________________
१९९
अवग्रहकल्पिकः
भाष्यगाथाः ६६५-७०]
पीठिका। द्वितीयः, खार्थ कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः, स्वार्थ कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थः । अत्र त्रिषु भङ्गेषु प्रायश्चित्तम् , तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेन च गुरवः, द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः, तृतीये चतुर्लघुकाः कालेन गुरवः तपसा लघवः । 'चरमे' चतुर्थे भङ्गे शुद्धः, उभयस्यापि खार्थत्वादिति ॥ ६६८॥ . व्याख्यातः पात्रकल्पिकः, अथावग्रहकल्पिकः प्ररूप्यते । तत्रापि "अप्पत्ते अकहित्ता" 5 (गा० ४७१) इत्यादिगाथा तथैव द्रष्टव्या । नवरं सूत्रमत्र आचारद्वितीयश्रुतस्कन्धस्य सप्तमम् अवग्रहप्रतिमानामकमध्ययनम् । अथ कतिविधोऽयमवग्रहः ? उच्यते
देविंद-राय-गहवइउग्गहो सागारिए अ साहम्मी।
पंचविहम्मि परूविऍ, नायब्वो जो जहिं कमइ ॥ ६६९॥ देवेन्द्रः-शक ईशानो वा, स यावतः क्षेत्रस्य प्रभवति तावान् देवेन्द्रावग्रहः । राजा-10 चक्रवर्तिप्रभृतिको महर्द्धिकः पृथ्वीपतिः, स यावतः षट्खण्डभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावान् राजावग्रहः । गृहपतिः-सामान्यमण्डलाधिपतिः, तस्याप्याधिपत्यविषयभूतं यद् भूमिखण्डं स गृहपत्यवग्रहः । सागारिकः-शय्यातरः, तस्य सत्तायां यद् गृह-पाटकादिकं स सागारिकावग्रहः । साधर्मिकाः-समानधर्माणः साधवः, तेषां सम्बन्धि सक्रोशयोजनादिकं यद् आभाव्यं क्षेत्रं स साधर्मिकावर्ग्रहः । एष च पञ्चविधोऽवग्रहः । एतस्मिन् पञ्चविधेऽवग्रहे 15 वक्ष्यमाणभेदैः प्ररूपिते सति ज्ञातव्यो विधिरित्युपस्कारः । यः 'यत्र' देवेन्द्रादौ 'क्रमते' अवतरति स तत्रावतारणीन इति सङ्ग्रहगाथासमासार्थः ॥ ६६९ ॥ साम्प्रतमेनामेव विवरीपुरमीषां पञ्चानां मध्ये कः कस्माद् बलीयान् ? इति जिज्ञासायां तावदिदमाह
हेडिल्ला उवरिलेहि वाहिया न उ लहंति पाहन्न ।
पुव्वाणुन्नाभिनवं, च चउसु भय पच्छिमेऽभिनवा ॥६७०॥ 20 'अधस्तनाः' देवेन्द्रावग्रहादयः 'उपरितनैः' राजावग्रहादिभिर्यथाक्रमं बाधिताः, अत एव 'न तु' नैव लभन्ते प्राधान्यम्' उत्तमत्वम् । किमुक्तं भवति?-राजावग्रहे राजैव प्रभवति न देवेन्द्रः, ततो देवेन्द्रेणानुज्ञातेऽप्यवग्रहे यदि राजा नानुजानीते तदा न कल्पते तदवग्रहे स्थातुम् । अथानुज्ञातो राज्ञा खविषयावग्रहः परं न गृहपतिना, ततस्तदवग्रहेऽपि न युज्यतेऽवस्थातुम् । अथानुमतं गृहपतिना स्वभूमिखण्डेऽवस्थानं परं न सागारिकेण खावग्रहे, ततोऽपि न कल्पते 25 वस्तुम् ; अथानुज्ञातः सागारिकेण खावग्रहः परं न साधर्मिकैः, तथापि न कल्पते इति; एवमुपरितनैरधस्तना बाध्यन्ते । तथा पूर्वमनुज्ञामभिनवां च चतुर्ववग्रहेषु 'भज' विकल्पय, केषाञ्चित् साधूनां पूर्वानुज्ञा तदपरेषामभिनवेति भजना कार्येत्यर्थः । अथ केयं पूर्वानुज्ञा ? का वाऽभिनवानुज्ञा ? इति, उच्यते-इह योऽवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत् पाश्चात्यै
१°त्ता यावद गृह-वगडादिकं भा० ॥ २ डे० त० विनाऽन्यत्र-°षां सर्वतः सको भा०। °षां सक्रो मो० ले. का० ॥ ३ जनं यद् भा० ॥ ४ °ग्रहः। एतस्मिन् 'पञ्चविधे' पञ्चप्रकारेऽवग्रहे प्ररूपिते सति ज्ञातव्यः, प्रक्रमावग्रह एव । यो यत्र भा०॥ ५'ता द्रष्टव्याः , अत डे० त०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org