SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६७६-८१ ] पीठिका | २०३ - प्रेर्यते तदा या काचित् तेषामनुज्ञा, यथा--- - एतावति प्रदेशे युष्माभिः स्थातव्यम् एतावत्यस्मांभिरिति स जघन्यः क्षेत्रावग्रहः । उत्कृष्टः पुनरवग्रहः अनियतः, कस्याप्यल्पीयान् कस्यापि भूयानिति भावः । केषाम् ? इत्याह – अचत्र्यादीनां चतुर्णामपि यश्चक्री न भवति किन्तु सामान्यपार्थिवः स नञः पर्युदासप्रतिषेधतया तत्सदृशग्राहकत्वादचक्री भण्यते, आदिशब्दाद् गृहपत्यादयो गृह्यन्ते ॥ ६७८ || अथ सागारिकावग्रहस्य विशेषत उपयोगित्वाद् विधिमाह – 6 अणुन्नाए वि सव्वम्मी, उग्गहे घरसामिणा । सागारिका वग्रहे तहा वि सीमं छिंदंति, साहू तप्पियकारिणो ॥ ६७९ ।। निवास - 'गृहखामिना' शय्यातरेण 'भाजनधावन - कायिक्यादिव्युत्सर्जन-स्वाध्याय-ध्यानादिकं यत्र विधिः यत्र भवतां रोचते तत्र तत्र कुरुत' इत्येवं यद्यपि सर्वोऽप्यवग्रहोऽनुज्ञातस्तथापि साधवः तस्य - सागारिकस्य प्रियकारिणः - समाधिविधित्सवः 'सीमां' मर्यादां 'छिन्दन्ति' निर्धारयन्ति, 10 व्यवस्थां स्थापयन्तीत्यर्थः ॥ ६७९ ॥ तामेव सीमामभिधत्ते - झाया भाणघोषणाई, दोन्हऽद्वया अच्छणहेउगं च । मिउग्गहं चैव अट्ठियंते, मा सो व अन्नो व करेज मन्नुं ॥ ६८० ॥ ध्यानार्थं भाजनघावनाद्यर्थं द्वयोः - उच्चार - प्रश्रवणयोरर्थाय ' अच्छण" त्ति उपविश्यावस्थानं तद्धेतुकं च-तन्निमित्तकं ‘मितावग्रहमेव ' परिमितमेवावग्रहमधितिष्ठन्ति । किमुक्तं भवति ? - 15 साघवो व्यवस्थां स्थापयन्तः शय्यातरमामन्त्रय ब्रुवते - श्रावक ! वयमियति प्रदेशे ध्यानमध्यासिष्यामहे नेतः परम्, अत्र भाजनानि धाविष्यामो नान्यत्र, यदि नाम ग्लानादे रात्रावुच्चारसम्भवो भवेत् ततोऽत्र परिष्ठापयिष्यते, अत्र पुनः कायिकी व्युत्सृजिष्यते, इह पुनः साधवो भाजनरञ्जनादिकं कुर्वन्तः कियतीमपि वेलामा सिज्यन्ते, एवं व्यवस्थाप्य मितमेवावग्रहमधितिष्ठन्ति । कुतः ? इत्याह- मा 'सवा' सागारिकः 'अन्यो वा' तदीयो वयस्य-खजनादिः 20 सबाल वृद्धाकुलेन गच्छेनातिप्राचुर्येणाऽऽक्रान्ते कायिक्यादिना वा विनाशितेऽवग्रहे 'मन्युम् ' अप्रीतिकं कुर्यात् । अपि च तथा साधुभिरप्रमत्तैस्तत्र स्थातव्यं यथा शय्यातरश्चिन्तयेत् - अहो ! निभृतस्वभावा अमी मुनयः, यदेतावन्तोऽपि सन्तः खसमयोदितमाचारमा चरन्तोऽपि परस्परं विकथादिकमकुर्वन्तो निर्व्यापारा इव लक्ष्यन्ते, तत् सर्वथा कृतार्थोऽस्म्यहममीषां भगवतां शय्यायाः प्रदानेन, तीर्णप्रायो मयाऽयमपारोऽपि संसारपारावार इति ॥ ६८० ॥ 25 प्ररूपितः क्षेत्रावग्रहः । सम्प्रति द्रव्यावग्रहमाह - चेयणमचित्त मीसग, दव्त्रा खलु उग्गहेसु एएसु । जो जेण परिग्गहिओ, सो दुब्वे उग्गहो होइ ॥ ६८१ ॥ 'एतेषु ' देवेन्द्राद्यवग्रहेषु यानि 'चेतनानि' स्त्री-पुरुषादीनि 'अचित्तानि' वस्त्र -पात्रादीनि ‘मिश्राणि' सभाण्डोपकरणस्त्री पुरुषादीनि यानि द्रव्याणि सः 'द्रव्ये' द्रव्यविषयोऽवग्रहः | 30 १ 'त् सागारिकस्य साधर्मिकाणां वा अनुशा भा० ॥ २ 'स्माभिरपरैश्च जनैरिति स जय भा० ॥ ३ भाणधुवणट्टतादी, दो ता० ॥ ४ " एत्थ अच्छीहामो, काए वेलाए ? लिहंता वा रंगेत्ता (रंगंता) वा भाणे” इति चूर्णिकारः ॥ ५ कुतो हेतोः ? इति चेद् अत आहं भा० ॥ For Private & Personal Use Only Jain Education International द्रव्याव. प्रहः www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy