच्चतुरशीतिपूर्वलक्षाणि । इह भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy