________________
२००
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे. [अनुयोगाधिकारः रेवमेव परिमुज्यते न भूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा, यथा-चिरन्तनसाधुभिदेवेन्द्रो यदवग्रहमनुज्ञापितः सैव पूर्वानुज्ञा साम्प्रतकालीनसाधूनामप्यनुवर्तते न पुनर्भूयोऽप्यनुज्ञाप्यते । अभिनवानुज्ञा नाम यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्तिभिः साधुभिर्यदसौंवभिनवोत्पन्नतयाऽवग्रहमनुज्ञाप्यते सा तेषां साधूनामभिनवानुज्ञा तदन्येषां तु पूर्वानुज्ञैव । 5 राजावग्रहेऽपि यो यदा चक्रवर्ती समुत्पद्यते स तत्कालवर्तिभिः साधुभिर्यदनुज्ञाप्यते सा तेषामभिनवानुज्ञा, तदपरेषां पूर्वानुज्ञा । एवं शेषनृपति-गृहपतीनामपि पूर्वा-ऽभिनवानुज्ञे भावनीये । सागारिकोऽपि प्रथमत उपागतैः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा । तेषु साधुषु तत्र स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितमवग्रहं परिभुञ्जते सा पूर्वानुज्ञा । तदेवं चतुर्ववग्रहेषु पूर्वा-ऽभिनवानुज्ञयोजना भाविता । तथा पश्चिमे साधर्मिकाव10 ग्रहेऽभिनवानुज्ञैव भवति न पूर्वानुज्ञा । तथाहि—यो यदाऽवग्रहार्थ साधर्मिकमुपसम्पद्यते स सर्वोऽपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुज्ञैवैका ।। ६७० ॥ अथामीषां पञ्चानामपि भेदानाह
दव्वाई एकेको, चउहा खित्तं तु तत्थ पाहन्ने ।
तत्थेव य जे दव्या, कालो भावो असामित्ते ॥ ६७१ ॥ 16 एकैकोऽवग्रहश्चतुर्दा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र प्रथमतः क्षेत्रावग्रहः प्ररूप्यते । कुतो हेतोः । इति चेद् उच्यते-'क्षेत्रं तु' क्षेत्रं पुनः 'तत्र' तेषु द्रव्यादिषु मध्ये प्राधान्ये वर्चते, इहावग्रहस्य प्ररूप्यमाणत्वात् तस्य च तत्त्वतः शक्रादिक्षेत्ररूपतयाऽभिधीयमानत्वादिति भावः । यतश्च तत्रैव च' क्षेत्रे यानि द्रव्याणि यश्च कालो भावश्च एतेषां
त्रयाणामपि क्षेत्रमाधारभूतं खामित्वे वर्तते, क्षेत्रस्यैव सम्बन्धित्वात् तेषाम् । तस्मिंश्च प्रथमं प्ररू20 पिते द्रव्यादयस्तदन्तर्गताः प्ररूपिता एव भवन्तीति॥६७१॥ प्रथमतः क्षेत्रावग्रहं प्ररूपयति
पुव्वावरायया खलु, सेढी लोगस्स मज्झयारम्मि ।
जा कुणइ दुहा लोग, दाहिण तह उत्तरद्धं च ॥ ६७२ ॥ इह सर्वस्यापि लोकस्य 'मध्यकारे' मध्यभागे मन्दरस्य पर्वतस्योपरि 'श्रेणिः' आकाशप्रदेशपतिरेकपादेशिकी पूर्वापरयोर्दिशोरायता प्रदीर्घा समस्ति, 'या' श्रेणिर्लोकमेकरूपमपि 26 द्विधा करोति । तद्यथा-दक्षिणलोकार्द्धमुत्तरलोकार्द्ध च । तत्र दक्षिणलोकार्द्धस्य शक्रः प्रभुत्वमनुभवति, उत्तरलोकार्द्धस्य पुनरीशानकल्पनायकः । तथा दक्षिणलोकाड़े यान्यावलिकाप्रविष्टानि पुप्पावकीर्णानि वा विमानानि तानि शक्रस्यैवाऽऽभाव्यानि, यानि पुनरुत्तरा तानि सर्वाण्यपि द्वितीयकल्पाधिपतेः ॥ ६७२॥
१ कां• मो० ले. विनाऽन्यत्र-यथा-चिरन्तनकालवर्तिभिः साधु डे० त० । यथा-पुरातनसाधु भा० ॥२°योऽनु भा०॥३°लाभिनवो देवे भा० ॥४°साववन मो० ले० कां०॥ ५°ग्रहेऽनु भा० ॥ ६ यो यदा यमवग्रहार्थ साधर्मिकः साधर्मिकमु भा० । “जो जं जाधे उवसंपजति साधम्मिओ साधम्मियं सो तं ताधे चेव अणुजाणावेति" इति चौँ॥ ७ षाम इत्य. तोऽपि क्षेत्रस्यैव प्राधान्यं नेतरेषाम् । तसिं भा० ॥ ८°त एव क्षेत्रा मो० ॥ ९ °ग्रह एव प्ररूप्यते भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org